Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.311

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.311.1

देवराजमनुप्राप्तं ब्राह्मणच्छद्मनाऽऽवृतम् ।
दृष्ट्वास्वागतमित्याह न बुबोधास्य मानसम् ॥ ३.३११.१ ॥

他看到乔装成婆罗门前来的天王,说了一声"欢迎",却没有理解他的用意。

3.311.2

हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् ।
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥ ३.३११.२ ॥

于是御者之子对那位婆罗门说:"我该给你戴金项链的女子,还是拥有众多牛群的村庄?你要什么?"

3.311.3

हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् ।
नाह दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥ ३.३११.३ ॥

婆罗门说:"那些戴金项链的女子,以及其他能增添喜悦的东西,我在此不愿以布施的方式接受;请把它们给予那些前来请求的人吧。"

3.311.4

यदेतत्सहजं वर्म कुण्डले च तवानघ ।
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥ ३.३११.४ ॥

婆罗门说:"无垢的人啊!若你真的恪守真实之誓,就请割下你与生俱来的这副铠甲和耳环,交给我吧。"

3.311.5

एतदिच्छाम्यहं भिक्षां त्वया दत्तां परंतप ।
एष मे सर्वलाभानां लाभः परमको मतः ॥ ३.३११.५ ॥

婆罗门说:"折磨敌人的人啊!我想要的正是你所施舍的这份布施。在我看来,这是一切所得中最高的所得。"

3.311.6

अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् ।
तत्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम् ॥ ३.३११.६ ॥

迦尔纳说:"婆罗门啊,我可以给你土地、女子、牛群,以及能延续多年的供养;但不会给你连同耳环的铠甲。"

3.311.7

एवं बहुविधैर्वाक्यैर्वार्यमाणः स तु द्विजः ।
रकर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥ ३.३११.७ ॥

如此,尽管他被种种言辞所劝阻,那位婆罗门,婆罗多族中最优秀者啊,却不向迦尔纳求取别的恩惠。

3.311.8

सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि ।
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥ ३.३११.८ ॥

他已尽力被安慰,并依礼被尊敬,那位最优秀的婆罗门却不再求取别的恩惠。

3.311.9

यदा नान्य प्रवृणुते वरं वै द्विजसत्तमः ।
विनाऽस् सहजं वर्म कुण्डले च विशांपते।
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥ ३.३११.९ ॥

那位婆罗门优秀者除了天生铠甲与耳环之外不选别的恩惠时,人主啊,罗陀之子便笑着再次对他说。

3.311.10

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे ।
तेनावध्योस्मि लोकेषु ततो नैतज्जहाम्यहम् ॥ ३.३११.१० ॥

婆罗门啊,我的天生铠甲与出于甘露的耳环,凭着它们我在世间不可被杀;因此我不舍弃它们。

3.311.11

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् ।
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥ ३.३११.११ ॥

婆罗门中的最优秀者啊,请从我这里接受辽阔、安宁、无敌患的大地王国吧。

3.311.12

कुण्डलाभ्यां विमुक्तोऽहंवर्मणा सहजेन च ।
दमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥ ३.३११.१२ ॥

若脱离耳环与天生铠甲,我将可被敌人制服,婆罗门中的最优秀者啊。

3.311.13

यदन्यं न वरं वव्रे भगवान्पाकशासनः ।
ततः प्रहस् कर्णस्तं पुनरित्यब्रवीद्वचः ॥ ३.३११.१३ ॥

当尊贵的帕迦萨纳不再求其他恩赐时,迦尔纳笑着再次对他说了这些话。

3.311.14

विदितो देवदेवेश प्रागेवासि मम प्रभो ।
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥ ३.३११.१४ ॥

诸神之主啊,主啊,我早已认识你。但是,因陀罗啊,我不宜徒然地赐予恩惠。

3.311.15

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम ।
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥ ३.३११.१५ ॥

你本身就是诸神的直接之主;你应当赐予我恩惠。你也是其他众生的主宰,是众生的创造者。

3.311.16

यदि दास्यामि ते देव कुण्डले कवचं तथा ।
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥ ३.३११.१६ ॥

神啊,如果我把耳环和铠甲给你,我将陷入被杀的境地,而你,因陀罗啊,也会被嘲笑。

3.311.17

तस्माद्विनिमयं कृत्वा कुण्डलेवर्म चोत्तमम् ।
हरस्व शक्रकामं मे न दद्यामहमन्यथा ॥ ३.३११.१७ ॥

因此,你应当进行交换,取走耳环和上好的铠甲,满足因陀罗的愿望;否则我不会给予。

3.311.18

विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम् ।
तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥ ३.३११.१८ ॥

我早已知道我会借太阳来到你这里。他已经把一切都告诉了你;事情正是如此,毫无疑问。

3.311.19

काममस्तु तथा तात तव कर्ण यथेच्छसि ।
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि ॥ ३.३११.१९ ॥

亲爱的迦尔纳,就依你所愿吧。除了我的金刚杵,你想要什么恩赐就选什么吧。

3.311.20

ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् ।
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥ ३.३११.२० ॥

于是迦尔纳心中大喜,走近婆娑婆,满心欢喜地选取了那不失的神矛。

3.311.21

वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव ।
अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे ॥ ३.३११.२१ ॥

婆娑婆啊,请以我的铠甲和耳环为交换,把那能在阵前杀伤敌军诸队的不失神矛给我吧。

3.311.22

ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः ।
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥ ३.३११.२२ ॥

大地之主啊,婆娑婆于是心中沉思片刻,就关于神矛之事对迦尔纳说了这些话。

3.311.23

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् ।
गृहाण कर्ण शक्तिं त्वमनेन समयेन च ॥ ३.३११.२३ ॥

迦尔纳啊,把你的耳环和与身体同生的铠甲给我;以此为条件,你便拿去这支神矛吧。

3.311.24

अमोघा हन्ति शतशः शत्रून्मम करच्युता ।
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥ ३.३११.२४ ॥

此不失神矛一经我手投出,便能杀伤敌人成百上千;在诛灭达提耶之后,它又会回到我的手中。

3.311.25

सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम् ।
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ ३.३११.२५ ॥

此箭落入你手,杀死强大的敌人埃拉卡之后,将飞向那吼叫燃烧的敌人,然后必定回到我这里,御者之子啊。

3.311.26

एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे ।
गर्जन्तंप्रतपन्तं च यतो मम भयं भवेत् ॥ ३.३११.२६ ॥

在大战中,我只想杀死一个敌人——那个咆哮燃烧、可能使我恐惧的敌人。

3.311.27

एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे ।
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ ३.३११.२७ ॥

在战斗中你只会杀死一个强大咆哮的敌人;但你所渴望的那人,受到一位大德者的守护。

3.311.28

यमाहुर्वेदविद्वांसो वराहमपराजितम् ।
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ ३.३११.२८ ॥

吠陀智者称为野猪、不可战胜者、那罗延、不可思议者的那位,被那位黑天所守护。

3.311.29

एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन ।
वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः ॥ ३.३११.२९ ॥

正如你所说,灭除达那婆者啊;在战斗中,我将杀死站在我面前的敌人。

3.311.30

एवमप्यस्तु भगवन्नेकवीरवधे मम ।
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम् ॥ ३.३११.३० ॥

就这样吧,尊贵的主啊。为了杀死那一位英雄,请赐予我不会落空的矛,好让我杀死那炽烈的敌人。

3.311.31

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते ।
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत् ॥ ३.३११.३१ ॥

我割下肢体,把耳环和铠甲给你;但肢体被割断后,我不会变得丑陋吗?

3.311.32

न ते बीभत्सता कर्ण भविष्यति कथञ्चन ।
ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि ॥ ३.३११.३२ ॥

迦尔纳,你的形貌绝不会因此毁坏,肢体上也不会留下伤口,因为你不愿说谎。

3.311.33

यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर ।
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥ ३.३११.३३ ॥

最善言者啊,你将以与父亲同样的肤色与光辉,迦尔纳,再次成为那样的人。

3.311.34

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये ।
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ ३.३११.३४ ॥

即使还有其他兵器,你若漫不经心地发出这无可抵挡的神力,它必定落在你自己身上。

3.311.35

संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् ।
यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ ३.३११.३५ ॥

即便陷入极大的疑虑,我也会如你所言,发出这筏娑婆之神力,帝释啊。这是我对你说的真话。

3.311.36

ततः शक्तिं प्रज्वलितां प्रतिगृह् विशांपते ।
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ ३.३११.३६ ॥

于是,人主啊,他接过燃烧的神力,拿起锋利的武器,割断了自己全身的肢体。

3.311.37

ततो देवा मानवा दानवाश्च ।
निकृन्तन्तं कर्णमात्मानमेव।
दृष्ट्वा सर्वे सिंहनादान्प्रणेदु-
र्न ह्यस्यासीन्मुखजो वै विकारः ॥ ३.३११.३७ ॥

那时诸天、人类与檀那婆见卡尔纳割裂自己的身体,都发出如狮子般的吼声。他的面容没有任何变化。

3.311.38

ततो दिव्या दुन्दुभयः प्रणेदुः ।
पपातोच्चैः पुष्पवर्षं च दिव्यम्।
दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं ।
महुश्चापि स्मयमानं नृवीरम् ॥ ३.३११.३८ ॥

于是天鼓齐鸣,天空降下神圣的花雨。见到卡尔纳这位人中英雄,身体被兵器割伤,却屡屡微笑……

3.311.39

ततश्छित्त्वा कवचं दिव्यमङ्गा-
त्तथैवार्द्रं प्रददौ वासवाय।
तथोत्कृत्य प्रददौ कुण्डले ते ।
कर्णात्तस्मात्कर्मणा तेन कर्णः ॥ ३.३११.३९ ॥

随后,他割下身上神圣的护甲,尚带湿血,交给了婆薮(因陀罗)。同样地,他也割下耳环交出。因此这一行为,他被称为卡尔纳。

3.311.40

ततः पश्चाद्दिवमेवोत्पपात ॥ ३.३११.४० ॥

随后他便升往天界。

3.311.41

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा ।
दीनाः सर्वे भग्नदर्पा इवासन्।
तां रचावस्थां गमितं सूतपुत्रं ।
श्रुत्वा पार्था जहृपुः काननस्थाः ॥ ३.३११.४१ ॥

听说卡尔纳被夺走了,持国王的众子都黯然失色,仿佛骄傲已被击碎。而听说御者之子落到了这般境地,住在林中的般度子(普利塔之子)都欢喜起来。

3.311.42

क्वस्ता वीराः पाण्डवास्ते बभूवुः ।
कुतश्चैते श्रुतवन्तः प्रियं तत्।
किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते ।
तन्मे सर्वं भगवान्व्याकरोतु ॥ ३.३११.४२ ॥

那些英雄般的般度之子在何处?他们从何处听闻那喜讯?十二年过去之后,他们做了什么?尊者,请把这一切详细地告诉我。

3.311.43

लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा ।
विप्रैः सार्धं काम्यकादाश्रमात्ते।
मार्कण्डेयाच्छ्रुतवन्तः पुराणं ।
कदेवर्षीणआं चरितं विस्तरेण ॥ ३.३११.४३ ॥

驱逐了娑indhava并夺回了克利希那之后,他们与婆罗门一同离开了甘亚迦隐修处。在那里,他们从摩尔根德耶处详细听取了往世书及天仙的事迹。

3.311.44

प्रत्याजग्मुः सरथाः सानुयात्राः ।
सर्वैः सार्धं सूतपौरोगवैस्ते।
ततो ययुर्द्वैतवनं नृवीरा ।
निस्तीर्यैवं वनवासं समग्रम् ॥ ३.३११.४४ ॥

他们带着战车与随从返回。与所有御者和厨师一同,那些人中英雄便前往二重林。如此,他们圆满完成了整个林中流放。