Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.315

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.315.1

ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवः ।
क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम् ॥ ३.३१५.१ ॥

于是依夜叉之言,般度五子站起身来,众人的饥渴在顷刻间消散。

3.315.2

सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ ३.३१५.२ ॥

不败者啊,你单足立于湖中,我问:你是谁?我认为你不是夜叉,你在我看来是一位神。

3.315.3

बसूनां वा भवानेको रुद्राणामथवा भवान् ।
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥ ३.३१५.३ ॥

你是诸婆苏之一,还是诸楼陀罗之一,或是诸摩噜多中的最尊者,抑或持金刚的三十神之主因陀罗?

3.315.4

मम हि भ्रातर इमे सहस्रशतयोधिनः ।
तं योधं न प्रपश्यामि येन सर्वे निपातिताः ॥ ३.३१५.४ ॥

我的这些兄弟都是成百上千的勇士;然而我看不见那使他们全部倒下的勇士。

3.315.5

सुखं प्रति प्रबुद्दानामिन्द्रियाण्युपलक्षये ।
स भवान्सुहृदोस्माकमथवा नः पिता भवान् ॥ ३.३१५.५ ॥

我察觉到醒来的人们的感官重新转向快乐。你是我们的朋友,还是我们的父亲?

3.315.6

अहंते जनकस्तात धर्मो मृदुपराक्रम ।
त्वां रदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ३.३१५.६ ॥

孩子啊,我是你的父亲法(达摩),温和勇武的人。因想见你而来。认出我吧,婆罗多的雄牛。

3.315.7

यशः सत्यंदमः शौचमार्जवं ह्रीरचापलम् ।
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ३.३१५.७ ॥

名声、真实、克制、清净、正直、羞耻心、沉稳、布施、苦行与梵行——这些便是我的身体。

3.315.8

अहिंसा समता शान्तिस्तपः शौचममत्सरः ।
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सुतो मम ॥ ३.३१५.८ ॥

不害、平等、寂静、苦行、清净与无嫉妒——当知这些是我的门户。你对我而言可爱,因为你是我的儿子。

3.315.9

दिष्ट्या पञ्चसु रक्तोसि दिष्ट्या ते षट्रपदी जिता ।
द्वे पूर्वे मध्यमे द्वे च द्वे शान्ते सांपरायिके ॥ ३.३१५.९ ॥

幸运的是你执着于五者,幸运的是你已战胜了六足者。前两者、中间两者与关乎来世的两者,皆是寂静的。

3.315.10

ध्रमोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः ।
आनृशंस्येन तुष्टोस्मि वरं दास्यामि तेऽनघ ॥ ३.३१५.१० ॥

我是法。愿你吉祥——我来此是想要考验你。我对你的仁慈感到满意,无垢者啊,我将赐你一个恩惠。

3.315.11

वरं वृणीष्व राजेन्द्रदाता ह्यस्मि तवानघ ।
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ३.३१५.११ ॥

王中之王啊,请选择一个恩惠,我便是赐予你的人。无垢者啊,凡是虔诚于我的人,都不会堕入不幸的境地。

3.315.12

अरणी तु हृतायस्य मृगेण वदतांवर ।
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ ३.३१५.१२ ॥

言辞最善者啊,一只鹿拿走了一位婆罗门的取火木。愿他的圣火不致熄灭——这便是我的第一个恩惠。

3.315.13

आरणेयमिदं तस्य ब्राह्मणस्य हृतं मया ।
मृगवेषेण कौन्तेय जिज्ञालार्थं तवानघ ॥ ३.३१५.१३ ॥

孔提之子啊,无罪者,我化作鹿形夺走了那位婆罗门的钻木火具,只为考验你。

3.315.14

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ ३.३१५.१४ ॥

“我会给你。”世尊这样回答。愿你吉祥,如天神一般的人啊,请另选一个恩赐吧。

3.315.15

वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।
तत्रनो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥ ३.३१५.१५ ॥

十二年已在森林中过去,第十三年已经来临。在那里居住时,愿人们在任何地方都不认出我们。

3.315.16

ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ ३.३१५.१६ ॥

“我会给你。”世尊这样回答,并再次安慰了真正勇猛的孔提之子。

3.315.17

यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।
न वो विज्ञास्यते कश्चित्रिषु लोकेषु भारत ॥ ३.३१५.१७ ॥

即使你们以自己的本来面目行走于这大地,婆罗多的后裔啊,三界之中也无人认得你们。

3.315.18

वर्षंत्रयोदशमिदं मत्प्रसादात्कुरूद्वहाः ।
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ ३.३१५.१८ ॥

庫如的英杰们,蒙我恩德,这第十三年你们将在毗罗吒城中隐匿而不为人知地度过。

3.315.19

यद्वः संकल्पितं रूपं मनसा यस् यादृशम् ।
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ ३.३१५.१९ ॥

你们心中所想的形貌,无论是何种样子,你们都将随意示现那样的形貌,那样的形貌。

3.315.20

अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छत ।
जिज्ञासार्थं मया ह्येतदाहृतंमृगरूपिणा ॥ ३.३१५.२० ॥

把这只带着钻木取火棒的器皿还给婆罗门吧。我正是为了考验他,才化作鹿形把它带来的。

3.315.21

प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते ।
न तृप्यामि नरश्रेष्ठ प्रयच्छन्वै वरांस्तथा ॥ ३.३१५.२१ ॥

温和的人啊,请再选一件你中意的恩赐,我会赐予你。人中之雄啊,即使赐予恩典,我也从未感到满足。

3.315.22

तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।
त्वं हि मत्प्रभवो राजन्विदुरश्चममांशजः ॥ ३.३१५.२२ ॥

孩子,接受第三件无与伦比的伟大恩赐吧。国王啊,你本是我所生,维杜罗也是从我的一部分而生。

3.315.23

देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ ३.३१५.२३ ॥

父亲啊,我亲眼见到了您,神中之神、永恒者。您若欢喜赐予的恩典,我都将接受。

3.315.24

जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।
दाने तपसि सत्ये च मनो मे सततं वेत् ॥ ३.३१५.२४ ॥

主啊,愿我永远战胜贪欲、迷惑与愤怒。愿我的心始终专注于布施、苦行与真实。

3.315.25

रउपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव ।
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ ३.३१५.२५ ॥

般度之子啊,你天生具备这些德性。你就是法(达摩),正如先前所说,此事将再次降临于你。

3.315.26

इत्युक्त्वान्तऽर्दधे धर्मो भगबाँल्लोकभावनः ।
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ ३.३१५.२६ ॥

说完这些,世界的守护者、尊贵的法(达摩)便消失了;聚集在一起、安然入睡的心志高远的般度五子也(醒了过来)。

3.315.27

उपेत्यचाश्रमं वीराः सर्व एव गतक्लमाः ।
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ ३.३१५.२७ ॥

众英雄来到修道林,疲惫尽去,便把林中的猎物交给那位苦行的婆罗门。

3.315.28

इदं समुत्थानसमागतं मह-
त्पितुश्चपुत्रस्य च कीर्तिवर्धनम्।
पठन्नरः रस्याद्विजितेन्द्रियो वशी ।
सपुत्रपौत्रः शतपर्षभाग्भवेत् ॥ ३.३१५.२८ ॥

诵读这部增添父与子声名的伟大叙事的人,若能战胜诸根、克己自持,便会与子孙一道拥有相当于百头公牛的财富。

3.315.29

न चाप्यधर्मे न सुहृद्विभेदने ।
परस्वहारे परदारमर्शने।
कदर्यभावे न रमेनेमनः सदा ।
नृणां सदाख्यानमिदं विजानताम् ॥ ३.३१५.२९ ॥

懂得这部真实叙事的人,其心绝不会沉溺于不义、离间朋友、夺取他人财物、亲近他人之妻或吝啬之中。