摩诃婆罗多 · 章 3.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.39.1
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु ।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥ ३.३९.१ ॥
当那些大德的苦行者都离去之后,手持毗那迦弓的世尊、消除一切罪孽的诃罗(湿婆)出现了。
3.39.2
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम् ।
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥ ३.३९.२ ॥
化作猎人(俱罗多)之形,如金树一般,身体光辉闪耀,犹如另一座须弥山。
3.39.3
श्रीगद्धनुरुपादाय शरांश्चाशीविषोपमान् ।
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥ ३.३९.३ ॥
他取起光辉的弓,携带如毒蛇般的箭,极为光明地跃出,如同焚烧林莽的烈火。
3.39.4
देव्या सहोमया श्रीमान्समानव्रतवेषया ।
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥ ३.३९.४ ॥
那时,尊贵的(湿婆)与同样持戒、同样装束的天女乌玛在一起,身边跟随着化作各种形貌、欢喜的鬼众。
3.39.5
किरातवेषसंछन्नः स्त्रीभिश्चापि सहस्रशः ।
अशोभत तदा राजन्स देशोऽतीव भारत ॥ ३.३९.५ ॥
(湿婆)以俱罗多猎人之形隐藏其身,与成千上万的女子同在,那地方便极为光彩,啊国王,啊婆罗多的后裔。
3.39.6
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा ।
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥ ३.३९.६ ॥
顷刻之间,整片森林都变得寂静无声;那时,溪流的响声和飞鸟的鸣叫也都停止了。
3.39.7
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः ।
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥ ३.३९.७ ॥
他来到行事不费力的般度之子身边,看见了名叫牟迦的提提之子,其相貌奇异。
3.39.8
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम् ।
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥ ३.३९.८ ॥
他化作野猪之形,仿佛恐吓阿周那,那极其邪恶之人——为了杀他,法尔古那于是对他说道。
3.39.9
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् ।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥ ३.३९.९ ॥
手持甘狄拔弓,取出如毒蛇般的箭,把良弓上好弦,以弓弦之声使其轰鸣。
3.39.10
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् ।
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥ ३.३९.१० ॥
你想杀我这个来到此地的无辜之人,所以我要先把你送往阎摩的居所。
3.39.11
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् ।
किरातरूपी सहसा वारयामास शंकरः ॥ ३.३९.११ ॥
见法尔古那,这位强弓手,正要出手,身为猎人之形的湿婆忽然阻止了他。
3.39.12
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः ।
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥ ३.३९.१२ ॥
这位光彩如乌云的,我先前已恳请过;但法尔古那无视我的话,便向他发出了攻击。
3.39.13
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः ।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥ ३.३९.१३ ॥
同时,大光辉的吉罗多向那唯一的目标射出一支如霹雳、如火焰的箭。
3.39.14
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः ।
मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा ॥ ३.३९.१४ ॥
二人所射出的两支箭同时落在那里,落在宽阔如山脊的穆卡身上。
3.39.15
यथाऽशनैर्विनिष्पेषो वज्रस्येव च पर्वते ।
तथा तयोः सन्निपातः शरयोरभवत्तदा ॥ ३.३९.१५ ॥
正如霹雳与金刚杵猛击在山上,那时两支箭也如此猛烈相撞。
3.39.16
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ।
ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम् ॥ ३.३९.१६ ॥
他被许多如燃烧着口的毒蛇般的箭射穿,再次化为极其可怕的罗刹之形而死去。
3.39.17
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।
किरातवेषसंछन्नं स्त्रीसहायममित्रहा ॥ ३.३९.१७ ॥
于是,敌人的杀手胜利者(阿周那)看见一位金色光辉的人,身穿吉罗多的装束,与一位女子同行。
3.39.18
तमब्रवीत्प्रीतमना कौन्तेयः प्रहसन्निव ।
को भवानटते शून्ये वने रस्त्रीगणसंवृतः ॥ ३.३९.१८ ॥
欢喜的贡蒂之子笑着对他说:
3.39.19
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ।
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ॥ ३.३९.१९ ॥
金光闪耀的人啊,你在这可怕的森林中不害怕吗?你为何射伤了这头属于我的鹿?
3.39.20
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ।
कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे ॥ ३.३९.२० ॥
这个罗刹先前已被我所伤,来到此处。无论出于欲念还是轻蔑,你都不能在我手中活着脱身。
3.39.21
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि ।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम् ॥ ३.३९.२१ ॥
你今天对我所做的,不是狩猎的法则。因此,居于山中的人啊,我要使你从生命中坠落。
3.39.22
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव ।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनं ॥ ३.३९.२२ ॥
般度之子如此说后,猎人仿佛含笑,以温和的语言对般度之子、左右开弓者说道。
3.39.23
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात् ।
इयं भूमिः सदाऽस्माकमुचिता वसतां वने ॥ ३.३९.२३ ॥
勇士啊,不必因我而畏惧近林之处。这片土地对我们这些居住在森林中的人来说,历来是适宜的。
3.39.24
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः ।
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन ॥ ३.३९.२४ ॥
可是你为何选择在这里居住,这对你来说是困难的?我们住在这充满生灵的森林中,苦行的宝藏啊。
3.39.25
भवांस्तु कृष्णवत्मार्भः सुकुमारः सुखोचितः ।
कथं शून्यमिमं देशमेकाकी विचरिष्यति ॥ ३.३९.२५ ॥
而你,一个柔弱、习惯安逸、肤色黝黑的少年,独自一人如何在这荒凉之地漫游?
3.39.26
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान् ।
निवसामि महारण्ये द्वितीय इव पावकः ॥ ३.३९.२६ ॥
我以甘狄拔弓为依靠,携带如火般的铁箭,居住在这大森林中,如同第二团火焰。
3.39.27
एष चापि मया जन्तुर्मृगरूपं समाश्रितः ।
राक्षसो निहतो घोरो हन्तुं मामिह चागतः ॥ ३.३९.२७ ॥
这个化作鹿形的生物也被我杀死了;这个可怕的罗刹是来这里杀我的。
3.39.28
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि ।
बाणैरभिहतः शेते नीतश्च यमसादनम् ॥ ३.३९.२८ ॥
我先前已用从弓上射出的箭击中了他;他被箭射倒而躺卧,已被送往阎摩的居所。
3.39.29
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः ।
ममैव च प्रहारेण जीविताद्व्यपरिपितः ॥ ३.३९.२९ ॥
此物本就是我的目标,早已归我所有;而他的生命正是被我这一击所夺。
3.39.30
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः ।
अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥ ३.३९.३० ॥
愚昧之人啊,你因自己的力量而骄狂!你不应把自己的过错推给别人。我已将你困住;你休想从我手中活着逃脱。
3.39.31
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव ।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥ ३.३९.३१ ॥
坚定站立,我将射出如雷电般的箭。以最大之力努力吧,你也放箭。
3.39.32
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा ।
रोषमाहारयामास ताडयामास चेषुभिः ॥ ३.३९.३२ ॥
阿周那听了这位猎人的话,便愤怒起来,用箭射击他。
3.39.33
ततो हृष्टेन मनसा प्रतिजग्राह सायकान् ।
भूयोभूय इति प्राह मन्दमन्देत्युवाच ह ॥ ३.३९.३३ ॥
于是他心中欢喜,接受了那些箭,并一再说:“愚人,愚人!”
3.39.34
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः ।
इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः ॥ ३.३९.३४ ॥
“用这些穿透要害的那罗遮箭来攻击吧。”听他这样说,阿周那立刻射出一阵箭雨。
3.39.35
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः ।
शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥ ३.३९.३५ ॥
于是二人在此愤怒地一再咆哮,用如毒蛇般的箭彼此射击。
3.39.36
ततोऽर्जुनः शरवर्षं किराते समवासृजत् ।
तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ॥ ३.३९.३६ ॥
于是阿周那向猎人射出一阵箭雨;湿婆以喜悦的心接受了它。
3.39.37
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक् ।
अक्षतेन शरीरेण तस्थौ गिरिवाचलः ॥ ३.३९.३७ ॥
持弓者接受了片刻的箭雨,毫发无损,如山岳般屹立不动。
3.39.38
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः ।
परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत् ॥ ३.३९.३८ ॥
财富征服者见箭雨已然无效,大为惊异,说道:“善哉,善哉!”
3.39.39
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः ।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥ ३.३९.३९ ॥
啊!这位身形柔弱、居于喜马拉雅峰顶的人,竟从容承受着从甘狄瓦弓射出的铁箭!
3.39.40
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः ।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥ ३.३९.४० ॥
此人是何神灵?莫非真是楼陀罗,或夜叉、天神、阿修罗?这座群山之冠之上,诸神齐聚了。
3.39.41
न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः ।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥ ३.३९.४१ ॥
除了持弓的大神,无人能承受我所射出的千万箭网之势。
3.39.42
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः ।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ ३.३९.४२ ॥
无论他是天神、夜叉,还是楼陀罗之外的其他神灵,我都要用利箭将他送往阎摩之所。
3.39.43
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः ।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥ ३.३९.४३ ॥
于是心中欢喜的胜者(阿周那),啊,大王,射出能穿透要害的铁箭,百道齐发,如太阳放出光芒。
3.39.44
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः ।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥ ३.३९.४४ ॥
维持世界的世尊,持三叉戟者,以平静的心接住了那些箭,如山岳承受石雨。
3.39.45
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा ।
वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ॥ ३.३९.४५ ॥
一瞬之间,法尔古那(阿周那)的箭已耗尽;见自己的箭已尽,他心中生出恐惧。
3.39.46
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् ।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥ ३.३९.४६ ॥
于是胜者(阿周那)想起了世尊胡陀舍那(火神),他往昔在干陀婆林中赐给他两只永不枯竭的箭袋。
3.39.47
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः ।
अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः ॥ ३.३९.४७ ॥
"我的箭已耗尽;此弓我还能射出什么?而这个不知是谁的人,正在吞噬我所有的箭。"
3.39.48
अहमेनं धनुष्कोट्या रशूलाग्रेणेव कुञ्जरम् ।
नयामि दण्डधारस्य यमस्य सदनं प्रति ॥ ३.३९.४८ ॥
"我将以弓的末端引导他,如以矛尖驱赶大象,前往持杖者阎摩的居所。"
3.39.49
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च ।
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः ॥ ३.३९.४९ ॥
于是那位大光明者抓住弓端,以弓弦为套索将其拉下,并用如霹雳般的拳头击打他。
3.39.50
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा ।
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः ॥ ३.३९.५० ॥
贡蒂之子、杀敌英雄者以弓端相搏;而山居者又夺去了他的神弓。
3.39.51
ततोऽर्जुनो ग्रस्तधनुः खङ्गपाणिरतिष्ठत ।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥ ३.३९.५१ ॥
于是弓被夺去的阿周那手持宝剑站立;他想结束战斗,便疾速向他冲去。
3.39.52
तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि ।
मुमोय भुजवीर्येण विक्रम्य कुरुनन्दनः ॥ ३.३९.५२ ॥
库鲁族的欢喜者以臂力奋勇向前,将一柄锋利的宝剑斩向他的头顶,此剑即使穿越山峦也无阻碍。
3.39.53
तकस्य मूर्धानमासाद्य पफालासिवरो हि सः ।
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ॥ ३.३९.५३ ॥
剑刃触及猎人的头顶,那柄利剑果然断裂了。于是法尔古那以树木和岩石与他搏斗。
3.39.54
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ।
किरातरूपी भगवांस्ततः पार्थो महाबलः ॥ ३.३९.५४ ॥
那身躯庞大者便接住了树木与岩石;于是以猎人之相显现的世尊,阻住了强大的般度子。
3.39.55
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ।
प्रजहार दुराधर्षे किरातसमरूपिणि ॥ ३.३९.५५ ॥
他以如雷击般的拳头击打他的脸,使烟雾从面部升起,击打了那位难以抵御、具有猎人(किरात)形象的人。
3.39.56
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः ।
किरातरूपी भगवानर्दयामास फल्गुनम् ॥ ३.३९.५६ ॥
于是,化身为猎人(किरात)的世尊以如帝释雷霆般极为可怕的拳头击打法尔古那。
3.39.57
ततश्चटचटाशब्दः सुधोरः समजायत ।
पाण्डवस्य च मुष्टीनां किरातस् च युध्यतः ॥ ३.३९.५७ ॥
于是,在他们交战时,般度之子与猎人(किरात)的拳头发出极为可怕的噼啪声。
3.39.58
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम् ।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥ ३.३९.५८ ॥
他们二人的这场搏斗持续了好一阵,令人毛骨悚然,充满臂膀的打击,如同弗栗多与婆薮(因陀罗)的战斗。
3.39.59
महाराज ततो जिष्णुः किरातमुरसा बली ।
पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात् ॥ ३.३९.५९ ॥
大王啊,于是那位强大的胜利者(阿周那)以胸膛撞击猎人(किरात),而猎人也猛烈地击打挣扎的般度之子。
3.39.60
तयोर्भुजविनिष्पेषात्संधर्षेणोरसोस्तथा ।
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥ ३.३९.६० ॥
由于他们双臂的挤压和胸膛的摩擦,他们的肢体上升起了带着炭火与烟雾的火焰。
3.39.61
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् ।
तेजसा व्क्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥ ३.३९.६१ ॥
于是大神以肢体紧紧压住他,以威光与愤怒向前逼进,迷乱了他的心神。
3.39.62
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ ।
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥ ३.३९.६२ ॥
于是,法尔古那被他的肢体紧紧压迫,宛如被揉成一团,婆罗多啊,被困于神中之神的肢体之间。
3.39.63
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः ।
ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥ ३.३९.६३ ॥
他失去呼吸,被完全制服,心神迷乱地倒下;于是婆娑(湿婆)欢喜了。
3.39.64
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः ।
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः ॥ ३.३९.६४ ॥
他如此停留片刻,随后恢复知觉,再次站起,肢体浸满鲜血;这位般度之子深感悲痛。
3.39.65
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम् ।
मृन्मयं स्ण्डिलं कृत्वामाल्येनापूजयद्भवम् ॥ ३.३९.६५ ॥
他投奔那值得依靠的尊神、持pināka弓者,以泥土筑成祭坛,以花环供养婆婆。
3.39.66
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम् ।
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः ॥ ३.३९.६६ ॥
此时般度之子中最优秀者见那花环正戴在猎人(Kirāta)的头上,心中欢喜,恢复了常态。
3.39.67
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः ।
उवाच चैनं वचसा मेघगम्भीरगीर्हसः।
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् ॥ ३.३९.६७ ॥
他跪倒在他的脚下。于是婆婆(湿婆)欢喜,以如云般深沉的声音微笑着对他说,见他充满惊异、身形消瘦。
3.39.68
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते ।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥ ३.३९.६८ ॥
哦,法尔古那,我因你无与伦比的功业而欢喜。在这份勇武与坚毅中,没有刹帝利能与你相比。
3.39.69
समं तेजश्च वीर्यं च ममाद्य तव चानघ ।
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ ॥ ३.३९.६९ ॥
哦,无罪者,今日我的光辉与威力与你相等。哦,大臂者,婆罗多中的公牛,我因你而欢喜;请看我。
3.39.70
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान् ।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥ ३.३९.७० ॥
哦,广目者,我赐你天眼。你前世曾是仙人。在战斗中你将战胜一切敌人,甚至天界的居民。
3.39.71
प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम् ।
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ॥ ३.३९.७१ ॥
出于慈爱,我将赐你那不可抵挡的兵器,因为唯有你能在刹那间执持我的这件兵器。
3.39.72
ततो देवं महादेवं गिरिशं शूनपाणिनम् ।
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥ ३.३९.७२ ॥
于是法尔古那(阿周那)在那里看见了光辉赫赫的天神摩诃提婆与女神同在;他是山主,手持三叉戟。
3.39.73
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च ।
प्रसादयामास हरं पार्थः परपुरंजयः ॥ ३.३९.७३ ॥
他跪地俯首至地,敬礼之后,征服敌城的般度之子安抚了哈罗(湿婆)。
3.39.74
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन ।
देवदेव महादेव नीलग्रीव जटाधर ॥ ३.३९.७४ ॥
噢,卡帕尔丁,众生之主,毁灭薄伽之眼者,神中之神,大天,蓝颈者,束发者!
3.39.75
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम् ।
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् ॥ ३.३९.७५ ॥
我知你是诸因中的至上因,三眼的遍在之神,诸天的归宿;此世界由你而生。
3.39.76
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः ।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ ३.३९.७६ ॥
你是三界——诸天、阿修罗与人类——所不能征服的;敬礼以毗湿奴之相的湿婆,敬礼以湿婆之相的毗湿奴。
3.39.77
दक्षियज्ञविनाशाय हरिरूपाय ते नमः ।
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये ॥ ३.३९.७७ ॥
敬礼你,毁灭达刹祭祀者,以哈里之相显现;敬礼额有慧眼的沙尔瓦、施恩者、持三叉戟者。
3.39.78
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे ।
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर ॥ ३.३९.७८ ॥
敬礼你,弓箭皮纳卡的守护者,如日之光,吉祥而造物者。尊贵的主啊,诸有情之大自在天,我向你祈求平息。
3.39.79
गणेशं जगतः शम्भुं लोककारणकारणम् ।
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् ॥ ३.३९.७९ ॥
世界之主迦内沙、湿婆(吉祥者)、诸世界因之因、超越原初物质与原人、至上而极为微妙的哈罗。
3.39.80
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर ।
भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम् ॥ ३.३९.८० ॥
尊贵的湿婆(商羯罗),请您宽恕我的冒犯。我渴望得见尊主,因而来到这座大山。
3.39.81
दयितं तव देवेश तापसालयमुत्तमम् ।
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम् ॥ ३.३९.८१ ॥
诸神之主啊,这处殊胜的苦行者居所是您所钟爱的。尊主啊,您受一切世界礼敬,我恳求您。
3.39.82
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह ।
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शंकर ॥ ३.३९.८२ ॥
我出于无知与您发生的这场冲突,哦湿婆(商羯罗),请今日为已皈依的我宽恕。
3.39.83
तमुवाच महातेजाः प्रहसन्वृषभध्वजः ।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥ ३.३९.८३ ॥
于是大光辉者、以牛为旗者含笑握住他那美丽的手臂,对法尔古那说:「已经宽恕了。」
3.39.84
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः ।
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः ॥ ३.३९.८४ ॥
哈罗(以牛为旗的尊主)以双臂拥抱他,心中欢喜,再次以安慰之语对帕尔塔说道。
3.39.85
गङ्गाङ्गितजटः शर्वः पार्थस्यामिततेजसः ।
प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् ॥ ३.३९.८५ ॥
湿婆(Śarva),其缠结的发辫被恒河所标记,握住了无量光辉的阿周那(Pārtha)那只圆润美丽的手臂,其掌心与指头呈铜红色。