摩诃婆罗多 · 章 3.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.45.1
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।
शक्रस्य मतमाज्ञाय पार्थमानर्चुर्जसा ॥ ३.४५.१ ॥
于是诸天与乾达婆understood因陀罗之意,取来上好的敬礼之物,以全副力量礼敬般度之子(阿周那)。
3.45.2
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।
प्रवेशयामासुरथो पुरन्दरनिवेशनम् ॥ ३.४५.२ ॥
让这位王子接受洗足水与漱口水之后,他们将王子引入了补罗檀陀罗(因陀罗)的居所。
3.45.3
एवं संपूजितो जिष्णुरुवास भवने पितुः ।
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥ ३.४५.३ ॥
如此受到敬重的胜利者(阿周那)住在父亲的宫中,般度之子学习了诸大神兵及其收回之法。
3.45.4
स शक्रहस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् ।
अशनिं च महानादां मेघबृंहितलक्षणाम् ॥ ३.४५.४ ॥
他从因陀罗手中得到了心爱而难以抵挡的金刚神兵,以及发出巨响、具有雷云轰鸣之相的雷电神兵。
3.45.5
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः ।
पुरन्दरनियोगाच्च पञ्चाब्दमवसत्सुखम् ॥ ३.४५.५ ॥
既得神兵,般度之子(俱紧底之子)忆念诸兄弟;依因陀罗之命,他在那里快乐地住了五年。
3.45.6
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते ।
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ ३.४५.६ ॥
时机到来,因陀罗对已精通神兵的般度之子说:"俱紧底之子啊,向支多罗犀那学习舞蹈与歌唱吧。"
3.45.7
वादित्रं दैवविहितं नृलके यन्न विद्ते ।
मदाज्ञया च कौन्तेय श्रेयो वै ते भविष्ति ॥ ३.४५.७ ॥
那件由诸神安排、人间世界所无的乐器;而且依我的命令,俱卢族之子啊,你将获得福报。
3.45.8
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः ।
स तेन सह संगम्य रेमे पार्थो निरामयः ॥ ३.४५.८ ॥
因陀罗赐给他一位名叫citrasena的同伴;与他相会后,无恙的阿周那感到欢喜。
3.45.9
कदाचिदटमानस्तु महर्षिरथ लोमशः ।
जगाम शक्रभवनं पुरंदरदिदृक्षया ॥ ३.४५.९ ॥
一次,大仙人罗摩莎漫游,想见因陀罗,便前往释迦(帝释)的宫殿。
3.45.10
स समेत्य नमस्कृत्य देवराजं महामुनिः ।
ददर्शार्धासनगतं पाण्डवं वासवस्य हि ॥ ३.४५.१० ॥
这位大仙走近诸神之王并致敬,看见般度之子坐在因陀罗宝座的一半上。
3.45.11
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे ।
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥ ३.४५.११ ॥
于是,经释迦允许,这位最优秀的再生者在高座上坐下,受到众大仙的敬重。
3.45.12
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् ।
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥ ३.४५.१२ ॥
看见他,心中生起一个念头:作为刹帝利的阿周那,怎么能获得释迦的座位,坐在因陀罗的宝座上呢?
3.45.13
किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः ।
स एवमनुसंप्राप्तः स्थानं देवनमस्कृतम् ॥ ३.४५.१३ ॥
他有何善行?他征服了哪些世界,才这样到达了这个受诸神礼敬的地方?
3.45.14
तस्य विज्ञाय संकल्पं शक्रो वृत्रविमर्दनः ।
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥ ३.४५.१४ ॥
帝释天(Śakra),诛杀弗栗多、舍质之主,知其心意,笑着对罗摩沙说了这番话。
3.45.15
देवर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् ।
नायं केवलमर्त्योऽभूत्क्षत्रियत्वमुपागतः ॥ ३.४५.१५ ॥
天仙啊,请听你心中想说的话:此人不只是凡人,他已获得了刹帝利的身份。
3.45.16
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः ।
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥ ३.४५.१६ ॥
大仙啊,这是我的儿子,由贡蒂所生的大臂者。他为了兵器而来此地,是出于别的某种缘故。
3.45.17
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् ।
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥ ३.४५.१७ ॥
啊,你不认识这位古老的最上仙人吗?婆罗门啊,听我说:他是谁,这事的缘由又是什么。
3.45.18
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
ताविमावभिजानीहि हृषीकेशधनंजयौ ॥ ३.४५.१८ ॥
那两位古老的最上仙人,那罗与那罗衍那——你应知道这二人就是希利吉舍(黑首)与财胜。
3.45.19
विख्यातौ त्रिषु लोकेषु नरनारायणावृषी ।
कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम् ॥ ३.४५.१९ ॥
名闻三界的两位仙人那罗与那罗延,为某一目的降临于这片神圣的大地。
3.45.20
यन्न शक्यं शुरैर्द्रष्टुमृषिभिर्वा महात्मभिः ।
तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम् ॥ ३.४५.२० ॥
那处神圣的修行林苑,即便英雄与大德仙人也无法得见,名为菩陀里,闻名于世。
3.45.21
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च ।
यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥ ३.४५.२१ ॥
婆罗门啊,那里既是毗湿奴的居所,也是胜者(阿周那)的居所;恒河正是从那里流出,受悉陀与遮兰那的侍奉。
3.45.22
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती ।
भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥ ३.४५.२२ ॥
梵仙啊,依我的命令,这两位大光辉、大威力者将降生于大地,减轻大地的重负。
3.45.23
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति ।
विप्रियेषु स्थिताऽस्माकं वरदानेन मोहिताः ॥ ३.४५.२३ ॥
名为尼瓦塔卡瓦恰的一些阿修罗变得傲慢,与我们为敌,因所得的恩赐而迷惑。
3.45.24
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः ।
देवान्न गणयन्त्येते तथा दत्तवरा हि ते ॥ ३.४५.२४ ॥
他们满怀力量的骄傲,图谋杀害诸神;因获得恩赐,他们便视诸神如无物。
3.45.25
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः ।
सर्वे देवनिकाया हि नालं योधयितुं हि तान् ॥ ३.४५.२५ ॥
居于地下界的凶猛而强大的檀努之子,诸天神众中无一能够与之交战。
3.45.26
योसौ भूमिगतः श्रीमान्विष्णुर्मुधुनिषूदनः ।
कपिलो नाम देवोसौ भगवानजितो हरिः ॥ ३.४५.२६ ॥
那位光辉的毗湿奴,摩图的摧灭者,以迦毗罗之名降临大地——那位薄伽梵神,不可征服的诃利。
3.45.27
येन पूर्वंमहात्मानः खनमाना रसातलम् ।
दर्शनादेव निहताः सगरस्यात्मजा विभो ॥ ३.४५.२७ ॥
啊,伟大者!昔日挖掘地下界的萨伽罗诸子,正是被他的一瞥之下所杀。
3.45.28
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम ।
पाथेन च महायुद्धे समेताभ्यामसंशयम् ॥ ३.४५.२८ ॥
啊,最优秀的再生者!我们的大事必将由他与帕尔塔一同在那场大战中完成——对此毫无疑问。
3.45.29
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान् ।
निवातकवचान्सर्वान्नागानिव महाह्रदे ॥ ३.४५.२९ ॥
他仅凭一瞥,便能连同其随从一起诛杀阿修罗——所有尼婆多迦婆迦,如同在大湖中杀死蛇群一般。
3.45.30
किंतु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः ।
तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत् ॥ ३.४५.३० ॥
然而,不应为了小事唤醒摩图苏陀那;那巨大的光明之聚一旦觉醒,便会焚毁世界。
3.45.31
अयं तेषां समस्तानां शक्तः प्रतिसमासने ।
तान्निहत्यरणे शूरः पुनर्यास्यति मानुषान् ॥ ३.४५.३१ ॥
他能够抵挡他们所有人;这位英雄在战场上杀死他们之后,将重新回到人间。
3.45.32
भवानस्मन्नियोगेन यातु तावन्महीतलम् ।
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥ ३.४५.३२ ॥
奉我们之命,你现在可以周游大地;在迦密耶迦林,你将见到居住在那里的英雄坚战。
3.45.33
सवाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः ।
नोत्कणअठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥ ३.४५.३३ ॥
以我的口信告诉那位心怀正义、誓言守信的人:不要为法尔古那而思念焦急;他精通武器后,很快就会回来。
3.45.34
नाशुद्बाहुवीर्येण नाकृतास्त्रेण वा रणे ।
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥ ३.४५.३४ ॥
臂力不纯净之人,或未学会武器之人,在战斗中都无法抵挡毗湿摩、德罗纳等人。
3.45.35
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः ।
नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान् ॥ ३.४५.३५ ॥
大臂、大心的古达克舍(阿周那)已执起武器,并精通天界的舞蹈、乐器与歌唱。
3.45.36
भवानपि विविक्तानि तीर्थानि मनुजेश्वर ।
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥ ३.४५.३६ ॥
人主啊,你也应当与所有兄弟一同去观礼那些幽静的圣地,哦,降伏敌人者。
3.45.37
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः ।
राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मपः ॥ ३.४५.३७ ॥
在圣洁的渡口沐浴之后,你将摆脱罪恶与忧愁的热恼,依法享有王国,幸福而无污垢。
3.45.38
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम् ।
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥ ३.४५.३८ ॥
你啊,二生者中最优秀者,婆罗门中的第一人,具足苦行之力,理应护持他在大地上漫游。
3.45.39
गिरिदुर्गेषु च सदा देशेषु विषमेषु च ।
वसन्ति रासा रौद्रास्तेभ्योरक्षां विधास्यति ॥ ३.४५.३९ ॥
在山间险要之地和崎岖之处,常有凶猛可怖的罗刹居住;他将为你们提供防护,免受他们的侵害。
3.45.40
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम् ।
उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम् ॥ ३.४५.४० ॥
因陀罗如此说后,比跋苏(阿周那)也恭敬地对罗摩莎说道:“请您护佑般度之子。”
3.45.41
यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम ।
दानं दद्याद्यथा चैव तथा कुरु महामुने ॥ ३.४५.४१ ॥
至善者啊,愿国王受你护佑,能够游历诸圣渡口并行布施;大仙啊,请如此做。
3.45.42
तथेति संप्रतिज्ञाय लोमशः सुमहातपाः ।
कामय्कं वनमुद्दिश्य समुपायान्महीतलम् ॥ ३.४५.४२ ॥
罗摩莎以“就这样吧”应允之后,这位苦行极深的仙人便向迦摩耶迦林而去,行走于大地之上。
3.45.43
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् ।
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥ ३.४५.४३ ॥
他在那里看见了昆提之子、法王、降伏敌人者坚战,他被苦行者和兄弟们从四面环绕。