Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.49.1

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः ॥ ३.४९.१ ॥

当伟大的阿周那为求神兵而前往因陀罗世界后,坚战等般度五子做了什么?

3.49.2

अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।
न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः ॥ ३.४९.२ ॥

伟大的阿周那为求神兵前往因陀罗世界后,婆罗多族的雄牛们与黑公主一同住在迦密耶迦林中。

3.49.3

ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले ।
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ॥ ३.४९.३ ॥

此后某时,婆罗多族的俊杰们在一处僻静无人、草软如茵的地方,因悲痛而与黑公主一同坐下。

3.49.4

धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ।
तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे ॥ ३.४९.४ ॥

他们为达南扎亚(阿周那)悲痛,泪水哽咽,极为哀伤,因与他分离而备受煎熬,忧愁淹没了他们所有人。

3.49.5

धनंजयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः ।
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ॥ ३.४९.५ ॥

因与达南扎亚分离和王国的丧失而悲伤,于是大臂的怖军对坚战说道。

3.49.6

निदेशात्ते महाराज गतोऽसौ भरतर्षभः ।
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥ ३.४९.६ ॥

大王,依您的命令,那位婆罗多族的雄牛阿周那已经离去;般度诸子的生命都系于他一身。

3.49.7

यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।
सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयाः ॥ ३.४९.७ ॥

若他灭亡,般遮罗人连同其子,我们,以及萨提亚基和瓦苏提婆,无疑都将灭亡。

3.49.8

योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन् ।
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥ ३.४९.८ ॥

那位心怀正法的阿周那,奉你之命而行,正思量着诸多苦难;还有什么比这更痛苦的呢?

3.49.9

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ ३.४९.९ ॥

依靠那位大德者的双臂,我们都认为在战场上战胜了敌人,并获得了大地。

3.49.10

यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः ।
जितान्मन्यामहे सर्वान्धार्तराष्ट्रात्ससौबलान् ॥ ३.४९.१० ॥

凭借那位持弓者的威力,我们认为在大会中战胜了持国之子与沙古尼等所有人。

3.49.11

यस्य प्रभावान्न मया सभामध्ये महाबलाः ।
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥ ३.४९.११ ॥

凭借那位的威力,我在大会中并未把持国的威猛之子们与沙古尼等所有人送往那个世界。

3.49.12

तेवयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।
सहामहे भवन्मूलं वासुदेवेन पालिताः ॥ ३.४९.१२ ॥

我们这些臂力强大、受瓦苏提婆保护的人,忍受着从自身升起的愤怒,其根源在于你。

3.49.13

मया हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।
स्वबाहुविजितां कृत्स्नां प्रशाधीनां वसुंधराम् ॥ ३.४९.१३ ॥

我与黑天一同杀死了迦尔纳等敌人,使这由我双臂所征服的整个大地都可以被统治。

3.49.14

भतो द्यूतदोषेण सर्वेवयमुपप्लुताः ।
अहीनपौरुषा राजन्बलिभिर्बलवत्तराः ॥ ३.४९.१४ ॥

大王啊,因赌博之过,我们都陷入困境;虽然我们的勇力未曾减损,却被比强者更强大的敌人所压倒。

3.49.15

क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि ।
ग हिधर्मो महाराज त्रियस्य वनाश्रयः ॥ ३.४९.१५ ॥

大王啊,你应当顾及刹帝利的职责;大王啊,住在森林中是女人的职责,而非刹帝利的。

3.49.16

राज्यमेव परंधर्मं क्षत्रियस्य विदुर्बुधाः ।
स क्षत्रधर्मविद्राजन्माधर्म्यान्नीनशः पथः ॥ ३.४९.१६ ॥

智者认为王权本身就是刹帝利的最高职责;大王啊,你虽通晓刹帝利之法,却因非法之路而毁灭。

3.49.17

प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ।
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ॥ ३.४९.१७ ॥

大王啊,十二年前我们就应当杀死持国的儿子们,把从森林中召回的普利塔之子,与生主(克利须那)一同带来。

3.49.18

व्यूढानीकान्महाराज जवेनैव महाहवे ।
धार्तराष्ट्रानमुं लोकं गमयाम विशांपते ॥ ३.४९.१८ ॥

大王啊,在大战中,我们会迅速地把那些列阵的持国之子送往彼界,人主啊。

3.49.19

सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।
दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते ॥ ३.४९.१९ ॥

我将杀尽他们——德哈里塔拉什特拉之子连同沙库尼,杜尔约达那与迦尔纳,以及任何与我交战的其他人。

3.49.20

मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः ।
एवं कृते न ते दोषो भविष्यति विशांपते ॥ ३.४९.२० ॥

待我安抚他们之后,你将再次前往森林。如此行事,哦人主,你便不会有过失。

3.49.21

यज्ञैश्च विविधैस्तात कृतंपापमरिंदम ।
अवधूय महाराजगच्छेम स्वर्गमुत्तमम् ॥ ३.४९.२१ ॥

亲爱的,制服敌人者,抖落因种种祭祀所犯的罪过,哦大王,让我们前往最高的天界吧。

3.49.22

एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥ ३.४९.२२ ॥

哦国王,如果国王不愚蠢,事情便会如此。至于我们,你虽笃守法度,却往往迟疑不决。

3.49.23

निकृत्या निकृतिप्रत्रा हन्तव्या इति निश्चयः ।
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते।
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ॥ ३.४९.२३ ॥

凭借欺诈自保的欺诈之人,应以欺诈诛之——此乃定论。以欺诈杀欺诈者,不被称为罪过。哦婆罗多,精通法者在法中便如此看待。

3.49.24

अहोरात्रं महाराज तुल्यं संवत्सरेण ह ।
तथैव वेदवचनं श्रूयते नित्यदा विभो।
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥ ३.४९.२४ ॥

哦大王,一昼一夜等于一年;吠陀之言也常常如此被听闻。哦威力者,哦大王,年岁只是艰难地才得以圆满。

3.49.25

यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत ।
तयोदशादितः कालो ज्ञायतां परिनिष्ठितः ॥ ३.४९.२५ ॥

阿周那啊,若吠陀是你的准绳,则当知从那两者中的第十起,时间已经圆满,自那日起算。

3.49.26

कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम ।
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥ ३.४९.२६ ॥

降伏敌人者啊,时机将至,要杀死难敌及其党羽;大王啊,他先前使整个大地归于一统。

3.49.27

द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम् ।
प्रायेणाज्ञातच्रयायां वयं सर्वेनिपातिताः ॥ ३.४९.२७ ॥

诸王之主啊,好赌者如此做了,你也做了同样的事;在隐匿生活的时期,我们都被打倒了。

3.49.28

न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः ।
न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः ॥ ३.४९.२८ ॥

我看不到哪里能让那极恶之人不知道我们;心怀恶意的苏约陀那,即使借助间谍也不会认出我们。

3.49.29

अधिगम्य च सर्वान्नो वनवासमिमं ततः ।
प्रव्राजयिष्यतिपुनर्निकृत्याऽधमपूरुषः।
यद्यस्मानभिगच्छेत पापः स हि कथंचन ॥ ३.४९.२९ ॥

他找到我们所有人后,那最卑劣之人会再次把我们驱逐到这森林流放之中,如果那罪人无论如何遇到我们的话。

3.49.30

अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत् ।
द्यूतेन ते महाराज पुनर्युद्धं प्रवर्तते ॥ ३.४९.३० ॥

见到那些完成隐匿生活的人,他会再次以骰子挑战他们;大王啊,对你而言,战争又将开始。

3.49.31

भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति ।
स तथाऽक्षेषु कुशलो निश्चितो गतचेतनः ॥ ३.४९.३१ ॥

你再次被邀请参加骰子赌博,将因这同一场赌博而失去一切。他精通骰子,意志坚定,仿佛失去了知觉。

3.49.32

चरिष्यसि महाराज वनेषु वसतीः पुनः ॥ ३.४९.३२ ॥

大王啊,你将再次在森林中居住流浪。

3.49.33

यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि ।
यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः।
निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः ॥ ३.४९.३३ ॥

如果你想让我们困苦,那么终生都要完全遵守吠陀的义务。心怀欺诈者,应以欺诈杀死——这是决定。

3.49.34

अनुज्ञातस्त्वया गत्वायावच्छक्ति सुयोधनम् ।
यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः।
हनिष्यामि तथा मन्दमनुजानातु मे भवान् ॥ ३.४९.३४ ॥

得到你的许可,我将竭尽全力去杀死苏由陀那,正如风为御者的火一旦放出,便焚烧干草。请你允许我。

3.49.35

एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः ।
उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम् ॥ ३.४९.३५ ॥

当怖军如此说话时,法王坚战嗅着般度之子的头,安慰他说道:

3.49.36

असशयं महाबाहो हनिष्यसि सुयोधनम् ।
वर्षात्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥ ३.४९.३६ ॥

毫无疑问,大臂者啊,十三年过后,你将与持甘提拔弓者一同杀死苏由陀那。

3.49.37

यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो ।
अनृतं नत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥ ३.४९.३७ ॥

主啊,你说“时机已到”,阿周那,我不能忍受说谎,这不在我身上。

3.49.38

अन्तरेणापि कौन्तेय निकृतिंपापनिश्चयम् ।
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥ ३.४९.३८ ॥

贡蒂之子啊,即使没有欺诈与恶意,无敌者啊,你将与其随从一同杀死苏尤陀那。

3.49.39

एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे ।
आजगाम महाभागो बृहदश्वो महानृषिः ॥ ३.४९.३९ ॥

正法王坚战如此对怖军说话时,大福的大仙人布利诃达什瓦来到了。

3.49.40

तमभिप्रेक्ष्यधर्मात्मा संप्राप्तं धर्मचारिणम् ।
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥ ३.४९.४० ॥

正法王见他到来,便依照经典,以蜜糖酒(蜜酪)礼敬这位行正法的仙人。

3.49.41

आश्वस्तं चैनमासीनमुपासनो युधिष्ठिरः ।
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥ ३.४९.४१ ॥

坚战,大臂者,坐在已经安定下来的他身旁,看着他,悲切地说了许多话。

3.49.42

अक्षद्यूते च भगवन्धनं राज्यं च मे हृतम् ।
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥ ३.४९.४२ ॥

尊者啊,在赌博中,我的财富与王国被那些心怀诡计、精通骰子的赌徒召来而夺走了。

3.49.43

अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।
भार्या च मे सभां नीता प्राणेभ्योपि गरीयसी ॥ ३.४९.४३ ॥

我不懂骰子之戏,却被心怀恶念之人以诡计欺骗;他们把比性命还珍贵的妻子拖进了大殿。

3.49.44

पुनर्द्यूतेन मां जित्वा वनवासां सुदारुणम् ।
प्राव्राजयन्मंहारण्यमजिनैः परिवारितम् ॥ ३.४९.४४ ॥

他们再次以骰子击败我,将我流放到极其残酷的森林中,让我身披鹿皮,被驱赶进那片大森林。

3.49.45

अहं वने दुर्वसतीर्वसन्परमदुःखितः ।
अक्षद्यूताभिषङ्गेण गिरः शृण्वन्सुदारुणाः ॥ ३.४९.४५ ॥

我在森林中居住于简陋之所,极度悲伤,因沉迷骰子之戏而听着他们那些极其严厉的话语。

3.49.46

आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् ।
अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन् ॥ ३.४९.४६ ॥

我把那些痛苦朋友们的话,从骰子之事说起,都牢记在心;回想着它们,我整夜思索。

3.49.47

यस्मिंश्च वयमायत्ताः सदा गाण्डीवधन्वनि ।
स चेन्द्रलोकं गतवानस्त्रहेतोर्महाबलः ॥ ३.४९.४७ ॥

我们一向依靠的那位持甘狄拔弓的大力者,若为求神兵而往因陀罗界去了——

3.49.48

विना महात्मना तेन गतसत्व इवास्महे ।
कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् ॥ ३.४९.४८ ॥

没有那位大德之人,我们仿佛失去了生命。何时我才能再见到精通兵器、重返的毗跋蹉?

3.49.49

इति सर्वे महेष्वासं चिन्तयाना धनंजयम् ।
अनेन तु विषण्णोऽहं कारणेन सहानुजः ॥ ३.४९.४९ ॥

如此思念大弓手殊胜者,我与幼弟们因此而忧伤。

3.49.50

वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः ।
जानन्तः प्रीयमाणा वै देवने भ्रातृभिः सह।
द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः ॥ ३.४९.५० ॥

那些心怀恶念之人,明知而欢喜,将在我从林居归来后,与兄弟们再次邀我掷骰;精通骰戏者将以赌博强行向我挑战。

3.49.51

आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम् ।
पणे च मम नात्यर्थं वसु किंचन विद्यते ॥ ३.४९.५१ ॥

再次被邀掷骰,我无法退却;而且我并没有多少财富可以押上作为赌注。

3.49.52

एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम् ।
न मत्तो दुःखिततरः पुमानस्तीह कश्चन ॥ ३.४९.५२ ॥

日夜不停地思虑这一切,此地没有比我更痛苦的人。

3.49.53

नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोपि वा क्वचित्।
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥ ३.४९.५३ ॥

世上没有比我更不幸的国王;无论您曾经见过还是听过,我认为没有人比我更痛苦。

3.49.54

एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः ।
शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः ॥ ३.४९.५४ ॥

面对这样悲痛地说话的智慧之王——法王,尊贵的仙人一边消除他的忧愁,一边说道。

3.49.55

न विषादे मनः त्वया बुद्धिमतांवर ।
आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते ॥ ३.४९.५५ ॥

智者之中最优秀的人啊,愿你的心不要陷入忧愁。比跋蹉(阿周那)将会到来,并将战胜他的敌人。

3.49.56

यद्ब्रवीषि महाराज न मत्तो विद्ते क्वचित् ।
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥ ३.४९.५६ ॥

伟大的国王啊,你说没有任何人比我更不幸,般度之子啊。

3.49.57

अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ ।
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते ॥ ३.४९.५७ ॥

无罪之人啊,如果你想听,我将在此讲述那位比你更加痛苦的国王,大地之主啊。

3.49.58

अथैनमब्रवीद्राजा ब्रवीतु भगवानिति ।
इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥ ३.४९.५८ ॥

于是国王对他说:"请尊者讲述。我想听那位陷入这种境地的国王的事。"

3.49.59

शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवोपते ॥ ३.४९.५९ ॥

国王啊,不动摇者啊,请与诸位兄弟专心聆听。曾有一位国王比你更加痛苦,大地之主啊。

3.49.60

निषधेषु महीपालो वीरसेन इति श्रुतः ।
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्तकोविदः ॥ ३.४९.६० ॥

在尼沙陀国有一位名叫毗罗塞那的著名国王。他的儿子名叫那罗,精通法与利益。

3.49.61

स निकृत्याजतो राजा पुष्करेणेति नः श्रुतम् ।
वनवासं सुदुःखार्तो भार्यया न्यवसत्सह ॥ ३.४९.६१ ॥

据我们所闻,那位国王被普什卡以诡计所败,极度悲痛,与妻子一同在森林中居住。

3.49.62

न तस्य दासा न रथो न भ्राता न च भान्धवाः ।
वने निवसतो राजन्नश्रूयन्त कदाचन ॥ ३.४९.६२ ॥

大王啊,他住在森林中时,从未听说他有仆人、战车、兄弟或亲族。

3.49.63

भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ।
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥ ३.४९.६३ ॥

你被如神一般的英勇兄弟,以及如梵天般的最优秀婆罗门所环绕;因此你不应当悲伤。

3.49.64

विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः ।
चरितं वदतांश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ३.४९.६४ ॥

我想详细听闻大精神者那罗的事迹;善辩者中最优秀的人啊,请为我讲述。