摩诃婆罗多 · 章 3.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.55.1
वृते तु नैषधे भैम्या लोकपाला महौजसः ।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥ ३.५५.१ ॥
当尼沙陀王那罗被毗摩之女选中后,大力的世界护持者们在返回途中,看见迦利与双怙同来。
3.55.2
अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा ।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥ ३.५५.२ ॥
于是以力量斩杀弗栗多的因陀罗看着迦利,与双怙同行,说道:迦利啊,告诉我,你要去哪里?
3.55.3
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् ।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम् ॥ ३.५५.३ ॥
于是迦利对因陀罗说:我将前往毗摩之女的选婿大会,去选她为妻,因为我的心已经向着她去了。
3.55.4
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः ।
वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥ ३.५५.४ ॥
因陀罗笑着对他说:那次选婿大会已经结束了;她已选定那罗王为夫,他就在我们附近。
3.55.5
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः ।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥ ३.५५.५ ॥
因陀罗如此说后,迦利满怀愤怒,招呼所有天神,然后说出了这些话。
3.55.6
देवानां मानुषं मध्ये यत्सा पतिमविन्दत ।
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥ ३.५५.६ ॥
她在诸神之中竟选了一个凡人为夫,那么对她施以重罚,实在是理所应当的。
3.55.7
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः ।
अस्माभिः सभनुज्ञाते दमयन्त्या नलो वृतः ॥ ३.५५.७ ॥
迦利如此说完,诸天回答道:「经我们允许,达玛衍蒂选择了那罗。」
3.55.8
का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम् ।
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥ ३.५५.८ ॥
谁会不投奔那具备一切德行、正确知晓一切法则、恪守誓愿的国王那罗呢?
3.55.9
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः ॥ ३.५५.९ ॥
精通四吠陀以及第五部的诸传说的人;专心于不杀生、说真话、坚守誓愿的人。
3.55.10
यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः ।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥ ३.५५.१० ॥
若具备才能、坚毅、智慧、苦行、清净、克制与寂静,并且这些稳固地存在于那位人中虎、与世界护卫者等同的国王身上——
3.55.11
एवंरूपं नलं यो वै कामयेच्छपितुं कले ।
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना ॥ ३.५५.११ ॥
迦利啊!想要诅咒如此形貌之那罗的人是愚人:他诅咒的是自己,是他自己杀死自己。
3.55.12
एवंगुणं नलं यो वै कामयेच्छपितुं कले ।
कृच्छ्रे स नरके मञ्जेदगाधे विपुले ह्रदे ॥ ३.५५.१२ ॥
迦利啊!想要诅咒具备如此德行之那罗的人,将沉入痛苦的地狱,沉入广阔而深不可测的湖中。
3.55.13
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ।
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ॥ ३.५५.१३ ॥
对迦利如此说后,诸神与双钵罗升天而去。诸神离去之后,迦利对双钵罗说道。
3.55.14
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ।
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ॥ ३.५५.१४ ॥
我无法抑制对那罗的愤怒。双钵罗啊,我将住在他之中。我要使他从王国中坠落,他将不再与跋弥同享欢乐。
3.55.15
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि ।
मम प्रियकृते ह्यस्मन्कृतवांश्च भविष्यसि ॥ ३.५५.१५ ॥
你也应当进入骰子之中助我一臂之力。为了让我欢喜,你在此事上确会成为助手。