摩诃婆罗多 · 章 3.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.56.1
एवं स समयं कृत्वा द्वापरेण कलिः सह ।
आजगाम ततस्तत्र यत्रराजा स नैषधः ॥ ३.५६.१ ॥
如此约定之后,羯利与双般(Dvāpara)一同来到尼沙陀王那罗所在之处。
3.56.2
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् ।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥ ३.५६.२ ॥
他常常窥伺机会,长久地住在尼沙陀人之中。到第十二年,羯利在他身上看到了一个空隙。
3.56.3
कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः ।
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥ ३.५६.३ ॥
尼沙陀王那罗小解后以水净手漱口,行了晚祷,却没有洗净双脚。羯利便进入了他的身体。
3.56.4
स समाविश्य च नलं समीपं पुष्करस्य च ।
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥ ३.५६.४ ॥
他完全进入那罗之后,走到布什卡拉身边说:“来吧,与那罗掷骰子。”
3.56.5
अक्षद्यूते नलं जेता भवान्हि सहितो मया ।
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम् ॥ ३.५६.५ ॥
在掷骰子的游戏中,你将战胜那罗,因为你与我同在。从国王那罗手中赢得王国,便能获得尼沙陀之地。
3.56.6
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।
कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात् ॥ ३.५६.६ ॥
羯利如此说完,布什卡拉便去见那罗;羯利也变成一头公牛,跟随着那位布什卡拉。
3.56.7
आसाद्य तु नलं वीरं पुष्करः परवीरहा ।
दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः ॥ ३.५६.७ ॥
敌方英雄的杀手补湿迦走近勇士那罗,一再说道:“来吧,我们与跋阇(Vṛṣa)掷骰子吧。”
3.56.8
न चक्षमे ततो राजा समाह्वानं महामनाः ।
वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत ॥ ३.५६.८ ॥
于是心胸宽广的国王无法忍受这挑战;维达尔跋公主正在注视,他认为时机已到。
3.56.9
ततः स राज्ञा सहसा देवितुं संप्रचक्रमे ॥ ३.५६.९ ॥
于是他与国王突然开始掷骰子。
3.56.10
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः ।
हिरण्यस्य सुवर्णस्य यानयुग्यस् वाससाम्।
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥ ३.५६.१० ॥
那罗王被兄弟击败,为命运所附,又被迦利所缠,于是在赌局中输掉了金、银、车驾、驾畜与衣物。
3.56.11
तमक्षमदसंमत्तं सुहृदां न तु कश्चन ।
निवारणेऽभवच्छक्तो दीव्यमानमरिंदमम् ॥ ३.५६.११ ॥
那位征服敌人者沉醉于骰子的狂迷,他的朋友中无人能够阻止。
3.56.12
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत ।
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥ ३.५६.१२ ॥
婆罗多啊,于是全城百姓与大臣一同前来,要见国王并阻止这位痛苦的人。
3.56.13
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् ।
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥ ३.५६.१३ ॥
于是御者走近达摩衍蒂,禀告道:王后啊,城中的人们站在门口,他们有事相求。
3.56.14
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः ।
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥ ३.५६.१४ ॥
请通报那罗:所有臣民都站在这里,不忍见国王的不幸,他们明白法与利。
3.56.15
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता ।
उवाच नैषधं भैमी शोकोपहतचेतना ॥ ३.५६.१५ ॥
于是她声音哽咽,因悲伤而消瘦,心神被哀痛击碎,对那罗说话——她是毗摩之女。
3.56.16
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः ।
वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः ॥ ३.५६.१६ ॥
大王啊,城中百姓想见您,站在门口,同着长者、主要婆罗门和商人。
3.56.17
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम् ।
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥ ३.५६.१७ ॥
大王啊,他们都聚集而来,仰赖您的恩典。您应当去见他们——她一再地这样说。
3.56.18
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम् ।
आविष्टः कलिना राजा नाभ्यभाषत किंचन ॥ ३.५६.१८ ॥
看到她美目哀泣如此,被迦利附体的国王一句话也没有对她说。
3.56.19
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः ।
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥ ३.५६.१९ ॥
于是所有大臣和城中居民,因悲痛而羞愧,说“他不在这里”,便各自回家去了。
3.56.20
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च ।
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥ ३.५६.२० ॥
于是普什卡罗与那罗之间进行了一场掷骰之戏。啊,युधिष्ठिर,那位圣名远扬者在许多个月里不断失利。