摩诃婆罗多 · 章 3.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.57.1
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् ।
उन्मत्तवदनुन्मत्ता देवने कृतचेतसम् ॥ ३.५७.१ ॥
于是达摩衍蒂看见那位名声神圣的人主,面色如同癫狂,心思专注于赌博。
3.57.2
भयशोकसमाविष्टा राजन्भीमसुता ततः ।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥ ३.५७.२ ॥
大王啊,充满恐惧与悲伤的毗摩之女,于是开始思量关于那位国王的那件极其重大的事。
3.57.3
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥ ३.५७.३ ॥
她担心那罪过,又想做那件她所喜爱之事,见到家产尽失的那罗,便说了这番话。
3.57.4
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥ ३.५७.४ ॥
对那位名声显赫的布哈特塞娜——那位乳母兼侍女,忠诚、善于处理各种事务、深受敬爱且言辞得体。
3.57.5
बृहत्सेने व्रजामात्यानानाय्य नलशासनात् ।
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥ ३.५७.५ ॥
布哈特塞娜啊,依那罗的命令去把大臣们请来,告诉他们哪些财物被夺走了,还剩下哪些财富。
3.57.6
इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर ।
उवाच देव्या वचनं मन्त्रिणां सा समीपत ॥ ३.५७.६ ॥
人主啊,得到如此吩咐的布哈特塞娜,走到近旁的大臣们那里,转达了王后的话。
3.57.7
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥ ३.५७.७ ॥
于是众大臣知晓了那罗的命令,说道:“或许我们也有份”,便又返回了。
3.57.8
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥ ३.५७.८ ॥
然而那些大臣第二次前来,将此事禀告了毗摩之女,她却不予赞同。
3.57.9
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा ।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥ ३.५७.९ ॥
见丈夫不认可那番话,达摩衍蒂感到羞愧,又回到了内室。
3.57.10
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान् ।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥ ३.५७.१० ॥
她见骰子总是背离那德名远播的那罗,而那罗已失去一切,便又对乳母说道。
3.57.11
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।
सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥ ३.५७.११ ॥
大军啊,依那罗之命再去,把韦利尼之子的御者带来;吉祥的人啊,一件大事已经来临。
3.57.12
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम् ।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥ ३.५७.१२ ॥
大军听了达摩衍蒂的话,便派可靠的人把韦利尼之子的御者带来。
3.57.13
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्छ्लक्ष्णया गिरा ।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥ ३.५७.१३ ॥
于是,毗摩之女达摩衍蒂以温和的言语安慰伐尔什涅耶,这位无可指责、知晓时地的女子适时说道。
3.57.14
जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।
तस्य त्वं विपमस्थस्य साहाय्यं कर्तुमर्हसि ॥ ३.५७.१४ ॥
你知道国王一直对你行事端正;如今他身陷困境,你理应助他一臂之力。
3.57.15
यथायथा हि नृपतिः पुष्करेणैव जीयते ।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते ॥ ३.५७.१५ ॥
国王越是输给布什卡拉,他对赌博的迷恋就越是增长。
3.57.16
यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः ।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥ ३.५७.१६ ॥
正如布什卡拉的骰子听从他的摆布而落下,纳罗的骰子却显出逆转。
3.57.17
सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च ।
ममापि च तथा वाक्यं नाभिनन्दति नैषध ॥ ३.५७.१७ ॥
正如他不听朋友与亲人的劝告,他也不接受我的话,哦,纳伊沙达。
3.57.18
यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे ।
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः ॥ ३.५७.१८ ॥
哦,御者,国王的福运如今已烧尽,我认为伟大的纳伊沙达已一无所剩。
3.57.19
यत्तु मे वचनं राजा नाभिनन्दति मोहितः ।
शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः।
न हि मे शुध्ते भावो विनाशं प्रति सारथे ॥ ३.५७.१९ ॥
然而迷惑的国王不接受我的话。御者啊,我已投奔于你,请听从我的话。御者啊,我走向毁灭的心意并不纯净。
3.57.20
नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।
रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि ॥ ३.५७.२० ॥
套上那纳罗的爱马,疾如意念,让这对夫妇登上战车,你应当前往昆迪那。
3.57.21
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छवा ॥ ३.५७.२१ ॥
把两个孩子、战车和这些马托付给我的亲族之后,你愿意便留在这里,或者去别处。
3.57.22
दमयन्त्यास्तु तद्वाक्यं वार्ण्येयो नलसारथिः ।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥ ३.५७.२२ ॥
那罗的御者、瓦尔尼之子,将达摩衍蒂的那番话完整地禀告给了那罗的主要大臣。
3.57.23
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥ ३.५७.२३ ॥
与他们会面并作出决定之后,啊,大地之主,得到许可,他便带着那支军队,让这对夫妇登上战车,前往毗达婆。
3.57.24
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥ ३.५७.२४ ॥
在那里,御者留下了马匹和那辆上好的战车,也留下了名叫因陀罗塞娜的那位少女,以及少年因陀罗森……
3.57.25
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् ।
क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥ ३.५७.२५ ॥
他向国王毗摩告别,忧伤地为国王那罗哀叹,心中一再思量:“我现在该往何处去?”于是流浪着前往阿逾陀城。
3.57.26
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः ।
भृतिं च स ददौ चास्य सारथ्येन नियोजितः ॥ ३.५७.२६ ॥
他极为忧伤,前往拜见国王遮度波那。被任命为御者后,国王也给了他薪俸。