摩诃婆罗多 · 章 3.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.73.1
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥ ३.७३.१ ॥
人主啊,达摩衍蒂听了羯希尼的话,怀疑那位那罗,便对羯希尼说了这番话。
3.73.2
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥ ३.७३.२ ॥
羯希尼啊,你再去试探巴护迦。站在近旁不说话,观察他的行为。
3.73.3
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि ।
तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम् ॥ ३.७३.३ ॥
光耀的女子啊,当他因某种缘故做某事时,你应当仔细观察他的举动。
3.73.4
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि ।
याचते न जलं देयं सकृच्चात्वरमाणया।
एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय ॥ ३.७३.४ ॥
羯希尼啊,即使因某种阻碍,也不要给他火;他若索水,即使你匆忙,也一次都不要给。观察这一切之后,把他的行为告诉我。
3.73.5
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम् ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥ ३.७३.५ ॥
巴护迦啊,你所见到的神迹或人间的征兆,以及你将来还会看到的其他事情,都要告诉我。
3.73.6
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी ।
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ॥ ३.७३.६ ॥
达摩衍蒂如此吩咐之后,羯希尼便离去了;随后,她观察了哈耶迦那(那罗)的迹象,又回来了。
3.73.7
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ॥ ३.७३.७ ॥
她将所发生的一切如实地告诉了达摩衍蒂,也包括她在巴呼迦身上看到的神人之相。
3.73.8
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ॥ ३.७३.८ ॥
达摩衍蒂啊,像他这样行为纯净的人,我从前从未见过,也未曾听闻。
3.73.9
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित् ।
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्।
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥ ३.७३.९ ॥
即使遇到低矮的门,他也从不弯身。看到它,他便适宜地、轻松地前行;即便在危难中,他的通道也变得更加宽大。
3.73.10
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः।
प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम् ॥ ३.७३.१० ॥
为妙裟王(Ṛtuparṇa)准备的多种食物——是的,为妙裟王准备的多种食物——已由国王送到那里,还有大量的兽肉。
3.73.11
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः ।
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ॥ ३.७३.११ ॥
那里已为他的洗涤准备了水罐。他一看那些水罐,它们便真的盛满了。
3.73.12
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।
तृणमुष्टिं समादाय सवितुस्तं समादधत् ॥ ३.७३.१२ ॥
然后,巴呼迦洗涤完毕,生起火来,取一把草,将它为太阳而放置。
3.73.13
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ॥ ३.७३.१३ ॥
那时火神哈维耶瓦哈那在那里突然燃烧起来。我看到这最为奇异的景象,满心惊讶地来到这里。
3.73.14
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ॥ ३.७३.१४ ॥
我还在他身上看到另一桩大奇事,吉祥的人啊:他触摸火焰,却不会被烧伤。
3.73.15
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥ ३.७३.१५ ॥
他随心所欲,迅速提起并搬运那被吸引到他身边的锅。我还看到了另一件极为伟大的奇事。
3.73.16
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः ।
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा।
भूय एव सुगन्धीनि हृपितानि भवन्ति हि ॥ ३.७३.१६ ॥
他用双手拿起花朵,轻轻地揉捻;经他双手揉过的花朵,反而变得更加芬芳、更加欣悦。
3.73.17
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता ।
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ॥ ३.७३.१७ ॥
大眼睛的人啊,我在婆呼迦身边看到这些奇妙的举动,内心十分惊讶。
3.73.18
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ ३.७३.१८ ॥
然而达摩衍蒂听闻这位圣名之人的所作所为,便认定那些行为和举动所表明的,正是那罗来到了。
3.73.19
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ॥ ३.७३.१९ ॥
她怀疑化装成巴护迦的人就是她的丈夫那罗,哭泣着,以温柔的声音再次对吉西尼说道。
3.73.20
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छ्रितं मांसमानयस्वेह भामिनि ॥ ३.७३.२० ॥
夫人,请再去,把厨房里做好的肉拿来给那疏忽的巴护迦。
3.73.21
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च ।
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥ ३.७३.२१ ॥
见巴护迦正忙,她便迅速取出那块烫手的肉;随后,善于取悦人的吉西尼,哦,俱卢之喜,把它交给了达摩衍蒂。
3.73.22
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा ।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ॥ ३.७३.२२ ॥
她以前多次吃过、尝过那罗烹制的肉,便认定此人就是那罗,极度悲伤地向厨师大声呼喊。
3.73.23
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः ।
मिथुनं प्रेषयामास केशिन्या सह भारत् ॥ ३.७३.२३ ॥
她陷入极度的慌乱,洗净脸庞后,婆罗多啊,她让两个孩子与吉西尼一同离去。
3.73.24
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ॥ ३.७३.२४ ॥
认出因陀罗婆那与她的兄长后,巴护迦急忙奔去;国王便拥抱她,把她抱到膝上。
3.73.25
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ॥ ३.७३.२५ ॥
巴呼迦走近两个如天神之子般的儿子,心中充满悲痛,大声哭泣起来。
3.73.26
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥ ३.७३.२६ ॥
尼沙陀王那罗多次显露内心的激动,随即突然放开两个儿子,对吉舍尼说了这番话。
3.73.27
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः ।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥ ३.७३.२७ ॥
善良的女子啊,我这两个儿子的这一对与我本人相似;因此看到他们,我骤然落下了泪水。
3.73.28
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः ।
वयंच देशातिथयो गच्छ भद्रे यथासुखम् ॥ ३.७३.२८ ॥
人们见你一次次走近,会因过失而起疑心;而我们是这个国家的客人。善良的女子啊,你就安乐地离去吧。