摩诃婆罗多 · 章 3.82
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.82.1
ततो गच्छेन्महाराज धर्मतीर्थमनुत्तमम् ।
यत्र धर्मो महाभागस्तप्तवानुत्तमं तपः
तेन तीर्थं कृतंपुण्यं स्वेन नाम्ना च विश्रुतम् ॥ ३.८२.१ ॥
接着,大王啊,应当前往至上的法之圣渡,那里福德广大的法神修习了至上的苦行。因此那圣渡变得功德殊胜,并以他自己的名字而闻名。
3.82.2
तत्रस्नात्वा नरो राजन्धर्मशील समाहितः ।
आसप्तमं कुलं चैव पुनीते नात्र संशयः ॥ ३.८२.२ ॥
大王啊,人在那里沐浴后,若心怀法德且专注定心,便能使七代之内的家族得到净化,此事毋庸置疑。
3.82.3
ततो गच्छेत राजेन्द्र ज्ञानपावनमुत्तमम् ।
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥ ३.८२.३ ॥
接着,诸王之主啊,应当前往以智慧净化的至上圣渡。他获得阿耆尼输姆祭的果报,并前往仙人的世界。
3.82.4
सौगन्धिकवनं राजंस्ततो गच्छेत मानवः ।
तत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ३.८२.४ ॥
大王啊,接着人应当前往娑伽德利迦林。那里住着以梵天为首的诸神,以及以苦行为财富的仙人。
3.82.5
सिद्धचारणगन्धर्वाः किन्नराश्च महोरगाः ।
कतद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ ३.८२.५ ॥
悉陀、遮罗那、乾闼婆、紧那罗和大蛇也都在那里。人一进入那片森林,便从一切罪过中解脱。
3.82.6
ततश्चापि सरिचच्छ्रेष्ठा नदीनामुत्तमा नदी ।
प्लक्षा देवी स्मृता राजन्पुण्या देवी सरस्वती ॥ ३.८२.६ ॥
接着,人们所忆念的是普拉克沙女神河,她是河流中最殊胜、诸河中至上的,大王啊;这位圣洁的女神便是萨罗室伐底。
3.82.7
तत्राभिषेकं कुर्वीत वल्मीकान्निः सृतेजले ।
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ ३.८२.७ ॥
在那里应当在从蚁丘流出的水中沐浴;供奉祖先与诸神之后,便可获得马祭的果报。
3.82.8
कवेराध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।
पट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥ ३.८२.८ ॥
那里有一处名为「俱毗罗所居」的圣地,极难到达;经六次投掷沙弥木之后,它从蚁丘中涌现——这是确定的。
3.82.9
कपिलानां सहस्रं च वाजिमेधं च विन्दति ।
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥ ३.८२.९ ॥
在那里沐浴者可获得布施千头迦毗罗牛与马祭的果报;人中之虎啊,这在古时已被见到。
3.82.10
सुगन्धां शतकुम्भां च पञ्चयक्षां च भारत ।
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ३.८२.१० ॥
婆罗多的后裔啊,人中最优秀者,若前往善香、百瓮与五夜叉诸圣地,便可在天界受到尊崇。
3.82.11
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः।
गाणपत्यं च लभते देहं त्यक्त्वा न संशयः ॥ ३.८२.११ ॥
婆罗多的后裔啊,就在那里,到达三叉戟坑圣地后,应在那里沐浴,专心供奉祖先与诸神;舍弃身体后,便获得迦那波提的境界,此事无疑。
3.82.12
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् ।
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता ॥ ३.८२.१२ ॥
随后,王中之王啊,应前往女神之所,那处极难到达;它以沙坎跋里之名闻名,在三界中享有盛名。
3.82.13
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रता ।
आहारं सा कृतवती मासिमासि नराधिप ॥ ३.८२.१३ ॥
千年神圣的岁月里,人主啊,持守誓愿的她每月只以蔬菜为食。
3.82.14
ऋषयोऽभ्यागतास्तत्रदेव्या भक्त्या तपोधनाः ।
आतिथ्यं च कृतं तेषां शाकेन किल भारत।
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥ ३.८२.१४ ॥
苦行富足的仙人们出于虔敬前来拜访女神作为客人,婆罗多啊,他们以蔬菜款待。从此,她“Śākambharī”之名便确立了。
3.82.15
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः ।
त्रिरात्रमुषितः शाकं भक्षयित्वा नरः शुचिः ॥ ३.८२.१५ ॥
到达 Śākambharī 后,持戒梵行、心神专一之人住三夜,吃蔬菜,便得清净。
3.82.16
शाकाहारस्य यत्किंचिद्वर्षैर्द्वादशभिः कृतम् ।
तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ ३.८२.१६ ॥
以蔬菜为食十二年所积的任何功德,婆罗多啊,依女神之意,其果报便归于他。
3.82.17
ततो गच्छेत्सुवर्णाख्यं त्रिषु लोकेषु विश्रुतम् ।
तत्र विष्णुः प्रसादार्थं रुद्रकमाराधयत्पुरा ॥ ३.८२.१७ ॥
然后应前往名为 Suvarṇa 的地方,此地闻名三界;从前毗湿奴在那里为求恩典而崇拜楼陀罗。
3.82.18
वरांश्च सुबर्हूल्लेभे दैवतेषु सुदुर्लभान् ।
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ ३.८२.१८ ॥
他获得了许多在诸神中极为罕见的恩赐;婆罗多啊,斩杀三城者楼陀罗心满意足地对他说。
3.82.19
अपिच त्वं प्रियतरो लोके कृष्ण भविष्यसि ।
त्वन्मुखं च जगत्सर्वं भविष्ति न संशयः ॥ ३.८२.१९ ॥
而且,黑天,你将成为世上最珍爱的人,整个宇宙都将拥有你的面容,毫无疑问。
3.82.20
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् ।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ ३.८२.२० ॥
王中之主啊,前往那里,供养牛旗者(湿婆),便可获得马祭的果报,并得到伽那波提的地位。
3.82.21
धूमावतीं ततो गच्छेत्रिरात्रोपोषितो नरः ।
मनसा प्रार्थितान्कार्माल्लभते नात्र संशयः ॥ ३.८२.२१ ॥
之后应前往干摩婆提;人若斋戒三夜,便能获得他心中所求的愿望,此中无疑。
3.82.22
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप ।
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः।
महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥ ३.८२.२२ ॥
在女神的南半部有车旋,王者啊。智法者啊,信仰坚定、克制诸根的人应当登上那里;凭大天的恩宠,他便得到至高的归宿。
3.82.23
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
धारां नाम महाप्रात्र सर्वपापप्रमोचनीम् ॥ ३.८२.२३ ॥
婆罗多的雄牛啊,应绕行右旋,前往名为达罗的大圣所,它能解脱一切罪过。
3.82.24
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ।
ततो गच्छेत धर्मज्ञ नमस्कृत् महागिरिम् ॥ ३.८२.२४ ॥
人中之虎、王者啊,在那里沐浴者便不再忧愁。随后,智法者啊,应行礼前往大山。
3.82.25
अशीतियोजनशतं पुष्करं स्वर्गमुच्यते ।
अशीतिं धर्मपृष्ठात्तु प्रवदन्ति मनीषिणः ॥ ३.८२.२५ ॥
普什卡罗被称为天界,距离一百八十由旬。从法背山起算,智者说是八十由旬。
3.82.26
षष्टिं प्रयागाद्राजेन्द्र कुरुक्षेत्रात्तु द्वादश ।
संयुक्तमेव राजेन्द्र गङ्गाद्वारं त्रिविष्टपम् ॥ ३.८२.२६ ॥
距离普拉亚加六十,距离库鲁野十二(由旬),王中之王啊;恒河门与三界相连。
3.82.27
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ।
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ॥ ३.८२.२७ ॥
恒河门与天门相等,毫无疑问。在那里的俱底圣水中,应当心神专一地沐浴。
3.82.28
पौण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ।
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥ ३.८२.२८ ॥
可获得白莲之果,并能拯救自己的家族。在那里住一夜,可获得千头牛的功德。
3.82.29
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् ।
देवान्पितॄंश्च विधिवत्पुण्ये लोके महीयते ॥ ३.८२.२९ ॥
在七河、三河与帝释回旋处,依规矩向诸神与祖先献供者,在圣界受到尊崇。
3.82.30
ततः कनस्वले स्नात्वा त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३.८२.३० ॥
随后在迦那卡拉沐浴,并禁食三夜的人,可获得马祭之果,并往生天界。
3.82.31
कपिलावटं ततो गच्छेत्तीर्थसेवी नराधिप ।
उपोष्य रजनीं तत्र गोसहस्रफलं लभेत् ॥ ३.८२.३१ ॥
随后,人主啊,巡访圣渡的人应前往迦毗罗井。在那里禁食一夜,便可获得千牛布施的果报。
3.82.32
नागराजस्य राजेन्द्र कपिलस्य महात्मनः ।
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥ ३.८२.३२ ॥
龙王与大德迦毗罗的圣渡,王中之王、俱卢之最,在一切世界中都享有盛名。
3.82.33
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप ।
कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ ३.८२.३३ ॥
人主啊,在龙渡处应在那里行灌顶沐浴,人便可获得千头迦毗罗牛的果报。
3.82.34
ततो ललितकं गच्छेच्छन्तनोस्तीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ ३.८२.३४ ॥
随后应前往罗利塔卡,那是三圣努的最上圣渡;在那里沐浴,大王,人不会陷入恶趣。
3.82.35
गङ्गायमुनयोर्मध्ये स्नाति यः संगमे नरः ।
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥ ३.८२.३५ ॥
在恒河与阎牟那河之间的汇流处沐浴的人,可获得十次马祭的果报,也能拯救自己的家族。
3.82.36
ततो गच्छेत राजेन्द्र सुगन्धं लोकविथुतम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ ३.८२.३६ ॥
随后,王中之王啊,应前往世间闻名的苏冈陀圣地;一切罪愆清净之人,在梵天界受到尊崇。
3.82.37
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।
तत्रस्नात्वा नरो राजन्स्वर्गलोके च गच्छति ॥ ३.८२.३७ ॥
王中之王啊,随后,侍奉圣渡口的人应前往楼陀罗回旋处。在那里沐浴之后,大王,人便往生天界。
3.82.38
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे ।
स्नात्वाऽश्वमेधं प्राप्नोति स्वर्गलोकं च गच्छति ॥ ३.८२.३८ ॥
人中最优者啊,在恒河与萨罗室伐底河的汇合处沐浴的人,可获得马祭之果,并往生天界。
3.82.39
भद्रकर्णएश्वरं गत्वा देवमर्च्य यथाविधि ।
न दुर्गतिमवाप्नोति नाकपृष्ठे च पूज्यते ॥ ३.८२.३९ ॥
前往跋陀罗羯尔纳湿伐罗,依规如法礼拜神明的人不会堕入恶道,并将在天界之巅受到尊崇。
3.82.40
तत कुब्जावतीं गच्छेत्तीर्थसेवी नराधिप ।
रगोसहस्रमवाप्नोति स्वर्गलोकं च नच्छति ॥ ३.८२.४० ॥
王中之王啊,随后,侍奉圣渡口的人应前往库布贾瓦蒂。他可得千牛之功德,并往生天界。
3.82.41
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप ।
सामुद्रकमुपस्पृश्य ब्रह्मचारी समाहितः ॥ ३.८२.४१ ॥
人主啊,侍奉圣渡口的人应前往阿鲁湿底的榕树。以海池之水漱口净身,作梵行者,心神专注。
3.82.42
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विद्यात्कुलं चैव समुद्धरेत् ॥ ३.८२.४२ ॥
禁食三夜的人可得马祭。应知他得千牛之果报,并且还能救度自己的家族。
3.82.43
कब्र्हमावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति सोमलोकं च गच्छति ॥ ३.८२.४३ ॥
随后,修持梵行、心志专一者应前往卡布拉马与阿伐尔塔。他获得马祭的功德,并往月神之界。
3.82.44
यमुनाप्रभवं गत्वा समुपस्पृश्य यामुनम् ।
अश्वमेधफंल लब्ध्वा स्वर्गलोके महीयते ॥ ३.८२.४४ ॥
到达阎牟那河源头,以其水漱洗净身,便获马祭之果,在天界受到尊崇。
3.82.45
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यपूजितम् ।
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३.८२.४५ ॥
到达德尔维渡口,即三界所尊的圣地,他获得马祭之果,往天界而去。
3.82.46
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् ।
तत्रोष्य रजनीः पञ्च विन्देद्बहु सुवर्णकम् ॥ ३.८२.४६ ॥
往信度河源头,那里为悉陀与乾达婆所常至。在那里住五夜,便能获得许多黄金。
3.82.47
अथ वेदीं समासाद्य नरः परमदुर्गमाम् ।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥ ३.८२.४७ ॥
然后到达极难抵达的祭坛,人便获马祭之果,应往乌尚那斯之道。
3.82.48
ऋषिकुल्यां समासाद्य वासिष्ठं चैवभारत ।
वासिष्ठीं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ ३.८२.४८ ॥
婆罗多之子啊!到达仙人族河与婆私吒之地,渡过婆私吒河,一切种姓皆成再生者(二生族)。
3.82.49
ऋषिकुल्यां समासाद्य नरः स्नात्वा विकल्मषः ।
देवान्पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते ॥ ३.८२.४९ ॥
到达仙人河Ṛṣikulyā,沐浴并洗净污垢,礼拜诸神与祖先的人,便能抵达仙人之界。
3.82.50
यदि तत्रवसेन्मासं शाकाहारो नराधिप ।
द्वादशाहस्य यज्ञस्य फलं स लभते नरः ॥ ३.८२.५० ॥
人主啊!若人在彼处以素食居住一月,便能获得十二日祭祀的果报。
3.82.51
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् ।
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥ ३.८२.५१ ॥
到达婆粒古山峰者,可获得马祀之果;前往勇士解脱渡口者,则脱离一切罪业。
3.82.52
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत ।
अग्निष्टोमातिरात्राभ्यां फलमाप्नोति मानवः ॥ ३.८२.५२ ॥
婆罗多之子啊!到达昴宿与轸宿的圣渡口,人便获得火祭与阿提罗陀罗祭之果。
3.82.53
तत्र संध्यां समासाद्य विद्यातीर्थमनुत्तमम् ।
उपस्पृश्य च वै विद्यां यत्र तत्रोपपद्यते ॥ ३.८२.५३ ॥
在那里,于黄昏时到达无上的智慧渡口,并漱口净身,人便获得智慧,无论身在何处。
3.82.54
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने ।
एककालं निराहारो लोकानावसते शुभान् ॥ ३.८२.५४ ॥
于能解除一切罪业的大道场中住宿一夜,每日只食一次,禁食而住,便住于吉祥的诸世界。
3.82.55
षष्ठाकालोपवासेन मासमुष्य महालये ।
सर्वपापविशुद्दात्मा विन्देद्बहु सुवर्णकम्।
दशापरान्दशपूर्वान्नरानुद्धरते कुलम् ॥ ३.८२.५५ ॥
于第六时禁食,在大圣地(Mahālaya)停留一月,灵魂已洗净一切罪孽的人便能获得大量黄金;他能拯救自己的家族,后十代与前十代皆得度脱。
3.82.56
अथ वेतसिकां गत्वा पितामहनिषेविताम् ।
अश्वमेधमवाप्नोति गच्छेदौशनसीं गतिम् ॥ ३.८२.५६ ॥
随后前往祖父所常至的吠塔西卡(Vetasikā),便可获得马祠之功,并往乌奢那斯(Uśanas)之道。
3.82.57
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् ।
रूपस्य भागी भवति दृष्टमेतत्पुरातनैः ॥ ३.८२.५७ ॥
随后抵达诸悉陀所常至的孙达利卡渡口,便能分享美貌之福;此事为古人所亲见。
3.82.58
ततो वै ब्राह्मणं गत्वा ब्रह्मचारी जितेन्द्रियः ।
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ ३.८२.५८ ॥
随后前往婆罗门渡口,作为守梵行、降伏诸根的修行者,乘莲花色之车抵达梵天界。
3.82.59
ततस्तु नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् ।
तत्र नित्यं निवसति ब्रह्मा देवगणैः सह ॥ ३.८२.५९ ॥
随后应前往神圣的奈弥沙林(Naimiṣa),诸悉陀常至之地,梵天与诸神众恒常居于此处。
3.82.60
नैमिषं मृगयाणस् पापस्यार्धं प्रणश्यति ।
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥ ३.८२.६० ॥
寻访奈弥沙林者,一半罪孽即被消除;人一踏入此地,便脱离一切罪业。
3.82.61
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः ।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि नैंमिषे ॥ ३.८२.६१ ॥
智者应在那里于那密沙住一个月,专心于圣地(渡口)。大地上所有的圣地,都在那密沙之中。
3.82.62
कृताभिषेकस्तत्रैव नियतो नियताशनः ।
गवां मेधस्य यज्ञस्य फलं प्राप्नोति भारत।
पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥ ३.८२.६२ ॥
在那里沐浴后,自制并节制饮食的人,获得牛祭(gomedha)的果报。婆罗多之最啊,他能净化自己的家族,直至第七代。
3.82.63
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः ।
स मोदेत्सर्वलोकेषु एवमाहुर्मनीषिणः ॥ ३.८२.६३ ॥
在那密沙专心断食而舍弃生命的人,在一切世界中欢喜——智者如是说。
3.82.64
नित्यं मेध्यं च पुण्यं च नैमिषं नृपसत्तम ॥ ३.८२.६४ ॥
那密沙永远神圣而有功德,国王中最优秀者啊。
3.82.65
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः ।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत्सदा ॥ ३.८२.६५ ॥
到达恒河之源并禁食三夜的人,获得 vājapeya 祭的果报,并永远成为梵。
3.82.66
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः ।
सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥ ३.८२.६६ ॥
到达萨拉斯瓦蒂河的人,应当向祖先与诸神献上奠水;他在萨罗斯瓦塔世界中欢喜——对此毫无疑问。
3.82.67
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः ।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते।
देवसत्रस्य यज्ञस्य फलंप्राप्नोति कौरव ॥ ३.८२.६७ ॥
随后,以梵行者之心专注地前往巴呼陀。在那里住一夜,他便在天界受到尊崇。考拉瓦啊,他获得神圣祭会的果报。
3.82.68
ततः क्षीरवतीं गच्छेत्पुण्यां पुण्यतरैर्वृताम् ।
पितृदेवार्चनपरो वाजपेयमवाप्नुयात् ॥ ३.८२.६८ ॥
随后应前往牛奶河(克希拉伐蒂),它神圣,并被更为神圣的圣地环绕。专心供奉祖先与诸神的人,可获得婆阇跋耶祭。
3.82.69
विमलाशोकमासाद्य ब्र्हमचारी समाहितः ।
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ ३.८२.६९ ॥
梵行者心意专注,抵达毗摩罗阿输迦后住一夜,便在天界受到尊崇。
3.82.70
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् ।
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः।
देहं त्यक्त्वा महाराज तस्य तीर्थस्य तेजसा ॥ ३.८२.७० ॥
随后应前往萨罗由河的上等渡口“牛渡”(Goprātāra),罗摩曾在那里舍弃身体,连同仆从、军队与车乘升往天界,大王啊,凭借那圣渡的神力。
3.82.71
रामस्य च प्रसादेन व्यवसायाच्च भारत ।
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ३.८२.७१ ॥
凭借罗摩的恩典与坚定的决心,婆罗多子孙啊,人在那圣渡“牛渡”沐浴,人主啊,洗净一切罪孽之心,便在天界受到尊崇。
3.82.72
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन ।
अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥ ३.८२.७२ ॥
俱卢之喜悦者啊,在罗摩圣渡与戈玛蒂河沐浴的人,获得马祭;此人也使自己的家族得以清净。
3.82.73
शतसाहस्रकं तीर्थं तत्रैव भरतर्षभ ॥ ३.८२.७३ ॥
婆罗多族的雄牛啊,就在那里有一处十万倍功德的圣渡口。
3.82.74
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ।
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥ ३.८२.७४ ॥
在那里行了漱口净身之礼,克制而节食的人,便得到千头牛的功德,婆罗多族的雄牛啊。
3.82.75
रततो गच्छेत राजेनद्र भर्तृस्थानमनुत्तमम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ३.८२.७५ ॥
王中之王啊,人应前往名为婆陀利-斯塔那的至上圣地;在那里,他获得马祭的果报。
3.82.76
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ।
गोसहस्रफंल विद्यात्तेजस्वी च भवेन्नरः ॥ ३.८२.७६ ॥
国王啊,在俱提圣渡口沐浴并礼拜古诃(室建陀)的人,便知千头牛的果报,并成为光明威严之人。
3.82.77
ततो वाराणसीं गत्वा अर्चयित्वा नृषध्वजम् ।
कपिलाह्रदे नरः स्नात्वाराजसूयमवाप्नुयात् ॥ ३.८२.७७ ॥
然后前往婆罗奈,礼拜以牛旗为标志的主神,在迦毗罗湖沐浴的人,便获得王祭(罗阇苏耶)的果报。
3.82.78
अविमुक्तं समासाद्य तीर्थसेवी कुरूद्वह ।
दर्शनाद्देवदेवस्य मुच्यते ब्रह्महत्यया ॥ ३.८२.७८ ॥
俱卢族之首啊,抵达阿毗穆克陀并勤于朝圣的人,因见神中之神而脱离杀婆罗门之罪。
3.82.79
प्राणानुत्सृज्यतत्रैव मोक्षं प्राप्नोति मानवः ।
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ ३.८२.७९ ॥
在那里舍弃生命之气的人便得解脱,哦,王中之王,他到达了摩根德耶那稀有的圣渡口。
3.82.80
गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते ।
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ ३.८२.८० ॥
在世间闻名的戈摩提河与恒河汇合处,人获得阿耆尼ष्टोम祭的果报,也能拯救他的家族。
3.82.81
ततो गयां समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३.८२.८१ ॥
随后到达伽雅,作为守梵行的学徒、心意专一的人,获得马祭的果报,也能拯救家族。
3.82.82
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
तत्र दत्तं पितृभ्यस्तु भवत्यक्षयमुच्यते ॥ ३.८२.८२ ॥
那里有一棵名为阿克沙耶跋陀的榕树,闻名三界。据说,在那里供奉给祖先的,便成为不朽的。
3.82.83
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ।
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ३.८२.८३ ॥
在大河中漱水净身后,应当以供水使祖先与诸神满足;他获得不朽的世界,也能拯救家族。
3.82.84
ततो ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।
ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ॥ ३.८२.८४ ॥
随后前往被法林装饰的梵湖,人在夜尽、黎明来临之时便得到梵天之界。
3.82.85
ब्रह्मणा तत्र सरसि यूपश्रेष्ठः समुच्छ्रितः ।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥ ३.८२.८५ ॥
在那湖中,梵天竖起了最殊胜的祭柱。绕行此柱者,可获得婆阇跋耶祭的功德。
3.82.86
ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् ।
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ॥ ३.८२.८६ ॥
然后,王中之王啊,应前往名闻三界的牛宿圣地。大王,在那里住一夜后,应布施芝麻牛。
3.82.87
सर्वपापविशुद्धात्मा सोमलोकं ब्रजेद्भुवम् ।
तत्र चिह्निं महद्राजन्नद्यापि सुमहद्भृशम् ॥ ३.८२.८७ ॥
灵魂若洗净一切罪孽,便可在此大地上前往月神的世界。大王,那里至今仍可见到一个巨大而广阔的标记。
3.82.88
कपिलायाः सवत्सायाश्चरन्त्याः पर्वते कृतम् ।
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥ ३.८२.८८ ॥
褐色母牛迦毗罗与小牛在山上吃草时留下的足迹,至今仍可见到,婆罗多啊。
3.82.89
तेषूपस्पृश्य राजेन्द्रपदेषु नृपसत्तम ।
यत्कंचिदशुभं कर्म तत्प्रणश्यति भारत ॥ ३.८२.८९ ॥
在那些足迹处漱水并触摸它们,王中之王啊,无论何种不吉之业都将消灭,婆罗多啊。
3.82.90
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥ ३.८२.९० ॥
然后应前往秃鹫榕,即智慧之神的所在。在那里,走近以牛为旗者,应以圣灰沐浴。
3.82.91
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ ३.८२.९१ ॥
婆罗门应当完成十二年的誓愿;其他种姓则一切罪过皆被消除。
3.82.92
उद्यन्तं च ततो गच्छेत्पर्वतं गीतनादितम् ।
सावित्र्यास्तु पदं तत्र दृश्यते भरतर्षभ ॥ ३.८२.९२ ॥
随后应前往那座耸立、歌声回荡的山;婆罗多族的雄牛啊,那里可见萨维特丽的足迹。
3.82.93
तत्रसंध्यामुपासीत ब्राह्मणः संशितव्रतः ।
उपासिता भवेत्संध्या तेन द्वादशवार्षिकी ॥ ३.८२.९३ ॥
在那里,持守坚定誓愿的婆罗门应行晨昏礼拜;由此便成就十二年的晨昏礼拜。
3.82.94
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।
तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् ॥ ३.८२.९४ ॥
婆罗多族的雄牛啊,那里正是著名的产门;人到了那里,便脱离生育的混杂。
3.82.95
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः ।
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ ३.८२.९५ ॥
国王啊,人若在伽耶住满黑、白两个半月,便能净化其家族直至第七代;此事无疑。
3.82.96
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् ॥ ३.८२.९६ ॥
若有人前往伽耶,应当祈求众多子嗣;他可娶一位肤色白皙的少女,或放出一头深蓝色的公牛。
3.82.97
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥ ३.८२.९७ ॥
国王啊,人主啊,常行朝圣的人应当前往法尔古圣地;他获得马祭的果报,并达到伟大的成就。
3.82.98
ततो गच्छेत राजेन्द्र धर्मप्रस्थं समाहितः ।
तत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ ३.८२.९८ ॥
君王之主啊,之后应当心意专一地前往法道之地;大王啊,般遮罗之子,法永远住在那里。
3.82.99
तत्र कूपोदकं कृत्वा तेन स्नातः शुचिस्तथा ।
पितॄन्देवांस्तु संतर्प्य मुक्तपापो दिवं व्रजेत् ॥ ३.८२.९९ ॥
在那里取井水沐浴,使自己清净,并使祖先与诸神满足,罪过得以解脱,人便升往天界。
3.82.100
मतङ्गस्याश्रमस्तत्रमहर्षेर्भावितात्मनः ॥ ३.८२.१०० ॥
那里有摩坦伽的修行处,那是一位自制其心的大仙人。
3.82.101
तं प्रविश्याश्रमं श्रीमच्छ्रमशोकविनाशनम् ।
गवामयनयज्ञस्य फलंप्राप्नोति मानवः ॥ ३.८२.१०१ ॥
人进入那吉祥的、能除去疲劳与忧愁的修行处,便得到牛行祭的果报。
3.82.102
धर्मं तत्राभिसंस्पृश्य वाजिमेधमवाप्नुयात् ॥ ३.८२.१०२ ॥
在那里触及法之地,便应当获得马祭的果报。
3.82.103
ततो गच्छेत राजेन्द्र ब्रह्मस्थानमनुत्तमम् ।
तत्राभिगम्य राजेन्द्र ब्रह्माणं पुरुषर्षभ।
राजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ॥ ३.८२.१०३ ॥
然后,诸王之主啊,应当前往梵天的至高之处。在那里,诸王之主、人中之牛啊,人接近梵天后,便获得罗阇苏耶与马祭的果报。
3.82.104
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप ।
उपस्पृश्य ततस्तत्रकक्षीवानिव मोदते ॥ ३.८२.१०४ ॥
然后,人主啊,常行圣地沐浴的人应前往王舍城。在那里漱口净身后,他欢喜如同迦克史瓦特。
3.82.105
यक्षिण्या नैत्यकं तत्र प्राश्नीन पुरुषः शुचिः ।
यक्षिण्यास्तु प्रसादेन मुच्यते ब्र्हमहत्यया ॥ ३.८२.१०५ ॥
在那里,清净的人应领受夜叉女的日常供品;因夜叉女的恩典,他便从杀害婆罗门的罪中解脱。
3.82.106
मणइनागं ततो गत्वा गोसहस्रफलं लभेत् ॥ ३.८२.१०६ ॥
然后前往摩尼那伽,便可获得千牛之果报。
3.82.107
तैर्थिकं भुञ्जते यस्तु मणिनागस् भारत ।
दष्टस्याशीविषेणापि न तस्य क्रमते विपम् ॥ ३.८२.१०७ ॥
婆罗多之后裔啊,凡食用摩尼那伽圣供者,即便被毒蛇咬伤,毒也不会在他体内蔓延。
3.82.108
तत्रोष् रजनीभेकां गोसहस्रफंल लभेत् ।
ततो गच्छेत ब्रह्मर्पेर्गौतमस्य वनं प्रियम् ॥ ३.८२.१०८ ॥
在那里住一夜,便可获千牛之果报。然后应前往梵仙乔达摩所爱之林。
3.82.109
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ।
अभिगम्याश्रमं राजन्विनद्ते श्रियमात्मनः ॥ ३.८२.१०९ ॥
在阿诃厘耶的湖中沐浴后,人应达到至高的归宿。啊国王,走近她的修行处,便能获得自己的福祉。
3.82.110
तत्रोदपानं धर्मज्ञ त्रिपु लोकेषु विश्रुतम् ।
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥ ३.८२.११० ॥
啊,明法者,那里有一口井,闻名三界。在那里行灌顶沐浴,便能获得马祭。
3.82.111
जनकस् तु राजर्षेः कूपस्त्रिदशपूजितः ।
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ ३.८२.१११ ॥
王仙遮那的井为诸天所尊崇。在那里行灌顶沐浴,便能获得毗湿奴的世界。
3.82.112
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् ।
वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥ ३.८२.११२ ॥
然后应前往能解脱一切罪业的毗那舍那。他获得婆阇波夷祭,并往月神之界而去。
3.82.113
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् ।
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥ ३.८२.११३ ॥
抵达由一切圣地之水所生的甘达基河,便获得婆阇波夷祭,并往太阳之界而去。
3.82.114
कततो विशल्यामासाद्य नदीं त्रैलोक्यविश्रुताम् ।
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥ ३.८२.११४ ॥
然后抵达三界闻名的毗舍利耶河,便获得阿格尼斯托玛祭,并往天界而去。
3.82.115
ततोऽधिवङ्गं धर्मज्ञ समाविश्य ततो वनम् ।
गुह्यकेषु महाराज मोदते नात्र संशयः ॥ ३.८२.११५ ॥
然后,法之智者啊,进入阿提万伽,再入森林,大王啊,他在夜叉之中欢喜,此中无疑。
3.82.116
कम्पनां तु समासद्य नदीं सिद्धनिवेषिताम् ।
पुण्डरीकमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३.८२.११६ ॥
到达被悉陀所常驻的坎帕那河,他获得白莲之果,并前往天界。
3.82.117
अथ माहेश्वरीं धारां समासाद्य धराधिप ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३.८२.११७ ॥
然后,大地之主啊,他到达摩醯首罗之流,获得马祭之果,也能拯救自己的家族。
3.82.118
दिवौकसां पुष्करिणीं समासाद्य नराधिप ।
न दुर्गतिमवाप्नोति वाजिमेधं च विन्दति ॥ ३.८२.११८ ॥
人主啊,到达天人的莲池,他不会陷入恶趣,并获得马祭之果。
3.82.119
अथ सोमपदं गच्छेद्ब्रह्मचारी समाहितः ।
माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ ३.८२.११९ ॥
然后,心志专一的梵行者应前往月神之处;在摩醯首罗之处沐浴后,当获马祭之果。
3.82.120
तत्रकोटी तु तीर्थानां विश्रुता भरतर्षभ ।
कूर्मरूपेण राजेन्द्र ह्यसुरेण दुरात्मना ॥ ३.८२.१२० ॥
那里闻名的圣渡有千万之数,婆罗多中的雄牛啊;人王啊,邪恶的阿修罗以龟形(建立了它们)。
3.82.121
ह्रियमाणा हृता राजन्विष्णुना प्रभविष्णुना ।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां युधिष्ठिर ॥ ३.८२.१२१ ॥
大王啊,被全能的毗湿奴夺走之处。在那里,应于千万圣渡处行灌顶礼,优陀室柢罗啊。
3.82.122
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ।
ततो गच्छेत राजेन्द्रस्थानं नारायणस्य च ॥ ३.८२.१२२ ॥
他获得白莲之果,并前往毗湿奴之界。然后,诸王之主啊,应前往那罗延之处。
3.82.123
सदा सन्निहितो यत्रविष्णुर्वसति भारत ।
यत्रब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ३.८२.१२३ ॥
婆罗多的后裔啊,毗湿奴恒常居住之处,梵天等诸神与以苦行为财富的仙人们居住之处。
3.82.124
आदित्या वसवो रुद्रा जनार्दनमुपासते ।
शालग्राम इति ख्यातो विष्णुरद्भुतकर्मकः ॥ ३.८२.१२४ ॥
阿底提亚、婆苏与楼陀罗诸神敬拜生主(Janārdana)。行奇妙之业的毗湿奴,以沙罗磨(Śālagrāma)之名著称。
3.82.125
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ३.८२.१२५ ॥
亲近三界之主、赐予恩惠、不朽的毗湿奴,他获得马祭之果,并前往毗湿奴之界。
3.82.126
तत्रोपदानं धर्मज्ञ सर्वपापप्रमोचनम् ।
समुद्रास्तत्रचत्वारः कूपे संनिहिताः सदा।
तत्रोपस्पृश् राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ ३.८२.१२६ ॥
在那里,法之知者啊,布施可脱离一切罪业。在那里,四海常驻于井中。诸王之主啊,在那里漱水者不会堕入恶趣。
3.82.127
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।
विराजति यथासोमो मेघैर्मुक्तो नराधिप ॥ ३.८२.१२७ ॥
走近三界之主、赐予恩惠、不朽的毗湿奴,他便如摆脱云层的月亮般光耀,人主啊。
3.82.128
जातिस्मरमुपस्पृश्य शुचिः प्रयतमानसः ।
जातिस्मरत्वमाप्नोति स्नात्वा तत्र न संशयः ॥ ३.८२.१२८ ॥
在宿命之圣地漱水净身,心志专一清净,在那里沐浴后,便获得前世的记忆,此中无疑。
3.82.129
वदेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् ।
ईप्सिताँल्लभते कामानुपवासान्न संशयः ॥ ३.८२.१२९ ॥
前往伐提湿伐罗城,礼拜羯舍婆,经由斋戒,便得所愿,此中无疑。
3.82.130
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् ।
अभिगम्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ ३.८२.१३० ॥
然后前往遍除一切罪孽的侏儒毗湿奴,亲近天神哈利,便不会堕入恶道。
3.82.131
भरतस्याश्रमं गच्छेत्सर्वपापप्रमोचनम् ॥ ३.८२.१३१ ॥
应当前往婆罗多的净修林,它能遍除一切罪孽。
3.82.132
कौशिकीं तत्र गच्छेत महापापप्रणाशिनीम् ।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ३.८२.१३२ ॥
应前往摧毁大罪的考希基河。人便能获得王祭(拉贾苏耶)的果报。
3.82.133
ततो गच्छेत राजेन्द्र चम्पकारण्यमुत्तमम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ३.८२.१३३ ॥
然后,王中之王啊,应前往殊胜的瞻波迦林。在那里住一夜,即可获得千牛之福。
3.82.134
अथ जेष्ठिलमासाद्य तीर्धं परमदुर्लभम् ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ३.८२.१३४ ॥
然后到达极为稀有的阇湿提罗渡口,在那里住一夜,即可获得千牛之福。
3.82.135
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ।
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ।
त्रिरात्रोपोषितस्तत्रअग्निष्टोमफलं लभेत् ॥ ३.८२.१३५ ॥
在那里瞻仰与天女同在的大光明毗湿伐罗,人可到达弥陀罗与婆楼那的世界,人中雄牛啊。在那里禁食三夜,即可获得火祭(Agniṣṭoma)之福。
3.82.136
कन्यासंवेद्यमासाद्य नियतो नयिताशनः ।
मनोः प्रजापतेर्लोकानाप्नोति पुरुषर्षभ ॥ ३.८२.१३६ ॥
到达少女闻知之地,克己守制,节食,人中雄牛啊,即可获得摩奴与生主的世界。
3.82.137
कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत ।
तदक्षय्यमिति प्राहुर्ऋषयः संशितव्रताः ॥ ३.८२.१३७ ॥
若向少女布施哪怕一点点,婆罗多啊,持守誓愿的仙人们说,此福永不消竭。
3.82.138
ततो निर्वीरमासाद्य त्रिपु लोकेपु विश्रुतम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ३.८२.१३८ ॥
然后到达在三界闻名的无勇(Nirvīra)之地,即可获得马祭之福,并往生毗湿奴之界。
3.82.139
ये त्विन्धनं प्रयच्छन्ति निर्वीरासंगमे नराः ।
ते यान्ति नरशार्दूल शक्रलोकमनामयम् ॥ ३.८२.१३९ ॥
在无勇者汇流处供奉薪柴的人,人中之虎啊,将往因陀罗界,远离疾病。
3.82.140
तत्राश्रमो वसिष्ठस् त्रिषु लोकेषु विश्रुतः ।
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ ३.८२.१४० ॥
那里有闻名三界的婆悉吒仙人的修行处;在那里行灌顶礼者,可获得婆阇波夷祭的功德。
3.82.141
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३.८२.१४१ ॥
抵达被众梵仙所侍奉的提婆库吒,即可获得马祭的功德,并能提拔自己的家族。
3.82.142
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् ।
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोथ कौशिकः ॥ ३.८२.१४२ ॥
然后,王中之王啊,应前往仙人憍尸迦的湖,在那里憍尸迦毗首密多获得了至高的成就。
3.82.143
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ ।
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ ३.८२.१४३ ॥
在那里,于憍尸迦河边住一个月,英雄,婆罗多族之牛啊;马祭的功德,一个月即可获得。
3.82.144
सर्वतीर्थवरे चैव यो वसेत महाह्रदे ।
न दुर्गतिमवाप्नोति विन्द्याद्बहु सुवर्णकम् ॥ ३.८२.१४४ ॥
在所有最殊胜的圣地中,居于这大湖者不会遭遇恶趣;应知他将获得大量黄金。
3.82.145
कुमारमभिगम्याथ वीराश्रमनिवासिनम् ।
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥ ३.८२.१४५ ॥
人若走近住在英雄苦行林中的童子,便能获得马祭之功德,此中无疑。
3.82.146
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् ।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥ ३.८२.१४६ ॥
到达三界闻名的火流,在那里行沐浴礼者,便能获得火祭之功德。
3.82.147
अभिगम्य महादेवं वरदं विष्णुमव्ययम् ।
पितामहसरो गत्वा शैलराजसमीपतः।
तत्राभिषेकं कुर्वाणो ह्यग्निष्टोममवाप्नुयात् ॥ ३.८२.१४७ ॥
亲近大天神与施恩的不灭毗湿奴,到达山王附近的梵天湖,在那里行沐浴礼者,便能获得火祭之功德。
3.82.148
पितामहस्य सरसः प्रस्रुता लोकपावनी ।
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥ ३.८२.१४८ ॥
净化世界的童子河从梵天湖流出,正在那里,它在三界闻名。
3.82.149
यत्रस्नात्वा कृतार्थोस्मीत्यात्मानमवगच्छति ।
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥ ३.८२.१४९ ॥
在那里沐浴后自觉圆满者,经过第六时段的斋戒,便从杀害婆罗门之罪中解脱。
3.82.150
ततो गच्छेत धर्मज्ञ तीर्थसेवनतत्परः ।
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ॥ ३.८२.१५० ॥
此后,法之知者啊,专心于朝拜圣地者应前往三界闻名的大女神高利之峰。
3.82.151
समारुह्य नरश्रेष्ठ स्तनकुण्डेषु संविशेत् ।
स्तनकुण्डमुपस्पृश्य वाजपेयफलं लभेत् ॥ ३.८२.१५१ ॥
人中之最,登上后应进入乳池(stanakuṇḍa)。触碰乳池(沐浴净身)即可获得瓦阇佩耶祭的功德。
3.82.152
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।
हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥ ३.८२.१५२ ॥
在那里行沐浴礼,专心祭祀祖先与诸神,便获得马祭的功德,并往因陀罗界而去。
3.82.153
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः ।
अश्वमेमवाप्नोति ब्रह्मलोकं च गच्छति ॥ ३.८२.१५३ ॥
到达铜红色的水池,身为梵行者且心志专一,便获得马祭的功德,并往梵界而去。
3.82.154
नन्दिन्यां च समासाद्य कूपं देवनिषेवितम् ।
नरमेधस् यत्पुण्यं तदाप्तोति नराधिप ॥ ३.८२.१५४ ॥
到达难提尼河与诸神所常至之井,人主啊,便获得人祭的那份功德。
3.82.155
कालिकासंगमे स्नात्वा कौशिक्यरुणयोर्गतः ।
त्रिरात्रोपोषितो राजन्सर्वपापैः प्रमुच्यते ॥ ३.८२.१५५ ॥
在迦利迦汇流处沐浴,前往考希基与阿如那之汇流处,禁食三夜,大王,便脱离一切罪恶。
3.82.156
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः ।
कुम्भकर्णाश्रमं गत्वा पूज्यते भुविमानवः ॥ ३.८२.१५६ ॥
到达乌尔瓦希圣地,再到月神之修行处,智者前往俱扪伽罗那修行处,便在大地上受人尊崇。
3.82.157
कोकामुखमुपस्पृश् ब्रह्मचारी यतव्रतः ।
जातिस्मरत्वमाप्नोति दृष्टमेतत्पुरातनैः ॥ ३.८२.१५७ ॥
到达Kokāmukha渡口并漱水净身后,守持梵行与誓戒的修行学童便能获得宿世记忆。这是古人所亲见的。
3.82.158
प्राङ्गदीं च समासाद्य कृतात्मा भवति द्विजः ।
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥ ३.८२.१५८ ॥
到达Prāṅgadī渡口后,再生者自我得到净化;心灵完全洗净一切罪孽,他便前往因陀罗的天界。
3.82.159
ऋषभद्वीपमासाद्य मेध्यं क्रौञ्चनिषूदनम् ।
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ ३.८२.१५९ ॥
到达Ṛṣabha岛与圣洁的Krauñcaniṣūdana渡口,在Sarasvatī河中漱水净身,他站立在天车之上,光辉闪耀。
3.82.160
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् ।
तत्राभिषेकं कृत्वा वै सर्वपापैः प्रमुच्यते ॥ ३.८२.१६० ॥
大王啊,Auddālaka渡口是诸仙所常至之处。在那里沐浴灌顶的人,可从一切罪过中解脱。
3.82.161
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् ।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ ३.८२.१६१ ॥
到达功德殊胜、为婆罗门仙人所常至的法渡口,便得婆阇波耶祭的果报;站立天车之上,受人敬奉。
3.82.162
अथ पम्पां समासाद्य भागीरथ्यां कृतोदकः ।
दण्डार्तमभिगत्वा तु गोसहस्रफलं लभेत् ॥ ३.८२.१६२ ॥
随后到达Pampā渡口,在婆吉罗提河中献水供养,前往受刑罚之苦的人身边者,可得千牛之果报。
3.82.163
ततो लेवलिकां गच्छेत्पुण्यां पुण्योपसेविताम् ।
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ ३.८२.१६३ ॥
随后应前往圣地列伐利迦,那是虔诚者所常至之处;他获得瓦阇佩耶祭的功德,立于天车之上而受供奉。