摩诃婆罗多 · 章 3.83
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.83.1
अथ सन्ध्यां समासाद्य संवेद्ये तीर्थ उत्तमे ।
उपस्पृश्य नरो विद्यां लभते नात्र संशयः ॥ ३.८३.१ ॥
随后在黄昏时分到达最殊胜、著名的圣渡口,漱口净手之后,人便获得智慧,此事毫无疑问。
3.83.2
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा ।
तल्लौहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥ ३.८३.२ ॥
大王,此圣渡口乃往昔因罗摩的恩德所成;抵达那处罗诃底耶渡口,人便应得大量黄金。
3.83.3
करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः ॥ ३.८३.३ ॥
人若到达卡罗托雅河,禁食三夜,便得马祭之功;此规则乃生主所定。
3.83.4
गङ्गायास्तत्र राजेन्द्र सागरस्य च सङ्गमे ।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ३.८३.४ ॥
王中之最,在恒河与大海的交汇处,智者宣说马祭之功增十倍。
3.83.5
गङ्गायास्त्वपरं पारं प्राप्य यः स्नाति मानवः ।
त्रिरात्रमुषितो राजन्सर्वान्कामानवाप्नुयात् ॥ ३.८३.५ ॥
大王,人若到达恒河的彼岸,沐浴并在那里住三夜,便能得到一切所愿。
3.83.6
ततो वैतरणीं गत्वा सर्वपापप्रमोचनीम् ।
विरजातीर्थमासाद्य विराजति यथा शशी ॥ ३.८३.६ ॥
随后前往能解除一切罪业的伐traṇī河,抵达毗罗阇渡口,他便如月亮般光辉。
3.83.7
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति ।
गोसहस्रफंल लब्ध्वा रपुनाति स्वकुलं नरः ॥ ३.८३.७ ॥
生于福德之家的人消除一切罪恶;获得千头牛的功德后,他净化了自己的家族。
3.83.8
शोणस्य ज्योतिरथ्यायाः संगमे नियतः शुचिः ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ३.८३.८ ॥
在首那河与光车河的汇合处,自制而清净,以祭水供奉祖先与诸神,人便可获得阿耆尼штома祭的果报。
3.83.9
शोणस्य नर्मदायाश् प्रभेदे कुरुनन्दन ।
वंशगुल्म उपस्पृश्य वाचजिमेधफलं लभेत् ॥ ३.८३.९ ॥
啊,俱卢之喜,在首那河与那尔玛达河分流处,于竹丛中漱水净身,人便可获得马祭的果报。
3.83.10
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ ३.८३.१० ॥
人若禁食三夜,便获得婆阇帕耶祭的果报;他应知这是千头牛的功德,并当拔济自己的家族。
3.83.11
कोसलां तु समासाद्य कालतीर्थमुपस्पृशेत् ।
वृषभैकादशफलं लभते नात्र संशयः ॥ ३.८३.११ ॥
到达俱萨罗后,应在时间渡口漱水净身;可获得十一头公牛的果报,此事无疑。
3.83.12
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप ॥ ३.८३.१२ ॥
在花河中漱水净身,并禁食三夜,人啊,国王,可获得千头牛的功德,并净化自己的家族。
3.83.13
ततो बदरिकातीर्थे स्नात्वा भरतसत्तम ।
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥ ३.८३.१३ ॥
随后,在跋达利迦渡口沐浴,婆罗多中最优秀者啊,人获得长寿并前往天界。
3.83.14
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः ।
दण्डाख्यमभिगम्यैव गोसहस्रफलं लभेत् ॥ ३.८३.१४ ॥
同样,到达占婆,在跋吉罗提河中奉献水供,若前往名为檀荼的渡口,便可获得千头牛布施的功德。
3.83.15
लपेटिकां ततो गच्छेत्पुण्यां पुण्योपशोभिताम् ।
वाजपेयमवाप्नोति देवैः सर्वैश्च पूज्यते ॥ ३.८३.१५ ॥
随后应前往圣地拉佩提迦,以功德庄严;可获得婆阇波夷祭,并受到一切天神的尊崇。
3.83.16
ततो महेन्द्रमासाद्य जामदग्न्यनिपेवितम् ।
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ ३.८३.१६ ॥
随后到达为耶摩达格尼之子(罗摩)所常临的摩亨陀罗山,在罗摩渡口沐浴的人应获得马祭的果报。
3.83.17
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन ।
तत्र स्नात्वा कुरुश्रेष्ठ गोसहस्रफलं लभेत् ॥ ३.८३.१७ ॥
摩当伽的池塘就在那里。库鲁之喜啊,在那里沐浴后,库鲁中最优秀者啊,应获得千头牛布施的功德。
3.83.18
श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् ।
रअश्वमेधमवाप्नोति पूजयित्वा वृषध्वजम् ॥ ३.८३.१८ ॥
到达室利山后,应在河岸边以水净身;礼拜牛旗神(湿婆)后,便可获得马祭的果报。
3.83.19
श्रीपर्वते महादेवो देव्या सह महाद्युतिः ।
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैः सह ॥ ३.८३.१९ ॥
在室利山上,大光明的摩诃提婆与女神同住,极为欢喜;梵天也与诸天神同在。
3.83.20
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ३.८३.२० ॥
在那里,于天神之湖中沐浴,清净而心意专一的人,便得马祭,也能拔度自己的家族。
3.83.21
ऋषभं पर्वतं गत्वा पाण्ड्येषु नृपपूजितम् ।
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ ३.८३.२१ ॥
前往受潘地王者敬拜的牛山,便得婆阇跋耶祭,并在天界之巅欢喜。
3.83.22
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः ।
तत्रस्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ३.८३.२२ ॥
随后应前往被天女群所环绕的迦毗梨河;大王,人在那里沐浴,便得千牛之福。
3.83.23
ततस्तीरे समुद्रस्य कन्यातीर्थमुपस्पृशेत् ।
तत्तोयं स्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ ३.८३.२३ ॥
随后应在大海之滨触摸少女渡口;大王之主,触及其水者便能脱离一切罪业。
3.83.24
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् ।
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ ३.८३.२४ ॥
随后抵达三界闻名的瞿迦尔纳,大王之主,应礼敬那位于大海中央、受一切世界礼拜的圣地。
3.83.25
रयत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः ॥ ३.८३.२५ ॥
那里,梵天等诸神、以苦行为财富的仙人、鬼魂、夜叉、毕舍遮、紧那罗和大蛇也都来供养。
3.83.26
सिद्धचारणगन्धर्वमानुषाः पन्नगास्तथा ।
सरितः सागराः शैला उपासन्त उमापतिम् ॥ ३.८३.२६ ॥
悉达、遮罗那、乾闼婆、人类与蛇,以及河流、大海和山岳,都供养乌玛之主。
3.83.27
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ ३.८३.२७ ॥
在那里,恰当供养自在天(伊莎那),禁食三夜的人,便得马祀之果,并获得迦那钵底之位。
3.83.28
उष्य द्वादशरात्रं तु पूतात्मा च भवेन्नरः ॥ ३.८३.२८ ॥
在那里停留十二夜的人,灵魂便得清净。
3.83.29
तत एव च गायत्र्याः स्थानं त्रैलोक्यपूजितम् ।
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्।
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ॥ ३.८३.२९ ॥
也正是在那里,有被三界供养的迦耶特丽之所。在那里住三夜的人,得千牛之福。王中之王啊,此事的明显证据就在婆罗门之中。
3.83.30
गायत्रीं पठते यस्तु योनिसंकरजस्तथा ।
गाथा च गाथिका चापि तस्य संपद्यते नृप ॥ ३.८३.३० ॥
诵持迦耶特丽者,即使出身混杂,王啊,他也能成就偈颂与歌咏。
3.83.31
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥ ३.८३.३१ ॥
非婆罗门诵读萨维特里者,其功德便会消失。
3.83.32
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् ।
रूपस्य भागी भवति सुभगश्च प्रजायते ॥ ३.८३.३२ ॥
到达婆罗门仙人桑瓦尔塔的稀有水池者,便能分享美貌,并生而有福。
3.83.33
ततो वेणां समासाद्य त्रिरात्रोपोषितो नरः ।
मयूरहंससंयुक्तं विमानं लभते नरः ॥ ३.८३.३३ ॥
此后到达维纳河,断食三夜的人,将获得由孔雀与天鹅相配的天车。
3.83.34
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् ।
गवां मेधमवाप्नोति वासुकेर्लोकमुत्तमम् ॥ ३.८३.३४ ॥
此后到达常有悉陀(成就者)游憩的戈达瓦里河,便能获得牛祭的功德,并抵达婆苏吉的至上世界。
3.83.35
वेणायाः संगमे स्नात्वा वाजिमेधफलं लभेत् ।
वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८३.३५ ॥
在维纳河汇流处沐浴者,应得马祭之果;在瓦拉达河汇流处沐浴者,应得千牛之果。
3.83.36
ब्रह्मस्थानं समासाद्य त्रिरात्रोपोषितो नरः ।
गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ॥ ३.८३.३६ ॥
到达梵天之处并断食三夜的人,应得千牛之果,并往天界而去。
3.83.37
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः ।
त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥ ३.८३.३७ ॥
若梵行者心志专一,抵达拘舍普拉瓦那,停留三夜并沐浴,便能获得马祭的福报。
3.83.38
ततो देवह्रदेऽरण्ये कृष्णवेणाजलोद्भवे ।
जातिस्मरह्रदे स्नात्वा भवेज्जातिस्मरो नरः।
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ॥ ३.८३.३८ ॥
然后在森林中,在由黑维那之水所生的神湖,在忆宿命湖中沐浴,人便能忆起前世;царь богов曾在此行百次祭祀后升天。
3.83.39
अग्निष्टोमफलं विन्द्याद्गमनादेव भारत ।
ततः सर्वह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८३.३९ ॥
婆罗多之子啊,仅仅前往那里,便当知获得阿耆尼输托摩祭之果;随后在一切湖中沐浴,便获得布施千头牛之果。
3.83.40
ततो वापीं महापुण्यां पयोष्णीं सरितां वराम् ।
पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥ ३.८३.४० ॥
随后抵达名为波夜什尼、最为神圣的水池,河流中最殊胜者;专心供奉祖先与诸神之人,便获得布施千头牛之果。
3.83.41
दण्डकारण्यमासाद्य पुण्यं राजन्नुपस्पृशेत् ।
गोसहस्रफलं तस्य स्नातमात्रस्य भारत ॥ ३.८३.४१ ॥
大王啊,抵达神圣的檀陀迦森林,应以圣水漱口;婆罗多之子啊,他一旦沐浴,便得布施千头牛之果。
3.83.42
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ।
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥ ३.८३.४२ ॥
人若前往沙罗薄伽的修行处与伟大的舒伽的修行处,便不会陷入恶趣,并且能使自己的家族清净。
3.83.43
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् ।
रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥ ३.८३.४३ ॥
随后,人应前往由耶摩达格尼之子所常访的苏尔帕拉卡;在罗摩渡口沐浴后,他将获得大量黄金。
3.83.44
सप्तगोदावरे स्नात्वा नियतो नियताशनः ।
महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥ ३.८३.४४ ॥
在七河戈达瓦里沐浴后,自制且饮食有节的人获得大功德,并前往天界。
3.83.45
ततो देवपथं गत्वा नियतो नियताशनः ।
देवसत्रस्य यत्पुण्यं तदेवाप्नोति मानवः ॥ ३.८३.४५ ॥
随后前往诸神之道,自制且饮食有节的人获得的,正是神祭的功德。
3.83.46
तुङ्गकारण्यमासाद्य ब्र्हमचारी जितेन्द्रियः ।
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥ ३.८३.४६ ॥
到达图恩伽森林后,禁欲的梵行者、已调伏诸根的萨拉斯瓦塔仙人,在古时于彼处教授吠陀。
3.83.47
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः ।
ऋषीणआमुत्तरीयेषु सूपविष्टो यथासुखम् ॥ ३.८३.४७ ॥
彼处吠陀失传之时,仙人安吉罗斯之子便安然坐在诸仙人的上衣之上。
3.83.48
ओंकारेण यथान्यायं सम्यगुच्चारितेन ह ।
येन यत्पूर्वमभ्यस्तं तत्सर्वं समुपस्थितम् ॥ ३.८३.४८ ॥
依照规则正确念诵“唵”字时,凡是先前所学的,全都回到了他的心中。
3.83.49
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः ।
हरिर्नारायणस्तत्र महादेवस्तथैव च ॥ ३.८३.४९ ॥
那里有仙人与诸神,伐楼那、阿耆尼、生主;那里有哈里·那罗延,同样也有大天。
3.83.50
पितामहश्च भगवान्देवैः सह महाद्युतिः ।
भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ ३.८३.५० ॥
尊贵的祖父与诸神一道,任命光辉赫赫的婆利古主持祭祀。
3.83.51
ततः स चक्रे भगवानृषीणां विधिवत्तदा ।
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥ ३.८३.५१ ॥
于是那位尊者依仪轨,为诸仙人全部重新安立火坛,依规定的仪式而行。
3.83.52
आज्यभागेन तत्राग्नीं तर्पयित्वा यथाविधि ।
देवाः स्वभवनं याता ऋषयश्च यथाक्रमम् ॥ ३.८३.५२ ॥
于是依仪轨以酥油之分供养火神,诸天各返其宫,诸仙人也依次离去。
3.83.53
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ।
पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा ॥ ३.८३.५३ ॥
诸王之最!凡女人或男人进入那片森林中的神圣的 Tuṅgaka 圣地,其一切罪恶都会消灭。
3.83.54
तत्रमासं वसेद्धीरो नियतो नियताशनः ।
ब्रह्मलोकं व्रजेद्राजन्कुलं चैव समुद्धरेत् ॥ ३.८३.५४ ॥
在那里,坚定、自制、饮食有节的人应住一个月;大王,他将往梵界,也能拯救自己的家族。
3.83.55
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् ।
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ ३.८३.५५ ॥
到达梅陀维迦后,应以供奉使祖先和诸神得到满足。他将获得阿格尼斯托玛祭的果报,并获得记忆与智慧。
3.83.56
अत्र कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् ।
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८३.५६ ॥
从此处前往闻名于世的卡兰遮罗山,在那里的神湖提婆湖沐浴,便可获得布施千头牛的果报。
3.83.57
आत्मानं स्नापयेत्तत्रगिरौ कालञ्जरे नृप ।
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥ ३.८३.५७ ॥
大王啊,在那里卡兰遮罗山上应当为自己沐浴;人在天界受到尊崇,此中无疑。
3.83.58
ततो गिरिवरश्रेष्ठे चित्रकूटे विशांपते ।
मन्दाकिनीं समासाद्य सर्वपापप्रणाशिनीम् ॥ ३.८३.५८ ॥
然后,人主啊,到达群山中最殊胜的奇楚山,应前往能摧毁一切罪业的曼达吉尼河。
3.83.59
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ ३.८३.५९ ॥
在那里沐浴,并乐于供奉祖先与诸神,便可获得马祭的果报,抵达至上之境。
3.83.60
ततो गच्छेत धर्मज्ञ भर्तृस्थानमनुत्तमम् ।
यत्र नित्यं महासेनो गुहः सन्निहितो नृप ॥ ३.८३.६० ॥
法智者啊,然后应前往无上的主神之居所,那里大将军古诃常在,大王啊。
3.83.61
तत्र गत्वा नृपश्रेष्ठ गमनादेव सिध्यति ।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ३.८३.६१ ॥
王中之上,去那里便能成就。在俱底渡口沐浴的人,可得千牛之功德。
3.83.62
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः ।
अभिगम्य महादेवं विराजति यथा शशी ॥ ३.८३.६२ ॥
右绕而行,人应前往长者之处。走近大天,他便如月亮般光辉。
3.83.63
तत्र कूपे महाराज विश्रुता भरतर्षभ ।
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥ ३.८३.६३ ॥
大王,那里井中有著名之处,婆罗多之牛啊。尤第施提啊,那里居住着四大海洋。
3.83.64
तत्रोपस्पृश्य राजेन्द्र पितृदेवार्चने रतः ।
नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ ३.८३.६४ ॥
在那里漱水之后,王中之主,专心祭祀祖先与诸神,自制而清净的人应当达到至高之境。
3.83.65
ततो गच्छेत राजेन्द्र शृङ्गबेरपुरं महत् ।
यत्रतीर्णो महाराज रामो दाशरथिः पुरा ॥ ३.८३.६५ ॥
王中之主啊,然后应前往伟大的城市 Śṛṅgabera,大王,达叙罗陀之子罗摩昔日曾在那里渡过。
3.83.66
रकतस्मिंस्तीर्थे महाबाहो स्नात्वा पापैः प्रमुच्यते ।
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ॥ ३.८३.६६ ॥
大臂者啊,在血渡口沐浴的人可脱离罪恶。然而在恒河中,作梵行者、心意专一而沐浴的人……
3.83.67
विधूतपाप्मा भवति वाजपेयं च विन्दति ।
ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः ॥ ३.८३.६७ ॥
洗净罪孽者可获得婆阇钵耶祭的果报。之后应前往牟阇跋吒,即智慧之神的居所。
3.83.68
अभिगम्य महादेवमभिवाद्य च भारत ।
प्रदक्षिणमुपावृत् यगाणपत्यमवाप्नुयात् ॥ ३.८३.६८ ॥
婆罗多啊,走近大天并致敬,右绕而行,便可获得象主(迦那波提)的地位。
3.83.69
तस्मिंस्तीर्थे तु जाह्नव्यां स्नात्वा पापैः प्रमुच्यते ।
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ॥ ३.८३.६९ ॥
在那圣渡口,于恒河沐浴的人可脱离罪孽。然后,王中之王啊,应前往仙人所赞的普拉雅伽。
3.83.70
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ।
लोकपालाश्च साध्याश्च पितरो लोकसंमताः ॥ ३.८३.७० ॥
梵天等诸神、诸方及其主宰、世界护卫者、萨提亚、以及为世间所尊的祖灵都在此处。
3.83.71
सनत्कुमारप्रमुखास्तथैव परमर्षयः ।
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽमलाः ॥ ३.८३.७१ ॥
以萨纳特库马拉为首的至上仙人,以及以安吉罗娑为首的清净梵仙,也都在那里。
3.83.72
तथा नागाः सुपर्णश्च सिद्धाश्चक्रचरास्तथा ।
सरितः सागराश्चैव गन्धर्वाप्सरसोऽपि च ॥ ३.८३.७२ ॥
诸龙、金翅鸟(迦卢荼)、悉陀、空行者、江河、大海、乾闼婆与阿普萨拉斯,也都在那里。
3.83.73
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।
तत्र त्रीण्यग्निकुण्डानि येषां मध्येन जाह्नवी ॥ ३.८३.७३ ॥
那里有受生主尊崇的世尊哈利居住。那里有三个火坑,江河Jāhnavī(恒河)从其中间流过。
3.83.74
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ॥ ३.८३.७४ ॥
这位女神是太阳之女,从普拉亚加流出,在所有圣渡口中受到最高尊崇,闻名于三界。
3.83.75
यमुना गङ्गया सार्धं संगता लोकपावनी ।
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् ॥ ३.८३.७५ ॥
Yamunā与Gaṅgā相会,净化诸世界。Gaṅgā与Yamunā之间的地方被称为大地的臀部。
3.83.76
प्रयागं जघनस्थानमुपस्थमृषयो विदुः ।
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा ॥ ३.८३.७६ ॥
诸仙人知道普拉亚加是臀部之处,也是神圣的生殖之座。普拉亚加与普拉提什塔那,以及坎巴拉与阿什瓦塔拉亦是如此。
3.83.77
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः ।
तत्रवेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ॥ ३.८३.७७ ॥
Bhogavatī也是圣渡口;这是生主的祭坛。在那里,俞提提罗啊,吠陀与祭祀以具体形相存在。
3.83.78
प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः ।
यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥ ३.८३.७८ ॥
以苦行为财富的仙人敬奉生主。诸神以祭祀供养他,持轮的君王也是如此。
3.83.79
ततः पुण्यतमं नाम त्रिषु लोकेषु भारत ।
प्रयागं सर्वतीर्थेभ्यः प्रवदन्त्यधिकं विभो ॥ ३.८३.७९ ॥
然后,婆罗多啊,在三界中,名为“最善”的普罗耶伽被称为胜过一切圣渡口,啊,大能者。
3.83.80
श्रवणात्तस्य तीर्थस् नामसंकीर्तनादपि ।
मृत्युकालभयाच्चापि नरः पापात्प्रमुच्यते ॥ ३.८३.८० ॥
聆听那圣渡口,甚至诵念其名,以及临终之时的恐惧,人便能脱离罪恶。
3.83.81
तत्राभिषेकं यः कुर्यात्संगमे लोकविश्रुते ।
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥ ३.८३.८१ ॥
在那闻名世界的汇流处行沐浴灌顶之礼者,便获得王祭与马祭的功德果报。
3.83.82
एषा यजनभूमिर्हि देवानामभिसंस्कृता ।
तत्र रदत्तं सूक्ष्ममपि महद्भवति भारत ॥ ३.८३.८२ ॥
此处乃诸神的祭场,已在此处被圣化;在此所施的微小布施亦成为广大,婆罗多啊。
3.83.83
न वेदवचनात्तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ ३.८३.८३ ॥
孩子啊,无论依吠陀之言,还是依世人之言,你在普罗耶伽赴死的决心都不应被动摇。
3.83.84
दशतीर्तसहस्राणि षष्टिः कोट्यस्तथाऽपराः ।
येषां सान्निध्यमत्रैव कीर्तितं कुरुन्दन ॥ ३.८३.८४ ॥
一万处圣渡口,以及另外六千万(克罗尔)处,其临在于此被宣说,库鲁之乐啊。
3.83.85
चतुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् ।
स्नात एव तदाप्नोति गङ्गायमुनसंगमे ॥ ३.८३.८५ ॥
四吠陀中的功德,以及诚实之人所具有的功德,只需在恒河与阎牟那河交汇处沐浴便可获得。
3.83.86
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधफलं लभेत् ॥ ३.८३.८६ ॥
那里有婆苏吉的至上圣渡,名为婆伽婆提;在那里沐浴灌顶的人,将获得马祭的果报。
3.83.87
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ ३.८३.८७ ॥
那里有名为天鹅降落的圣渡,闻名三界;在恒河中,它相当于十次马祭,婆罗多族的喜悦者啊。
3.83.88
कुरुक्षेत्रसमा गङ्गा यत्रतत्रावगाहिता ।
विशेषो वै कनखले प्रयागे परमं महत् ॥ ३.८३.८८ ॥
无论在恒河何处沐浴,都与俱卢之野相等;但在迦纳喀拉和普拉亚加,它尤为殊胜、至高而伟大。
3.83.89
यद्यकार्यशतं कृत्वा कृतंगङ्गावसेचनम् ।
सर्वं तत्तस्य गङ्गापो दहत्यग्निरिवेन्धनम् ॥ ३.८३.८९ ॥
即使有人造下百种恶业,若以恒河水灌顶,恒河之水便会将其一切烧尽,如火焚柴。
3.83.90
सर्वं कृतयुगे पुण्यंत्रेतायां पुष्करं स्मृतम् ।
द्वापरेऽपि कुरुक्षेत्रं गङ्गा कलियुगे स्मृता ॥ ३.८३.९० ॥
在圆满时代,一切皆有功德;在三时代,人们称颂普什卡;在双时代也称颂俱卢之野;而在迦利时代,则称颂恒河。
3.83.91
पुष्करे तु तपस्तप्येद्दानं दद्यान्महालये ।
मलये त्वग्निमारोहेद्भृगुतुन्दे त्वनाशनम् ॥ ३.८३.९१ ॥
在普什卡尔应修苦行,在摩诃拉耶应行布施;在摩罗耶山应登上火中,在婆利古屯陀应绝食。
3.83.92
पुष्करे तु कुरुक्षेत्रे रगङ्गायां मगधेषु च ।
स्नात्वा तारयते जन्तुः सप्तसप्तावरांस्तथा ॥ ३.८३.९२ ॥
在普什卡尔、俱卢之野、恒河和摩揭陀沐浴的人,能度脱自己前后各七代的祖先。
3.83.93
पुनाति कीर्तिता पापं दृष्टा भद्रं प्रयच्छति ।
अवगाढा च पीता च पुनात्यासप्तमं कुलम् ॥ ३.८३.९३ ॥
被称颂则洗净罪过,被见到则赐予吉祥;在其中沐浴并饮水,则使家族净化至第七代。
3.83.94
यावदस्थि मनुष्यस् गङ्गायाः स्पृशते जलम् ।
तावत्स पुरुषो राजन्स्वर्गलोके महीपते ॥ ३.८३.९४ ॥
只要人的骨骸触及恒河之水,大王啊,大地之主啊,那人便住在天界。
3.83.95
यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च ।
उपास्य पुण्यं लब्ध्वा च भवत्यमरलोकभाक् ॥ ३.८३.९५ ॥
如同存在圣洁的渡口与圣洁的殿堂,若礼拜它们并获得功德,便能分享不死者的世界。
3.83.96
न गङ्गासदृशं तीर्थं न देवः केशवात्परः ।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ॥ ३.८३.९६ ॥
没有像恒河那样的圣地,没有高于羯沙婆的神,也没有高于婆罗门的存在——祖父如此宣说。
3.83.97
यत्र गङ्गा महाराज स देशस्तत्तपोकवनम् ।
सिद्धिक्षेत्रं च तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ३.८३.९७ ॥
大王啊,恒河所在之地,即是苦行之林;依傍恒河岸边之处,应知是成就之地。
3.83.98
इदं सत्यंद्विजातीनां साधूनामात्मनोपि च ।
सुहृदां च जपेत्कर्मे शिष्यस्यानुगतस्य च ॥ ३.८३.९८ ॥
此乃对再生者、善人、自身以及朋友皆为真实;在仪式中应诵念,也应为弟子与随从诵念。
3.83.99
इदं धन्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ३.८३.९९ ॥
此能致财富,此为清净,此通往天界,此为安乐;此为功德,此为可爱,此能净化,此合乎法,此为至上。
3.83.100
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अधीत्यद्विजमध्ये च निर्मलः स्वर्गमाप्नुयात् ॥ ३.८३.१०० ॥
此为大仙之秘义,能解脱一切罪业;于再生者之中研习此典,便得清净,而升天界。
3.83.101
श्रीमत्स्वर्ग्यं तथा पुण्यं सपत्नशमनं शिवम् ।
मेधाजननमग्र्यं वै तीर्थवंशानुकीर्तनम् ॥ ३.८३.१०१ ॥
此为尊荣、通天界、有功德,能平息仇敌,吉祥;能生智慧,最为殊胜——此即诵念诸圣渡口之世系。
3.83.102
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
शूद्रो यथेप्सितान्कामान्ब्राह्मणः पारगः पठन्।
महीं विजयते राजा वैश्यो धनमवाप्नुयात् ॥ ३.८३.१०२ ॥
无子者得子,无财者得财;首陀罗得其所欲之愿,婆罗门精通并诵读之;国王征服大地,吠舍得财。
3.83.103
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं नरः शुचिः ।
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥ ३.८३.१०३ ॥
清净之人若日日听闻这关于圣地功德的论述,便能忆起自己的许多生世,并在天界之巅欢喜。
3.83.104
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च ।
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥ ३.८३.१०४ ॥
可至之圣地与被说为不可至者,亦应以心前往,以观想一切圣地之心。
3.83.105
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।
ऋषिभिर्देवकल्पैश्च स्नातानि सुकृतैषिभिः ॥ ३.८३.१०५ ॥
在这些圣地,婆苏、萨陀耶、阿底提耶、摩路多与双马神,以及如天神般的仙人,连同求善业者,都曾沐浴。
3.83.106
एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत ।
व्रत तीर्थानि नियतः पुण्यं पुण्येन वर्धयन् ॥ ३.८३.१०६ ॥
如此,你也,俱卢之裔、持善誓者,依此规则,守持誓戒、自制,前往诸圣地,以功德增长功德。
3.83.107
भाषितैः करणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् ।
प्राप्यन्ते तानि तीर्तानि सद्भिः शास्त्रार्थदर्शिभिः।
सद्भिः शास्त्रार्थतत्वज्ञैर्ब्राह्मणैः सह गम्यताम् ॥ ३.८३.१०७ ॥
那些圣地先由言语与行为、由信仰与见闻天启圣典而得;你当与洞见经义的善人、通晓经义真谛的婆罗门同行。
3.83.108
नाव्रती नाकृतात्मा च नाशुचिर्न च तस्करः ।
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ ३.८३.१०८ ॥
无誓戒、心未调伏、不净、为盗贼或心地邪曲之人,不在圣地沐浴,俱卢之裔啊。
3.83.109
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना ।
पितरस्तात सर्वे च तारिताः प्रपितामहाः ॥ ३.८३.१०९ ॥
孩子啊,你始终以端正的行为、洞察法与利益,已经救度了所有的父辈与曾祖辈。
3.83.110
पिता पितामहस्चैव सर्वे च प्रपितामहाः ।
पितामहपुरोगाश्च देवाः सर्षिगणा नृप।
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषितः ॥ ३.८३.११० ॥
你的父亲、祖父、所有的曾祖父,以及以祖父为首的诸神与仙人群,啊国王,啊通晓法者,始终因你的法而完全欢喜。
3.83.111
अवाप्स्यसि त्वं लोकान्वै वसूनां वासवोपम ।
कीर्तिं च महातीं भीष्म प्राप्स्यसे भुविशाश्वतीं ॥ ३.८३.१११ ॥
你与婆娑(因陀罗)等同,将获得诸婆修的世界;啊毗湿摩,你将在大地上获得伟大而永恒的名声。
3.83.112
एवमुक्त्वाऽभ्यनुज्ञाय पुलस्त्यो भगवानृषिः ।
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ ३.८३.११२ ॥
如此说完并允许之后,尊贵的仙人布拉斯蒂亚心中欢喜,就在那里隐没了。
3.83.113
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् ।
पुलस्त्यवचनाच्चैव पृथिवीं परिचक्रमे ॥ ३.८३.११३ ॥
啊,俱卢中的猛虎,通晓经典真义的毗湿摩,遵从布拉斯蒂亚之言,绕行了大地。
3.83.114
एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता ।
तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ॥ ३.८३.११४ ॥
如此,这一极为吉祥的朝圣之旅确立于普拉提斯塔纳;它功德极大,能解脱一切罪业。
3.83.115
अनेन विधिना यस्तु पृथिवीं संचरिष्यति ।
अश्वमेधशतं साग्रं फलं प्रेत्य स भोक्ष्यति ॥ ३.८३.११५ ॥
依此法周游大地者,死后将享有一百多次马祭的果报。
3.83.116
ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।
भीष्मः कुरूणां प्रवरो यथा पूर्वमवाप्तवान् ॥ ३.८३.११६ ॥
然后,哎,普利塔之子,你将获得八倍的最高法,正如此前库鲁族中最杰出的毗湿摩所获得的那样。
3.83.117
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ।
रक्षोगणबिकीर्णानि तीर्थान्येतानि भारत।
अगम्यानि मनुष्येन्द्रैस्त्वामृते कुरुनन्दन ॥ ३.८३.११७ ॥
因为你是诸仙人的引导者,你的果报将是八倍。哎,婆罗多,这些圣渡口遍布罗刹群,除你之外,人中之王也无法抵达,哎,俱卢之喜。
3.83.118
इदं देवर्षिचरितं सर्वतीर्ताभिसंवृतम् ।
यः पठेच्छृणुयाद्वाऽपिसर्वपापैः प्रमुच्यते ॥ ३.८३.११८ ॥
这则涵盖一切圣渡口的天仙行迹,凡诵读或聆听者,皆脱离一切罪业。
3.83.119
ऋषिमुख्याः सदा यत्रवाल्मीकिस्त्वथ कश्यपः ।
आत्रेयः कुण्डजठरो विश्वामित्रोऽथ गौतमः ॥ ३.८३.११९ ॥
诸大仙人常住之处:跋尔弥基、迦叶波、阿特利耶、昆达嘉陀罗、毗首弥多罗与瞿昙。
3.83.120
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः ।
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥ ३.८३.१२० ॥
阿私陀、提婆罗、摩根德耶、伽罗婆、婆罗堕遮、婆私吒,以及牟尼乌达拉迦,亦复如是。
3.83.121
शौनकः सह पुत्रेण व्यासश्च तपतांवरः ।
दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः ॥ ३.८३.१२१ ॥
与其子一同的首努迦,苦行者中最优秀的毗耶娑,圣者中最优秀的杜尔婆娑,以及大苦行者遮婆梨。
3.83.122
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः ।
एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥ ३.८३.१२२ ॥
这些圣者中最优秀者,以苦行为财富,都在等待你。大王,请与他们一同巡礼这些圣地。
3.83.123
एष ते लोमशो नाम महर्षिरमितद्युतिः ।
समेष्यति महाराज तेन सार्धमनुव्रज ॥ ३.८३.१२३ ॥
这位名叫罗摩舍的大仙,光辉无量。大王,他将与你相会;请与他同行。
3.83.124
मयाऽपिसह धर्मज्ञ तीर्थान्येतान्यनुक्रमात् ।
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषक् ॥ ३.८३.१२४ ॥
精通法者啊,若你与我一同依次巡礼这些圣地,你将获得大名声,正如大王摩诃毗舍迦所得。
3.83.125
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥ ३.८३.१२५ ॥
如同正直的耶耶底与国王补卢罗婆,库卢之虎啊,你也因自己的法而光彩照人。
3.83.126
यथा भगीरथो राजा यथा रामश्च विश्रुतः ।
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥ ३.८३.१२६ ॥
如同国王跋古罗陀与著名的罗摩,你也超越一切国王而光耀,如同放射光芒的太阳。
3.83.127
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः ।
यथा वैन्यो महाराज तथा त्वमपि विश्रुतः ॥ ३.८३.१२७ ॥
如摩奴,如伊叉婆迦,如大名的普卢,如毗那,大王啊,你也同样闻名。
3.83.128
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहन्पुरा ।
त्रैलोक्यं पालयामास देवराड्विगतज्वरः ॥ ३.८३.१२८ ॥
又如昔日杀弗栗多者焚尽一切敌人,作为天王,无忧无虑地守护三界。
3.83.129
तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि ।
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन।
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥ ३.८३.१२९ ॥
如此,你消灭敌人之后将守护臣民;以自身法所征服之大地,莲花眼者啊,你将以法而获得名声,如同迦尔达维利耶阿周那。
3.83.130
एवमाश्वास्य राजानं नारदो भगवानृषिः ।
अनुज्ञाप्य महाराज तत्रैवान्तरधीयत ॥ ३.८३.१३० ॥
如此安慰国王之后,尊贵的仙人那罗陀,大王啊,辞别后便在那里消失了。
3.83.131
युधिष्ठिरोषि धर्मात्मा तमेवार्थं विचिन्तयन् ।
तीर्थयात्राश्रितं पुण्यमृषीणां प्रत्यवेदयत् ॥ ३.८३.१३१ ॥
法心的坚战也正思虑此事,向诸仙人述说了关于朝圣圣地的功德之事。