Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.94.1

ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः ।
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥ ३.९४.१ ॥

于是,贡蒂之子、布施丰厚的国王出发,到达阿伽斯蒂耶的隐修处,并住在杜尔阇耶。

3.94.2

तत्रैव लोमशं राजा पप्रच्छ वदतांवरः ।
अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥ ३.९४.२ ॥

国王——最善言者——便在那里问罗摩沙:阿伽斯蒂耶为何在此平息了伐塔比?

3.94.3

आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः ।
किमर्थं चोदितो मन्युरगस्त्यस्य महात्मनः ॥ ३.९४.३ ॥

那位杀害世人的檀那婆,究竟有何威力?而伟大的阿伽斯蒂耶又为何动怒?

3.94.4

इल्वलो नाम दैतेय आसीत्कौरवनन्दना ।
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥ ३.९४.४ ॥

啊,俱卢族的喜悦者,往昔在摩尼摩提城有一位名叫伊尔瓦拉的提提之子;伐塔比是他的幼弟。

3.94.5

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ ३.९४.५ ॥

提提之子对具足苦行的婆罗门说:“尊者啊,请赐予我一个与因陀罗相等的儿子。”

3.94.6

तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् ।
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ३.९४.६ ॥

那位婆罗门没有给他与婆娑婆相等的儿子;于是那阿修罗对这位婆罗门大为愤怒。

3.94.7

तदाप्रभृतिराजेन्द्र इल्वलो ब्रह्महाऽसुरः ।
मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः ॥ ३.९४.७ ॥

大王啊,从那时起,杀害婆罗门的阿修罗伊尔瓦拉,愤怒而善于幻术,便把他的兄弟变成了一只山羊。

3.94.8

मेषरूपी च वातापिः कामरूप्यभवत्क्षणात् ।
संस्कृत्यतं भोजयति ततो विप्रं जिधांसति ॥ ३.९४.८ ॥

能变作公羊形的伐多毗,转眼间便能随意变化形状。他将其烹煮后给婆罗门进食,然后又想杀害他。

3.94.9

स चाह्वयति यं वाचा गतं वैवस्वतक्षयम् ।
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥ ३.९४.९ ॥

他以声音呼唤的人,即便已前往毗婆娑多(阎摩)的世界,也会重新获得身体,活生生地显现出来。

3.94.10

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ ३.९४.१० ॥

于是阿修罗把伐多毗变成山羊,将其煮得熟透,喂给那位婆罗门吃,然后又呼唤他。

3.94.11

तामिल्वलेन महता स्वरेण गिरमीरिताम् ।
श्रुत्वाऽतिमायो बालवान्क्षिप्रं ब्राह्मणकण्टकः ॥ ३.९४.११ ॥

他听到伊尔瓦拉以洪亮声音发出的那番话,这位极度狡诈、强大、婆罗门之刺的人,迅速赶来了。

3.94.12

तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।
वातापिः प्रहसन्राजन्निश्चक्राम विशांपते ॥ ३.९४.१२ ॥

大王啊,这位大阿修罗伐多毗撕裂了婆罗门的胁部,笑着走了出来,人主啊。

3.94.13

एवं स ब्राह्मणान्राजन्भोजयित्वा पुनःपुनः ।
हिंसयामायस दैतेय इल्वलो दुष्टचेतनः ॥ ३.९४.१३ ॥

大王啊,恶念的檀那婆伊尔瓦拉如此反复款待婆罗门,然后加以折磨。

3.94.14

अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु ।
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् ॥ ३.९४.१४ ॥

就在那时,尊贵的阿伽斯提耶也看见祖先们头朝下倒悬在坑中。

3.94.15

सोऽपृच्छल्लम्बमानांस्तान्भगवन्तश्च किंपराः ।
किंमर्थं वेह लम्बध्वे गर्ते यूयमधोमुखाः।
संतानहेतोरिति ते प्रत्यूचुर्ब्रह्मवादिनः ॥ ३.९४.१५ ॥

他问那些悬在坑中的人:“诸位尊者,你们所求为何?为何在此坑中头朝下倒悬?”那些精通吠陀的人回答说:“为了子嗣。”

3.94.16

ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः ।
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः ॥ ३.९४.१६ ॥

他们对他说:“我们就是你自己的祖先。我们落入这坑中,因渴望子嗣而倒悬于此。”

3.94.17

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् ।
स्यान्नोस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥ ३.९४.१७ ॥

若你为我们生下一个优秀的阿伽斯提耶之子,我们便能脱离这地狱,你也将得到儿子和美好的归宿。

3.94.18

स तानुवाच तेजस्वी सत्यधर्मपरायणः ।
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः ॥ ३.९४.१८ ॥

这位光明的、奉行真实与法的人对他们说:“诸位祖先,我将满足你们的愿望;愿你们心中的热病消退。”

3.94.19

ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः ।
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥ ३.९४.१९ ॥

于是这位尊贵的仙人思量子嗣之事,却未见适合自己子嗣的女子。

3.94.20

स तस्य तस् सत्वस्य तत्तदङ्गमनुत्तमम् ।
संगृह्यतत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥ ३.९४.२० ॥

他将那精华中每一处最上等的肢体聚集起来,以与之相同的肢体塑造了一位上等女子。

3.94.21

स तां विदर्भराजाय पुत्रकामाय ताम्यते ।
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥ ३.९४.२१ ॥

为了那因渴望子嗣而忧伤的毗达婆国王,这位大苦行者将他为自己所造的那位女子交给了他。

3.94.22

सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा ।
विभ्राजमाना वपुषा व्यवर्धत शुभानना ॥ ३.९४.२२ ॥

她在那里诞生,美丽如闪电;以身体的光辉闪耀,那位面容吉祥的女子渐渐长大。

3.94.23

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः ।
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥ ३.९४.२३ ॥

婆罗多之子啊,毗达婆国王——大地之主——见到她刚诞生,便欢喜地告知了婆罗门。

3.94.24

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप ।
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥ ३.९४.२४ ॥

大地之主啊,所有婆罗门都为她欢喜,那些再生者为她取名为“洛帕穆德拉”。

3.94.25

ववृधे सा महाराज बिभ्रती रूपमुत्तमम् ।
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा ॥ ३.९४.२५ ॥

大王啊,她展现着至上的美貌,迅速成长,如同水中的莲花,又如火焰的吉祥之光。

3.94.26

तां यौवनस्थां राजेन्द्रशतं कन्याः स्वलंकृताः ।
दास्यः शतं च कल्याणीमुपातस्थुर्वशानुगाः ॥ ३.९४.२६ ॥

大王啊,已届青春的那位吉祥女子身边,一百位盛装的少女和一百位侍女都遵从她的心意前来侍奉。

3.94.27

सा स्म दासीशतवृता मध्ये कन्याशतस्य च ।
आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा ॥ ३.९४.२७ ॥

被百名侍女环绕,身处百名少女之中,那位光彩照人的少女如天空中罗喜尼的光辉般闪耀。

3.94.28

यौवनस्थामपि च तां शीलाचारसमन्विताम् ।
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥ ३.९४.२८ ॥

她虽已到青春年华,且品性端庄,却因惧怕那位大德之人,没有任何男子向她求婚。

3.94.29

सा तु सत्यवती कन्या रूपेणाप्सरसोप्यति ।
तोषयामास पितरं शीलेन स्वजनं तथा ॥ ३.९४.२९ ॥

那位少女萨提亚瓦蒂的美貌甚至超过了天女;她以品德令父亲和亲族都感到欢喜。

3.94.30

वैदर्भी तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता ।
मनसा चिन्तयामास कस्मै दद्यामिमांसुताम् ॥ ३.९४.३० ॥

父亲见这位维达尔巴公主已如此长成为青年女子,心中思忖:“这个女儿应当嫁给谁呢?”