Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.95

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.95.1

यदात्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति ।
तदाऽभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ ३.९५.१ ॥

当阿伽私亚决定为家居生活接受那份忍耐时,他走到毗达婆国的君主面前说道。

3.95.2

राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् ।
वरयेत्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥ ३.९५.२ ॥

大王,我心中有为子嗣而建立家庭的打算。大地的守护者啊,我请求您把罗波摩都罗许配给我。

3.95.3

एवमुक्तः स मिनिना महीपालो विचेतनः ।
प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत ॥ ३.९५.३ ॥

仙人这样说后,国王陷入迷惑;他无法拒绝,却也不愿给予。

3.95.4

ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः ।
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥ ३.९५.४ ॥

于是那位大地之主走到妻子身边说:这位大仙极有威力;若他愤怒,会以咒语之火将我们焚毁。

3.95.5

तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् ।
लोपामुद्राऽभिगम्येदं काले वचनमब्रवीत् ॥ ३.९५.५ ॥

罗波摩都罗见国王与妻子如此忧伤,便走上前去,在适当的时候说了这些话。

3.95.6

न मत्कृते महीपाल पीडामभ्येतुमर्हसि ।
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥ ३.९५.६ ॥

大地的守护者啊,您不该因我而受苦。父亲,请把我交给阿伽私亚;借我之力保全自己吧。

3.95.7

दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने ।
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशांपते ॥ ३.९५.७ ॥

应女儿之言,国王依礼将洛帕穆德拉嫁给了大德的阿伽斯提亚,啊,人民之主。

3.95.8

प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत ।
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥ ३.९५.८ ॥

阿伽斯提亚得到妻子后,对洛帕穆德拉说:舍弃这些贵重的衣服和首饰。

3.95.9

ततः सा दर्शनीयानि महार्हाणि तनूनि च ।
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥ ३.९५.९ ॥

于是,这位大腿如芭蕉、眼睛修长的女子,脱去了华美、贵重而细软的衣裳。

3.95.10

ततश्चीराणि जग्राह वल्कलान्यजिनानि च ।
समानव्रतचर्या च बभूवायतलोचना ॥ ३.९५.१० ॥

于是她穿上粗布衣、树皮衣和鹿皮,那位长眼的女子开始与丈夫同修誓行。

3.95.11

गङ्गाद्वारमथागम्य भगवानृषिसत्तमः ।
उग्रमातिष्ठत तपः सह पत्न्याऽनुकूलया ॥ ३.९५.११ ॥

随后,这位尊贵的仙人之最来到恒河门,与忠顺的妻子一同修行苦行。

3.95.12

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा ।
अगस्त्यश्च परां प्रीतिं भार्यायामगमत्प्रभुः ॥ ३.९५.१२ ॥

她怀着深情与极大的敬意侍奉丈夫,而主阿伽斯提亚也对妻子生出了至深的爱。

3.95.13

ततो बहुतिथे काले लोपामुद्रां विशांपते ।
तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥ ३.९५.१३ ॥

此后许多日子,人民之主啊,尊贵的仙人看见了因苦行而光彩照人、已沐浴的洛帕穆德拉。

3.95.14

स तस्याः परिचारेण शौचेन च दमेन च ।
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ ३.९५.१४ ॥

他因她的侍奉、清净、克制、美丽和容貌而欢喜,便召唤她前来交合。

3.95.15

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी ।
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥ ३.९५.१५ ॥

那美丽的女子合掌,仿佛羞怯,满怀深情地对尊者说道。

3.95.16

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत ।
पा तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥ ३.९५.१६ ॥

丈夫为子嗣而娶妻,这是无疑的;但是,仙人啊,我对你有爱意,你应当满足它。

3.95.17

यथा पितुर्गृहे विप्र प्रासादे शयनं मम ।
तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥ ३.९५.१७ ॥

婆罗门啊,正如我父亲宫殿里有我的床榻,你也应当在这样的床榻上来到我这里。

3.95.18

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् ।
उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ ३.९५.१८ ॥

我希望你戴上花环、饰以珍宝,而我以天界的饰物装扮,依我所愿来到你身边。

3.95.19

अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी ।
नैवापवित्रो विप्रर्षे भूषणोयं कथंचन ॥ ३.९५.१९ ॥

否则我不会穿着树皮和赭色衣服来到你身边。婆罗门中的贤者啊,这件饰物绝不是不洁的。

3.95.20

न ते धनानि विद्यन्ते लोपामुद्रे तथा मम ।
यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥ ३.९५.२० ॥

罗波摩陀啊,吉祥的人啊,纤腰的人啊,我没有像你父亲那样的财富。

3.95.21

ईशोसि तपसा सर्वं समाहर्तुं तपोधन ।
क्षणेन जीवलोके यद्वसु किंचन विद्यते ॥ ३.९५.२१ ॥

你凭借苦行,能在瞬间聚集生命世界中存在的任何财富,苦行为财富的人啊。

3.95.22

एवमेतद्यथाऽऽत्थ त्वं तपोव्ययकरं तु तत् ।
यथा तु मे न नश्येत तपस्तन्मां प्रयोदय ॥ ३.९५.२२ ॥

正如你所说,确是如此;但那会损耗苦行。请告诉我如何使我的苦行不致毁灭。

3.95.23

अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन ।
न चान्यथाऽहमिच्छामि त्वामुपैतुं कथंचन ॥ ३.९५.२३ ॥

苦行之财富啊,我的经期已所剩无几。除此之外,我绝不愿以任何方式来到你身边。

3.95.24

न चापि धर्ममिच्छामि विलोप्तुं ते कथंचन ।
एवं तु मे यथाकामं संपादयितुमर्हसि ॥ ३.९५.२४ ॥

我也绝不愿以任何方式违背你的法。所以,你应当按照我的心愿满足我。

3.95.25

यद्येष काम सुभगे तव बुद्ध्या विनिश्चितः ।
हर्तुं गच्छाम्यहं भद्रे चर काममिह स्थिता ॥ ३.९५.२५ ॥

若你的智慧已坚定地决定了这一愿望,吉祥的女子啊,那我便离去。善良的女子啊,你留在此处,依你的心愿行事吧。

3.95.27

आरस्ते तेजस्विनी कन्या रोहिणीव दिविप्रभा ॥ ३.९५.२७ ॥

你是光辉的少女,宛如天空之光罗希尼。