Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.99

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.99.1

भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः ।
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजात्तम ॥ ३.९९.१ ॥

我想再次听闻那位智慧的大仙阿伽斯蒂亚所行之事的详细叙述,二生者中最杰出的人啊。

3.99.2

शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् ।
अगस्त्यस्य महाराज प्रभावममितौजसः ॥ ३.९९.२ ॥

大王啊,请听这神圣、奇异、超越凡人的故事——无量威力的阿伽斯蒂亚的神力。

3.99.3

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः ।
कालकेया इतिख्याता गणाः परमदारुणाः ॥ ३.९९.३ ॥

在圆满时代,有可怕的檀那婆,因好战而狂妄,名为迦罗刻雅,是极其凶残的部众。

3.99.4

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः ।
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥ ३.९९.४ ॥

他们依附于弗栗多,举起各种兵器,从四面八方冲向以摩亨陀罗为首的诸神。

3.99.5

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा ।
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥ ३.९९.५ ॥

那时,诸天在往昔努力要杀死弗栗多;他们推举补兰陀罗在前,来到梵天面前。

3.99.6

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह ।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥ ३.९९.६ ॥

那些合掌而立的众神,最高者对他们说:诸天啊,你们想要完成的事情,我全都知道。

3.99.7

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ ।
दधीच इतिविख्यातो महानृषिरुदारधीः ॥ ३.९९.७ ॥

我将告诉你们杀死弗栗多的方法。有一位名为达提质的大仙,心胸宽广。

3.99.8

तं गत्वा सहिताः सर्वेवरं वै संप्रयाचत ।
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ ३.९९.८ ॥

你们一起去见他,恳切地请求一个恩赐。那位正直的人,内心非常欢喜,会将它赐给你们。

3.99.9

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः ।
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस् हिताय वै ॥ ३.९९.९ ॥

你们众人一起,渴望胜利,应当对他说:为了三界的利益,请将你自己的骨头给予我们。

3.99.10

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति ।
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम् ॥ ३.९९.१० ॥

他舍弃身体,将给出自己的骨头。用他的骨头制成极为可怖而坚固的金刚杵吧。

3.99.11

महच्छत्रुहणं घोरं ष़डश्चं भीमनिःस्वनम् ।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ॥ ३.९९.११ ॥

它将巨大、能摧毁敌人、可怖、有六刃,发出恐怖之声。以那金刚杵,百祭的因陀罗将杀死弗栗多。

3.99.12

एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् ।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् ॥ ३.९९.१२ ॥

这一切我都已告诉你们,所以应快速安排。如此被告知之后,诸神便向始祖告辞……

3.99.13

नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः ।
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् ॥ ३.९९.१३ ॥

他们以那罗延为前导,前往萨拉斯瓦蒂河对岸的达提琦仙人静修处;那里被各式各样的树木和藤蔓覆盖。

3.99.14

षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव ।
पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् ॥ ३.९९.१४ ॥

蜜蜂的嗡嗡声使其回响,仿佛娑摩歌唱者的声音,与雄杜鹃的啼鸣交织,又回荡着命命鸟的鸣叫。

3.99.15

महिषैश्च वराहैश्च सृमरैश्चमरैरपि ।
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ ३.९९.१५ ॥

水牛、野猪、娑摩罗鹿和牦牛在此处处往来,不惧老虎的威胁。

3.99.16

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः ।
सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥ ३.९९.१६ ॥

母象与发情的公象——额头与面颊都已发情——在湖中深处嬉戏,四面回荡着它们的声音。

3.99.17

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् ।
अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः ॥ ३.९९.१७ ॥

狮子与老虎发出巨大的吼声,使其回响;还有其他隐匿着、卧在洞穴与沟壑中的野兽。

3.99.18

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् ।
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥ ३.९९.१८ ॥

他们来到达提琦仙人的静修处;那里在各处空旷之地装饰华美,花朵繁盛,极其宜人,宛如三界中的天堂。

3.99.19

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् ।
जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम् ॥ ३.९९.१९ ॥

他们在那里看见达陀奇,光辉如同太阳,身形闪耀,仿佛祖父梵天亲临。

3.99.20

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च ।
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥ ३.९९.२० ॥

国王啊,众神向他的双足致敬并顶礼,都按照至尊者所说,向他请求一个恩赐。

3.99.21

ततो दधीचः परमप्रतीतः ।
सुरोत्तमांस्तानिदमभ्युवाच।
करोमि यद्वो हितमद्य देवाः ।
स्वं चापि देहंस्वयमुत्सृजामि ॥ ३.९९.२१ ॥

于是达陀奇十分欢喜,对那些最优秀的神说:'诸神啊,今天我将为你们做有利之事;我也将亲自舍弃我这个身体。'

3.99.22

स एवमुक्त्वा द्विपदांवरिष्ठः ।
प्राणान्वशी स्वान्सहसोत्ससर्ज।
ततः सुरास्ते जगृहुः परासो-
रस्थीनि तस्याथ यथोपदेशम् ॥ ३.९९.२२ ॥

说完这话,这位二生者中的最优者,自制地突然舍弃了自己的气息。随后诸神依照指示,取走了他无生命之身的骨骼。

3.99.23

प्रहृष्टरूपाश्च जयाय देवा-
स्त्वष्टारमागम् तमर्थमूचुः।
त्वष्टा तु तेषां वचनं निशम्य ।
प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥ ३.९९.२३ ॥

众神面带喜色,为求胜利前往特瓦什特里处,把此事告诉了他。特瓦什特里听了他们的话之后……

3.99.24

चकार वज्रं भृशमुग्ररूपं ।
कृत्वा च शक्रं स उवाच हृष्टः।
अनेन वज्रप्रवरेण देव ।
भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥ ३.९९.२४ ॥

他制造了一把形状极为凶猛的金刚杵,制成后欢喜地对因陀罗说:'天神啊,今天用这把上好的金刚杵,把那凶猛的神之敌烧成灰烬吧。'

3.99.25

ततो हतारिः सगणः सुखं वै ।
प्रशाधिकृत्स्नं त्रिदिवं दिविष्ठः।
त्वष्ट्रा तथोक्तस्तु पुरंदरस्त-
द्वज्रं प्रहृष्टः प्रयतो ह्यगृह्नात् ॥ ३.९९.२५ ॥

于是,杀死敌人之后,居于天界的因陀罗与其众从一起,安乐地统治整个三界。当工匠神如此说时,欢喜而恭敬的补罗檀陀罗便取了那金刚杵。