Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.10.1

अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः ।
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ॥ ४.१०.१ ॥

随后在西方出现了形貌可怖、勇如狮子的狼腹(Vṛkodara),他手中握着紧系于利剑剑柄上的长柄勺与汤匙。

4.10.2

त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः ।
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ॥ ४.१०.२ ॥

还有一张用牛皮制成、擦得光亮并洒有饮料、染料和调味汁的皮革;他手中持着铁器,以及角胡椒、姜、泥土和草芽。

4.10.3

गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन् ।
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ॥ ४.१०.३ ॥

他容貌庄严,以至高的光辉照耀这个世界如太阳一般,身穿黑衣,强壮如山王,走近摩蹉国王站立。

4.10.4

सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन् ।
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ॥ ४.१०.४ ॥

他来到集会之中,如同象群之王,驱散黑暗、照亮黑夜,如同千眼神之弟阎摩,又如三界守护者之主哈利(因陀罗)。

4.10.5

तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम् ।
भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ॥ ४.१०.५ ॥

他看见那人走近,如象群之王,闪耀如初升的太阳,他心中因恐惧而惊慌失措,于是一次又一次地环顾四方。

4.10.6

तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम् ।
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ॥ ४.१०.६ ॥

国王望见这位身着单衣、阻挡敌军的王子就在议事厅不远处,心中大乱;众人惊惧,慢慢地纷纷远远退去。

4.10.7

अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव ।
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ॥ ४.१०.७ ॥

于是摩差国王极为焦虑,热切地叹息,对来到议会的人们说:"这个年轻人是谁?他像象王一样,独自朝我、朝这个议会走来。"

4.10.8

को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः ।
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ॥ ४.१०.८ ॥

我的人中谁以前认识他的容貌?这位神人步态如狮如虎,双肩宽阔,凶猛如百兽之王,光芒闪耀。

4.10.9

राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः ।
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ॥ ४.१०.९ ॥

他以王者之威仪闪耀,光辉如金山。他必定是刹帝利,如同千眼之神。

4.10.10

रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत् ।
नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ॥ ४.१०.१० ॥

容貌无与伦比的这位伟人,若如敌人一般,或许会守护这片大地;他并非大地之王——他说“这是我的快乐”——如同从富贵中坠落的那诃沙,从天空跌落。

4.10.11

वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत् ।
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ॥ ४.१०.११ ॥

当他沉思之时,般度之子狼腹穿过大殿,高呼“胜利!”,使国王和殿中众人欢喜。

4.10.12

ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम् ।
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ॥ ४.१०.१२ ॥

于是般度之子依次怀着慈悲对国王说:“灭敌者啊,我来是为了保全你的性命;在世间,你便是最高的依靠。”

4.10.13

नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत् ।
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् ।
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ॥ ४.१०.१३ ॥

哦,人中之王,我是第四种姓的首陀罗,依师长的教导从事服务工作。我懂得调制羹汤与各种精制的滋味,能烹制美味的肉食和饼类,也懂得许多以水果为主料的菜肴。在厨房里,没有一位厨师能与我相比。

4.10.14

तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत् ।
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ॥ ४.१०.१४ ॥

摩差国王似乎十分欢喜,以亲切、勇敢、温和而谦恭的言辞对他说:“我在你身上完全看不出首陀罗的样子,你的光辉如同俱毗罗、月亮、因陀罗与太阳。”

4.10.15

हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे ।
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ॥ ४.१०.१५ ॥

你的光彩如火与毒蛇一般,这厨房之事不适合你。你不应当做厨师;你如同金翅鸟、乾闼婆和大蛇。

4.10.16

अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः ।
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ॥ ४.१०.१६ ॥

你当为军队前锋的持旗者、旗手与御车者;从今日起作我象军的统帅。你不应行卑劣之事;你有资格统治这片大地。

4.10.17

चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम् ।
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ॥ ४.१०.१७ ॥

严厉的统治者啊,我属第四种姓。我不愿从你那里求得这样的职位。我生来是首陀罗,名叫婆罗;为求生存,我来到你的领地。

4.10.18

युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः ।
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ॥ ४.१०.१८ ॥

往昔我在坚战的厨房中;他是一切的主宰,施予饮食之人。然而,大地之主啊,若你放我,我将照来时的样子从此离去。

4.10.19

त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् ।
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ॥ ४.१०.१९ ॥

请你教我烹饪之法,我便做你的厨师,人中之主啊。力气上找不到与我相等的人,我始终擅长摔跤,大王啊。

4.10.20

गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् ।
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ॥ ४.१०.२० ॥

我将常与象和狮搏斗,以取悦你,无垢者啊。愿像我这样行事卑下之人,即便成为你军力的统帅,也不致软弱,主啊。

4.10.21

स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि ।
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ॥ ४.१०.२१ ॥

人主啊,我们对自己的职事已经满足。若你愿意,就请任命我为厨师。我将与那些以力量和勇武著称的角力者搏斗,以使你欢喜。

4.10.22

तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत् ।
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ ४.१०.२२ ॥

他说完这些话,马特亚之王、人主欢喜地回答道:我不认为你的作为与此相当;你堪当被大海环绕的大地。

4.10.23

त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे ।
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः ।
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ॥ ४.१०.२३ ॥

你犹如三界的守护者般光耀,今日在我眼中你如毗湿奴般辉煌。依你所愿而行;在厨房里请你做我所尊敬的人。那里的人们我也一向敬重;今日我使你成为他们的主人。

4.10.24

तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः ।
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ॥ ४.१०.२४ ॥

如此,毗摩被安置在厨房,成为毗罗吒王所宠爱的人。大王啊,他住在那里,无论是普通人还是他的随从,都没有人认出他。