Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.11.1

अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम् ।
प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ॥ ४.११.१ ॥

随后又出现一人,是一位容貌光彩的青年,扮作女子,装饰华丽。他摘下了两只珊瑚色的耳环、贝壳手镯和腕饰。

4.11.2

कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः ।
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः ॥ ४.११.२ ॥

身着黑色与红色衣裳,光彩如金星与木星,形体具足,长发繁密披散,双臂有力,勇猛如发狂的大象。

4.11.3

क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः ।
गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ॥ ४.११.३ ॥

他以阉人之装束似不光彩,却又光彩照人,犹如天空中被行星所掩的月亮。他步履使大地震动,遂来到毗罗吒身边,近于议事殿。

4.11.4

तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् ।
विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ॥ ४.११.४ ॥

见他走近国王,在殿堂地上现身,并非借口掩饰,乃敌人的摧毁者,光彩如天神之王,犹如因陀罗之子,勇力如大象。

4.11.5

सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः ।
न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ॥ ४.११.५ ॥

他问身边所有人:“此人从何而来?我先前未曾听闻。”那里的人虽认识他,却未作声;于是国王带着惊讶说出了这番话。

4.11.6

गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः ।
पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ॥ ४.११.६ ॥

步态如象王,行走如狮王,双眼如牛目,威光猛烈如天神之子,肩膀与手臂壮实,身色如金——这位进入我城的人是谁?

4.11.7

किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः ।
उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ॥ ४.११.७ ॥

此人是因陀罗之子、天神之王?还是梵天之子?还是自生者?是乌玛之子,还是毗沙罗婆那(俱毗罗)之子?见到他,我心中便有这样的猜测。

4.11.8

सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः ।
स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ॥ ४.११.८ ॥

他穿过议事厅,如因陀罗一般,环顾在场的众多聚集者,对那位杀敌的国王说道:"哦,人中之主,我是名为布里哈纳拉的舞女。"

4.11.9

वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे ।
स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम ॥ ४.११.९ ॥

我能梳出美丽的发辫,佩戴精美的耳环,穿串花环,整理衣裳,为人沐浴,擦拭镜子;在装饰性的额饰上,我也很擅长。

4.11.10

क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम ।
करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः ॥ ४.११.१० ॥

我擅长教授舞蹈,指导阉人、孩童及其他人。我还能在发辫中簪满花朵;女子在自己的事务上也不比我更精通。

4.11.11

इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम् ।
तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ॥ ४.११.११ ॥

阿周那以威力向那位人主表明了身份,并依规矩接受了自己的职任,然后站立。那位大名的君王看见走近毗罗吒王的这位高大之人,感到惊讶,便对他说道。

4.11.12

नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह ।
तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो ॥ ४.११.१२ ॥

此装束对你并不相称,而你的无男性之态也不适合你,人中之王中的狮子啊。主上,你的装束以华美的衣饰和装饰庄严,如同众生之主。

4.11.13

विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव ।
धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ॥ ४.११.१३ ॥

你光辉如戴着光环的太阳,又如在云层覆盖的天空中的云朵。我想弓将使你的双臂增添光彩,因为你的双臂极其粗壮修长。

4.11.14

प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः ।
पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते ॥ ४.११.१४ ॥

你拿起弓,以适合你的兵器,今日即坚定地守卫这座城与这片国土。大拍啊,你要像我的儿子一样;我已年老,我将赐予你财富。

4.11.15

त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते ।
प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् ॥ ४.११.१५ ॥

主上,你要守护我这整座城;我在你身上看不到任何无男性之态。请治理摩蹉人,以力量使他们繁荣。我是诚实的;我将把王国交给你。

4.11.16

तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च ।
ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ॥ ४.११.१६ ॥

国王在他面前放置了自己许多长而饰有色彩、已上弦而有力的弓,想知道他会做什么。

4.11.17

ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो ।
न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ॥ ४.११.१७ ॥

于是阿周那说了非常谦卑的话:"主啊,我从未持过这样的弓,也未曾在任何地方见过这样的弓;大地上没有像我这样的射手。"

4.11.18

नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम ।
तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ॥ ४.११.१८ ॥

我能舞蹈、歌唱,也会演奏乐器;在舞蹈上我有技艺与熟练。因此,人主啊,请让我教导乌塔拉跳舞,我将成为王后的舞女。

4.11.19

ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः ।
ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ॥ ४.११.१९ ॥

布利轩那啊,我把这恩赐赐给你:教我的女儿和其他类似的女子跳舞。于是国王毗罗吒亲自召唤了他的女儿,那位细腰美人。

4.11.20

उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम् ।
सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ॥ ४.११.२० ॥

他欢喜地对她说:"美体者啊,愿这位布利轩那成为你的朋友,彼此以深厚的爱与善意紧密相连,少女啊,愿她永远如你的生命一般珍贵。"

4.11.21

प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता ।
न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ॥ ४.११.२१ ॥

愿这位美丽的女子随心所欲地享用食物、佩戴饰物、穿着衣裳,在众人之中自由往来。她的仪态不可能属于低贱家族;这样的人不会败坏品行。

4.11.22

संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै ।
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ॥ ४.११.२२ ॥

国王与各位大臣商议,又让女人们迅速加以试探,并确知他并非阉人,然后便把他送往少女们的内宫。

4.11.23

स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः ।
सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ॥ ४.११.२३ ॥

威武的财主(Dhanaṃjaya)教授毗罗吒之女歌舞,那位般度之子也受到她的女伴和侍女们的喜爱。

4.11.24

तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान् ।
तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ॥ ४.११.२४ ॥

就这样,财主在那里住下,与她们一起做令人愉快的事,克制自己。他在那里这样生活,外面来往的人和其他人都不知道。