摩诃婆罗多 · 章 4.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.15.1
एवं विराटनगरे वसन्तः सत्यविक्रमाः ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ ४.१५.१ ॥
如此居住在毗罗吒城中,真正勇武的人中之虎般的般度五子此后做了什么?
4.15.2
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ॥ ४.१५.२ ॥
如此,这些俱卢之族的喜乐之人在那里隐匿居住。听听他们为取悦国王所做的事。
4.15.3
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ॥ ४.१५.३ ॥
坚战成为议会的装饰,深受众人喜爱;同样,他也深受毗罗吒及其子的喜爱,哦,人民之主。
4.15.4
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः ।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ॥ ४.१५.४ ॥
那位通晓骰子之心的般度子,随意让他们掷骰,如同被线缚住的鸟儿,被骰子所束缚。
4.15.5
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् ।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ॥ ४.१५.५ ॥
法王,人中之虎,赢得毗罗吒未知的财富后,按兄弟们的意愿分给他们。
4.15.6
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ॥ ४.१५.६ ॥
怖军也仿佛在兄弟之间售卖一般,分发马特亚所送来的各种肉类和食物。
4.15.7
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ ४.१५.७ ॥
阿周那在后宫获得了破旧的衣物,仿佛在出售一般分给所有般度五子。
4.15.8
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् ।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ ४.१५.८ ॥
无种也因照料马匹之功获得财物,待那位人主欢喜后,便把财物交给般度五子。
4.15.9
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः ।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ ४.१५.९ ॥
偕天也装作牧人模样,把凝乳、牛奶和酥油交给般度五子。
4.15.10
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ॥ ४.१५.१० ॥
然而黑天女一直注视着诸位兄弟,像苦行女一般,为了不被再次认出而行走,这位光彩照人的女子。
4.15.11
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः ।
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥ ४.१५.११ ॥
这些大车战士彼此尊敬,在毗罗吒城中行走,仿佛又重新在胎中怀抱一般。
4.15.12
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ॥ ४.१५.१२ ॥
般度之子因畏惧持国之子而心怀忧虑,隐匿身形,在那里看护着黑天女,啊人主。
4.15.13
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः ।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥ ४.१५.१३ ॥
于是在第四个月,摩差人中举行了湿婆(商羯罗)的盛大节日;它繁盛热闹,深受民众喜爱。
4.15.14
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ॥ ४.१५.१४ ॥
大王啊,那里从四方聚来了成千上万的摔跤手。
4.15.15
महाकाया महावीर्याः कालकेया इवासुराः ।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ॥ ४.१५.१५ ॥
他们身躯高大、勇力非凡,如同迦拉刻亚阿修罗;因力量而狂妄,因力气而骄傲,受到国王的隆重礼遇。
4.15.16
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥ ४.१५.१६ ॥
肩、腰、颈如狮子一般,肤色白皙,志气高远;他们在国王面前的竞技场上多次取得了胜利。
4.15.17
तेषामेको महानासीत्सर्वमल्लानथाह्वयत् ।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ॥ ४.१५.१७ ॥
其中有一位十分高大,他向所有摔跤手发出挑战。人们看见他站在那里,跳跃着,吼叫着。
4.15.18
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ॥ ४.१५.१८ ॥
那些摔跤手都心中恐惧、神志恍惚;低着头,惊恐不安,其他摔跤手也都茫然失措。
4.15.19
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः ।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ॥ ४.१५.१९ ॥
其他人惊慌失措,渴望死亡;有人想钻入大地,有人则站起身,仿佛要升入天空。
4.15.20
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ॥ ४.१५.२० ॥
毗罗吒王的摔跤手们惊恐而沮丧,四肢无力,眼神慌乱,默然无语;他们的骄傲已被打碎,光彩尽失。
4.15.21
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते ।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ॥ ४.१५.२१ ॥
被摔跤王击倒的众人一句话也说不出。那位摔跤手看着那些惊恐的摔跤手,说出了这番话。
4.15.22
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ॥ ४.१५.२२ ॥
王啊,你要知道,我是摔跤之王,来到整个大地,与狮群虎群嬉戏。
4.15.23
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ॥ ४.१५.२३ ॥
毗罗吒听到那位摔跤王充满力量之骄傲的话语,看着那些惊恐的摔跤手,说出了这番话。
4.15.24
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ॥ ४.१५.२४ ॥
什么人能够与这位摔跤手交战?
4.15.25
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ॥ ४.१५.२५ ॥
维罗吒如此发问,众摔跤手皆沉默不语,民主啊。于是怒气填胸的国王开口说道。
4.15.26
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम् ।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ॥ ४.१५.२६ ॥
“我要夺去这些摔跤手的村庄与俸禄。”听了摩差国王的这番话,坚战于是开口。
4.15.27
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे ।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ॥ ४.१५.२७ ॥
“大王啊,我在坚战的城中见过一位摔跤手,他能与这位摔跤手相搏,陛下。”
4.15.28
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे ।
सोयं मल्लो वसत्येप राजंस्तव महानसे ॥ ४.१५.२८ ॥
“此人正是我先前在坚战城中所见之摔跤手;大王啊,他就住在您的膳房里。”
4.15.29
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः ।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ॥ ४.१५.२९ ॥
国王听了坚战的话,明确地说:“快把他叫来,现在就与这位摔跤手相搏。”
4.15.30
भीमसेनो विराटेन आहूतश्चोदितस्तथा ।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ॥ ४.१५.३० ॥
毗罗吒召唤并激励,怖军于是说道:“陛下,我能够与之相搏。”
4.15.31
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् ।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ॥ ४.१५.३१ ॥
人主啊,凭借您的威力、光荣与力量,又遵从您的命令,王中之王啊,我能够与这位摔跤手搏斗。
4.15.32
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते ।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ॥ ४.१५.३२ ॥
人民之主啊,既知道是坚战所安排,凭借您的福运和对大天的虔诚,我必将击倒那位摔跤手。
4.15.33
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले ।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ॥ ४.१५.३३ ॥
在催促之下,毗摩森那召唤那位摔跤手,在场中站定准备格斗;勇士拍去手上的尘土,如同发狂的象一般,与对方开始搏斗。
4.15.34
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ॥ ४.१५.३४ ॥
于是厨师(乔装的毗摩)让那位摔跤手在摩蹉王面前与人搏斗。
4.15.35
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम् ।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ॥ ४.१५.३५ ॥
虽被催促,毗摩却似带着悲伤下定决心;因为即便我力有不逮,也不能拒绝那位人主。
4.15.36
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् ।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ ४.१५.३६ ॥
于是那位人中之虎,以虎般松弛的步伐行走,走进大场地,使毗罗吒欢喜。
4.15.37
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ ४.१५.३७ ॥
于是昆提之子系好腰带,令众人欢喜,婆摩向那位如弗栗多般的力士发出挑战。
4.15.38
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ॥ ४.१५.३८ ॥
他在那里抓住以武勇闻名于力士之间、名叫耆穆塔的那位力士的腰部,像狮子一样大声吼叫。
4.15.39
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ॥ ४.१५.३९ ॥
二人都极为热情,皆具婆摩之勇;如发情的大身躯象,六十岁的两头大象一般。
4.15.40
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु ।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ ४.१५.४० ॥
于是这两位人中虎彼此进行徒手搏斗;两位英雄十分欢喜,各自渴望战胜对方。
4.15.41
उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ ४.१५.४१ ॥
二人都极为欢喜,力量都极为强大,各自寻找对方的空隙,彼此渴望获胜。
4.15.42
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ ४.१५.४२ ॥
以巧妙的反击与还击,以极为险峻的臂力,以相撞后的甩脱,以及翻搅与摔倒,如此相斗。
4.15.43
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः ।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ ४.१५.४३ ॥
以投掷、以拳击、以如同抬起野猪时的吼声、以掌击、以如雷霆般的重击、以及伸展的打击——同样地。
4.15.44
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ ४.१५.४४ ॥
以尖利指甲的抓击、以脚的可怕踢踹、以膝盖、以如石头碰撞般的响声、以及头与头相撞。
4.15.45
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा ।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥ ४.१५.४५ ॥
那场战斗变得可怕,没有武器,凭借臂力与英雄的生命之力,在节庆集会的面前进行。
4.15.46
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः ।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ ४.१५.४६ ॥
众人欢欣,伴随着呼喊与吼声站起,大王啊,就像两位强者——弗栗多与婆娑婆——的战斗。
4.15.47
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ॥ ४.१५.४७ ॥
以拖拽与牵引的技法,左右拉扯,二人彼此牵拉,又以膝盖击打。
4.15.48
ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ ४.१५.४८ ॥
于是,二人以巨大的吼声彼此辱骂,宽阔胸膛、长臂,俱精于摔角,便以手臂紧紧缠住对方,如同铁制的木栓。
4.15.49
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् ।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ॥ ४.१५.४९ ॥
随即他飞身跃起,抓住摔角手的腰部,用手压住他的侧身,将摔角手摔倒在地。
4.15.50
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा ।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ॥ ४.१५.५० ॥
灭敌者怖军双臂举起摔角手,拖拽着他,如老虎拖拽大象般怒吼着。
4.15.51
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ ४.१५.५१ ॥
大臂勇猛的怖军将他高高举起并旋转。于是摔角手们与摩differently·Matsya人感到极度惊讶。
4.15.52
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥ ४.१५.५२ ॥
将他旋转一百次之后,大臂的狼腹将那毫无生气、失去知觉的摔角手摔落在地。
4.15.53
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्वान्धवैः सह ॥ ४.१५.५३ ॥
当那位闻名于世的英雄遮冒多被杀后,毗罗吒与亲属们一同获得了无上的喜悦。
4.15.54
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः ।
वललाय महारङ्गे यथा वैश्रवणस्तथा ॥ ४.१५.५४ ॥
大度的国王因喜悦而赠予大量财富,在大场地上像毗沙门(俱毗罗)一样欢喜地打滚。
4.15.55
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥ ४.१५.५५ ॥
如此,他击倒众多摔跤手和大力之人,为摩茨雅国王带来了至高的喜悦。
4.15.56
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ ४.१५.५६ ॥
当那里找不到与他匹敌的人时,他便与老虎、狮子和大象搏斗。
4.15.57
विराटेन प्रदत्तानि चित्राणि विविधानि च ।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ॥ ४.१५.५७ ॥
他将毗罗吒所赠的各种奇妙礼物分给站在那里的人们之后,便离去了。
4.15.58
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः ।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ॥ ४.१५.५८ ॥
此后,狼腹(怖军)身处内宫的众女之中,与毗罗吒那强大的象群和狮子搏斗。
4.15.59
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः ।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ ४.१५.५९ ॥
般度之子怖畏(阿周那)也以歌唱与舞蹈,使毗罗吒及内宫的所有女子欢喜。
4.15.60
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः ।
तोपयामास राजानं नकुलो नृपसत्तमम्।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ॥ ४.१५.६० ॥
纳古罗以从各处聚集来的训练有素、疾驰的马匹,使王中至尊的毗罗吒王欢喜。王心中欢悦,赐给他大量财富。
4.15.61
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः ।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ॥ ४.१५.६१ ॥
毗罗吒(人中之牛)见到萨哈德瓦周围训练有素的公牛,便赐给他多种财富。
4.15.62
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ॥ ४.१५.६२ ॥
大王啊,德罗波蒂看见那些受苦的大战车武士,心中不悦,不住地叹息。
4.15.63
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ ४.१५.६३ ॥
如此,这些人中之牛在那里隐匿居住,当时为毗罗吒王做事。