Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.17.1

एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना ।
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ॥ ४.१७.१ ॥

邪恶的迦吉迦如此说后,无可挑剔肢体的德罗波蒂身着侍女的装束,对他说道:

4.17.2

अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे ।
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ॥ ४.१७.२ ॥

御者之子啊,你竟然想要我这个在此不该被渴望的人。我是低贱种姓的侍女,令人厌恶,是梳理头发的人。

4.17.3

परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम् ।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ ४.१७.३ ॥

我是他人之妻。愿你吉祥。现在这对你不合适。妻子是众生所珍爱的;请思量法(达摩)。

4.17.4

परदारे न ते बुद्धिर्जातु कार्या कथंचन ।
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ॥ ४.१७.४ ॥

你的心念绝不可以任何方式转向他人之妻;远离不当之行,正是善人的誓愿。

4.17.5

मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ॥ ४.१७.५ ॥

心怀罪恶、贪求虚妄、陷入迷惑的人,将招致可怕的恶名,或遭遇巨大的恐惧。

4.17.6

एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः ।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥ ४.१७.६ ॥

侍女虽如此说,迦吉迦被欲望迷惑,心术极坏,明知其非,仍执意去触碰他人之妻。

4.17.7

दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् ।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥ ४.१७.७ ॥

那心术不正、不能自制的人,列举了许多害命且为一切世界所鄙弃的过失,对德罗波蒂这样说道。

4.17.8

नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने ।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥ ४.१७.८ ॥

美腰的女子啊,美面的女子啊,你不应当因我而这样拒绝被爱神所困的我,甜笑的女子啊。

4.17.9

प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् ।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥ ४.१७.९ ॥

你拒绝我这个顺从、言语温和的人,胆怯的女子啊,黑眼睛的女子啊,你日后必定会悔恨。

4.17.10

अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे ।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥ ४.१७.१० ॥

美眉的女子啊,纤腰的女子啊,我正是这整个王国的主宰,也是使之人口兴盛的人;在大地上,我的勇力无人能比。

4.17.11

पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह ।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥ ४.१७.११ ॥

在大地上,此处没有另一个男子与我相等,我拥有容貌、青春、福运以及无与伦比的吉祥享乐。

4.17.12

सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह ।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥ ४.१७.१२ ॥

吉祥的女子啊,这里有满足一切欲望、无与伦比、可以享受的享乐,你为何偏偏迷恋一个奴仆?

4.17.13

मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने ।
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ॥ ४.१७.१३ ॥

我已将此国赐予你,你便是它的女主人,美面者啊。请接纳我,纤腰者啊,享受无与伦比的欢乐吧。

4.17.14

एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः ।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥ ४.१७.१४ ॥

迦摩迦以这些不净之言相向,那位贞洁的女子斥责他的话语,对迦摩迦说了这番话。

4.17.15

मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम् ।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥ ४.१७.१५ ॥

御者之子啊,不要迷惑;不要今天就丧失性命。要知道,我总是被五个凶猛者守护着。

4.17.16

न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम ।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ ४.१७.१६ ॥

我也不是你能得到的;乾闥婆是我的丈夫。他们愤怒之下会杀死你。够了,不要毁灭自己。

4.17.17

अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ॥ ४.१७.१७ ॥

你想走一条人所不能走的道路。

4.17.18

यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ ४.१७.१८ ॥

就像一个愚昧无知的孩子站在岸边,想游到对岸去,你也想做这件事。

4.17.19

अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्र ।
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥ ४.१७.१९ ॥

即使你钻入地下,飞向高空,或逃到大海彼岸,也不能摆脱他们;因为他们是残暴的天神之子,在天空中飞行。

4.17.20

त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य ।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यस ॥ ४.१७.२० ॥

你仿佛是被死亡之夜折磨的人,今日为何如此强烈地渴望我?你的想法就像躺在母亲怀中的婴儿,想要抓住月亮。

4.17.21

तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भ ।
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ॥ ४.१७.२१ ॥

你企图染指他们心爱之人,无论在大地还是升上天堂,都找不到庇护。迦吉迦啊,你的目光中毫无吉祥;向你求取生命的女子也是如此。