摩诃婆罗多 · 章 4.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.18.1
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः ।
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ॥ ४.१८.१ ॥
被般遮罗女子拒绝的鸡昌迦因欲望而迷惑,走入王宫,站在姐姐面前。
4.18.2
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् ।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ ४.१८.२ ॥
他望着他心爱的姐姐苏德什娜——那位美发女子,被可怕而无节制的欲望所淹没。
4.18.3
स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ ।
संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ॥ ४.१८.३ ॥
随后他双手合十举过头顶,触碰了姐姐的双脚;被迷惑所击中,他立刻颤抖,如同被风吹动的大海。
4.18.4
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः ।
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ॥ ४.१८.४ ॥
他极其痛苦,屡次叹息,以低微柔和、近乎含混的劝说之语,喉咙干涸地一再对姐姐说话。
4.18.5
यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया ।
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ॥ ४.१८.५ ॥
苏德什娜啊,今日便快快安排,好让我能与那心怀情欲的侍女相会,免得我舍弃性命。
4.18.6
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते ।
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ॥ ४.१८.६ ॥
若这位肢体无瑕的女子至今日仍不愿接纳我,那么纵然我心中欢喜,我也已经走向阎摩之居了。
4.18.7
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् ।
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ॥ ४.१८.७ ॥
黑眼睛的苏提什纳拥抱了心爱的哥哥,为保全哥哥的性命而安慰他,对他说道。
4.18.8
शरणागतेयं सुश्रोणी मया दत्ताभया च सा ।
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ॥ ४.१८.८ ॥
这位美丽腰身的女子前来寻求庇护,我已许诺保护她;她也品行端正。愿你吉祥——我不敢在此与她说话。
4.18.9
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा ।
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ॥ ४.१८.९ ॥
心怀恶意的人无法触碰她;据说五位乾达婆守护着她,并以她为乐。
4.18.10
एवमेषा ममाचष्टे तथा प्रथमसंगमे ।
तथैव गजनासोरूः सत्यमाह ममान्तिके।
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ॥ ४.१८.१० ॥
初次相见时她也对我如此说;这位大腿如象鼻的女子在我面前所言属实。那些大德若是震怒,必会夺走性命。
4.18.11
राजा चैव समीक्ष्यैनां संमोहं गतवानिह ।
मया च सत्यवचनैरनुनीतो महीपतिः ॥ ४.१८.११ ॥
国王看见她之后,在此陷入迷乱;而那位大地之主被我的真实之言所劝服。
4.18.12
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत ।
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम्।
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ॥ ४.१८.१२ ॥
他也不停地看着她,心中暗自欢喜;但由于害怕那些夺命的首领乾达婆,国王连在心里也不敢想起她。
4.18.13
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः ।
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ॥ ४.१८.१३ ॥
这些大德者若愤怒,以迦卢达与风的威力,便能如劫末之日一般焚烧三界。
4.18.14
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम् ।
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ॥ ४.१८.१४ ॥
侍女确已告诉我他们的大力。我也出于情谊,如亲属一般,将这秘密告诉你。
4.18.15
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् ।
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ॥ ४.१८.१५ ॥
你不要走那条痛苦而极难行的路;强者可能会伤害你的家族与财富。
4.18.16
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव ।
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ॥ ४.१८.१६ ॥
因此,若你珍惜性命,便不要将心思放在她身上,也不要想她;若你想得我欢心,便不要去那里。
4.18.17
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत् ।
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा ।
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ॥ ४.१८.१७ ॥
被如此劝说后,心术不正的吉遮卡对他的姐姐说:"即使乾闼婆有百人、千人,甚至万人,我一人也能将他们杀尽;何况只是五位乾闼婆!"
4.18.18
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् ।
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ॥ ४.१८.१८ ॥
而你不知女子那至上的秘密——祸害会降临于儿子、孙子、兄弟,或某位有志之士。
4.18.19
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् ।
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ॥ ४.१८.१९ ॥
在此密处见到一位以种种香料装饰的男子,据说女子的阴部也会湿润,即便是贞洁的女子。
4.18.20
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम् ।
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता।
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ॥ ४.१८.२० ॥
她见我身涂香膏、满身珠饰,被爱神折磨的那位侍女便会归我所有。你见到她,就对她说:如果你珍视我的性命。
4.18.21
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता ।
अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ॥ ४.१८.२१ ॥
被这样说之后,苏德什纳深受悲痛折磨,说道:啊,多么痛苦!啊,多么艰难!啊,多么罪孽!
4.18.22
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा ।
पातालेषु पतत्येष विलपन्बडवामुखे ॥ ४.१८.२२ ॥
她因极度的悲痛而泣不成声,看到他的结局:他哀号着坠入地底世界,落入巴达婆火的口中。
4.18.23
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे ।
किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ॥ ४.१८.२३ ॥
因为你,我的兄弟和朋友都将灭亡。你既然如此沉溺,我又能做什么呢?
4.18.24
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे ।
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः ।
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ॥ ४.१८.२४ ॥
你不知道什么是善,只顺从欲望。你这样被欲望迷惑,恶人,你的寿命必定已尽。最卑劣的男人,你驱使我去做不该做的事,罪人!
4.18.25
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः ।
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ ४.१८.२५ ॥
此言古時亦為智者與人中之最勝者所說:一人作惡,其同族因之而被殺。
4.18.26
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः ।
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ॥ ४.१८.२६ ॥
你已进入法王的领地,此无疑问。你将使这整个无瑕之地,陷于自家族人被杀的境地。
4.18.27
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात् ।
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ॥ ४.१८.२७ ॥
于我而言,此事最为痛苦:出于对兄弟的深情,我将明白其意而行事。你在灭族之中自可欢喜吧。
4.18.28
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम् ।
किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ॥ ४.१८.२८ ॥
你速从此处回到自己吉祥的居所,为某事之故,备好美酒与食物。
4.18.29
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः ।
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ॥ ४.१८.२९ ॥
饭食与美酒备妥之后,你会再遣人来召我;我便会把她派到你那里去取蜜与食物。
4.18.30
ततः संप्रेषितामेनां विजने निरवग्रहाम् ।
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ॥ ४.१८.३० ॥
待她被遣来之后,在僻静之处,无所拘束,你当依礼好好安抚她,若她能忍受和解之道的话。
4.18.31
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ॥ ४.१८.३१ ॥
这一切已立即办妥;此事剩下的部分,你且思量。
4.18.32
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः ।
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ॥ ४.१८.३२ ॥
苏德什娜如此说后,被命运驱使的迦吉迦急忙离开王宫,回到自己的家中。
4.18.33
आगम्य च गृहं रम्यं सुरामन्नं चकार ह ।
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ॥ ४.१८.३३ ॥
他来到自己的华美住宅,命人备下酒和食物,并将山羊、绵羊的肉以及多种鹿肉烹调妥当。
4.18.34
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा ।
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ॥ ४.१८.३४ ॥
于是他令熟练的厨师制作了许多形态各异、种类繁多的菜肴,并以饭食与饮品精心陈设。
4.18.35
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा ।
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ॥ ४.१८.३५ ॥
如同颈上被时间之绳缚住的牲畜,急躁而愚昧的迦吉迦竟未察觉死亡已然临近。
4.18.36
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते ।
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ॥ ४.१८.३६ ॥
酒已取来,精心备好的饭食也已做成,迦吉迦又来到,对苏德什娜说了这番话。
4.18.37
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः ।
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ॥ ४.१८.३७ ॥
蜜、肉与各种食物已用多种方式烹制。苏提什娜啊,去告诉侍女,让她来我的家。
4.18.38
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम् ।
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम्।
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ॥ ४.१८.३८ ॥
借个理由,今日就快快为我成就所爱之事。我皈依牛旗之神。请使我与侍女相合,否则赐我死亡,这样说吧。
4.18.39
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् ।
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ॥ ४.१८.३९ ॥
她叹息着对他说:“你回自己的家去吧。我也会赶快吩咐侍女去取酒。”
4.18.40
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः ।
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ॥ ४.१८.४० ॥
如此被告知后,心怀恶念的迦吉迦,心念系于侍女,急忙又回到自己家中。
4.18.41
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम् ।
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ॥ ४.१८.४१ ॥
苏提什娜得知迦吉迦已急匆匆回家,便召唤侍女,说了这些话。
4.18.42
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् ।
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ॥ ४.१८.४२ ॥
侍女啊,为了讨我欢心,去迦吉迦的住处。美腰的女子啊,把酒拿来,因为我口渴了,娇媚的女子啊。
4.18.43
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा ।
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ॥ ४.१८.४३ ॥
苏德什那如此说道,王女深深叹息,因悲痛而煎熬,说道:“我不去那里。”
4.18.44
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते ।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।
त्वमेव भद्रे जानासि यथा स निरपत्रपः ॥ ४.१८.४४ ॥
“善良的女士,那御者之子被欲望驱使,想要我。王女,我不去他的住处。善良的女士,你自己也知道他是何等无耻。”
4.18.45
समयश्च कृतो भद्रे यथा प्रथमसंगमे ।
तथा निवसमानायां यथाऽहं नान्यचारिणी ॥ ४.१८.४५ ॥
“善良的女士,正如第一次相会时所立的约定,我在此居住时,也不是会去寻他人的女子。”
4.18.46
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः ।
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम्।
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ॥ ४.१८.४६ ॥
“迷惑而因欲望而自负的吉婆迦,见我来到此处,便会决意行那无耻之事。若我去到那里,他又怎会容忍我这无亲无故之人?”
4.18.47
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः ।
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ॥ ४.१८.४७ ॥
“王女,你有许多听命的婢仆。吉凯依,派别人去吧;我在此处应由你来保护。”
4.18.48
कीचकस्यालयं देवि न यामि भयकम्पिता ।
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ॥ ४.१८.४८ ॥
“女神啊,我因恐惧而颤抖,不去吉婆迦的住处。我所做的其他任何艰难之事,我都会去做。”
4.18.49
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी ।
तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ॥ ४.१८.४९ ॥
命运使然,般遮罗女如此说后,毗罗吒的正妃迦伊刻伊愤怒地再次训诫她。
4.18.50
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता ।
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ॥ ४.१८.५० ॥
你去找迦遮克吧,你已被迫去做强迫之事。对我来说,没有人能与你相比;你快去吧。
4.18.51
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि ।
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ॥ ४.१८.५१ ॥
你必定要去,为何与我争辩?快去,赶紧,依我的意愿行事。
4.18.52
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे ।
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ॥ ४.१८.५२ ॥
我的兄弟不是那样的人,你为何怀疑?如此说罢,并凭借权势强行派遣了她。
4.18.53
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम् ।
या सुजाता सुगन्धा च तामानय सुरामिति ॥ ४.१८.५३ ॥
她把一只带盖的金器交给她,并说:“去把那位出身高贵、芬芳的女子叫来,让她取酒。”
4.18.54
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा ।
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ॥ ४.१८.५४ ॥
德鲁帕达之女惊惧、哭泣、颤抖,向诸神行礼,然后对公公们这样说。
4.18.55
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम् ।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ ४.१८.५५ ॥
我若除般度之子外不识其他男子,愿凭此真实,使迦旃迦见我后不能将我置于其控制之下。
4.18.56
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी ।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ ४.१८.५६ ॥
我若除般度之五子外不属于他人,愿凭此真实,使迦旃迦见我后不能将我置于其控制之下。