Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.20.1

एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः ।
अशक्तः कीचकं तत्र शासितुं बलदर्पितम् ।
विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् ॥ ४.२०.१ ॥

当般遮罗公主如此哀号时,摩差人中的至尊、毗罗吒王无力惩治恃力骄狂的吉柴伽,只以安慰之言制止了他。

4.20.2

कीचकं मत्स्यराजेन कृतागसमनिन्दिता ।
नापराधानुरूपेण दण्डेन प्रतिपादितम् ॥ ४.२०.२ ॥

吉柴伽犯了过错,然而摩差国王并未依其过错施以相称的惩罚,因顾及那位无过失的女子。

4.20.3

पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा ।
धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे ।
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ॥ ४.२०.३ ॥

般遮罗王之女,如天神之女,通晓诉讼之法,见吉柴伽作恶,忆念至上之法,又对国王说道。

4.20.4

संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः ।
राजानुवर्तनपरान्कीचकं च कृतागसम्।
विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ॥ ४.२०.४ ॥

那位腰肢美好的般遮罗公主望见殿中所有侍从——他们都在讨好国王——以及有罪的吉柴伽,心为悲痛所乱,便对毗罗吒说道。

4.20.5

न राजन्राजवत्किंचित्समाचरसि कीचके ।
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते ॥ ४.२०.५ ॥

国王啊!你在吉柴伽之事上毫无王者应有的作为。你的法不在善人之中确立,倒像强盗的法。

4.20.6

न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन ।
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥ ४.२०.६ ॥

吉柴伽并不安住于自身之法,摩差国王也绝非如此。而那些侍奉他的侍从,也是不懂法的人。

4.20.7

न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च ।
न राजा विनयं ब्रूते अमात्याश्च न जानते ॥ ४.२०.७ ॥

迦醯迦不知法,王的侍从亦然。国王不教导谦让,大臣也不懂。

4.20.8

नोपालभे त्वां नृपते विराटं नृपसंसदि ।
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ॥ ४.२०.८ ॥

大王啊,在诸王的集会中,我不责备你,毗罗吒啊。摩差耶啊,在你面前我没有资格杀他。

4.20.9

सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम् ।
विराटनृपते पश्य मामनाथामनागसम् ॥ ४.२०.९ ॥

愿诸位在座者看看违背法的迦醯迦。毗罗吒王啊,请看我,无依无靠,又无罪过。

4.20.10

न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ॥ ४.२०.१० ॥

对恶人,安抚之策不见成效;对恶人,才施以刑罚。

4.20.11

अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
स राजा न भवेल्लोके राजशब्दस्य भाजनम् ॥ ४.२०.११ ॥

若王罚不当罚之人,而不罚当罚之人,则他在世间不配「王」这一称号。

4.20.12

दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान् ।
अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा ।
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ॥ ४.२०.१२ ॥

大地之主应当保护穷苦可怜的人、盲人、无助的贫者、羸弱者、跛子、驼背者、愚钝者等,保护无依无靠的孩童与老人,无论男女,以及受恶人和盗贼欺压的人。

4.20.13

अनाथानां च नाथः स्यादपितॄणां पिता नृपः ।
माता भवेदमातॄणामगुरूणां गुरुर्भवेत्।
अगतीनां गती राजा नृणां राजा परायणम् ॥ ४.२०.१३ ॥

国王应当做无主者的主宰,无父者的父亲。应当做无母者的母亲,无师者的师长。国王应当做无依无靠者的归宿,做人类的最高依靠。

4.20.14

विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः ।
स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ॥ ४.२०.१४ ॥

尤其是被恶敌侵扰的贞洁而无依无靠的女子,最优秀的人应当像保护自己的女儿一样保护她。

4.20.15

त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम् ।
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां ॥ ४.२०.१५ ॥

大王啊,请看看我,被奇恰卡所击打的我——比我在您家中居住的这段时间更甚,我如同您亲生的女儿。

4.20.16

परोक्षं नाभिजानामि विग्रहं युवयोरहम् ।
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ॥ ४.२०.१६ ॥

你们二人之间的争执,我并未亲眼所见。不知事情的真相,于我又会有什么不利呢?

4.20.17

येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन् ।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ ४.२०.१७ ॥

那些敌人连用脚触地都不得安眠的人,他们高贵的妻子——我,竟被御者之子用脚踢打。

4.20.18

ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः ।
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम्।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ ४.२०.१८ ॥

那些施舍而不乞求、敬奉婆罗门、说实话的人,他们的战鼓轰鸣、弓弦震响之声常常传来——他们心爱的妻子,我,竟被御者之子用脚踢打。

4.20.19

तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः ।
महेष्वासा रणे शूरा गर्विता मानतत्पराः।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ ४.२०.१९ ॥

他们光辉、忍耐、强大而自尊;是伟大的弓箭手,战场上的英雄,庄重而珍视荣誉。我这位受尊敬的妻子,竟被御者之子以脚踢打。

4.20.20

सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ ४.२०.२० ॥

这些大力者若是愤怒,足以毁灭整个世界;可是御者之子竟以脚踢打我,他们心爱的妻子。

4.20.21

येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ ४.२०.२१ ॥

在勇力、真实、力量与克己上无人能与之相比的人,他们心爱的妻子,我,竟被御者之子以脚踢打。

4.20.22

येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः ।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ ४.२०.२२ ॥

在财富等方面,大地上没有一人能与他们相比;他们心爱的妻子,我,竟被御者之子以脚踢打。

4.20.23

तवाग्रतो विशेषेण प्रजानां च हितैषिणः ।
पश्यतो निहता राजंस्तेनेह जगतीपते ॥ ४.२०.२३ ॥

国王啊,在你面前,尤其是在你眼看着那些为民众谋福利的人被杀之时,地上之主啊,因此这里发生了这一切。

4.20.24

शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् ।
चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ॥ ४.२०.२४ ॥

那些为投靠者和寻求庇护者作庇护的大力者,如今他们究竟隐匿在何处、游荡于世间呢?

4.20.25

कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् ।
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ॥ ४.२०.२५ ॥

我是他们所爱、贞洁的妻子,被御者之子击打,他们怎能忍受?他们像阉人一样忍耐。他们强大而光辉卓越。

4.20.26

क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम् ।
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ॥ ४.२०.२६ ॥

那么他们的愤怒、勇气和力量在哪里?那些见妻子被打却不设法保护她的恶人,又在哪里?

4.20.27

मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे ।
मां मर्षंयति यः पश्यन्वध्यमानामनागसम् ॥ ४.२०.२७ ॥

面对亵渎正法的毗罗吒,我又能做什么?他看着无辜的我被打,却忍受着。

4.20.28

धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति ।
न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ॥ ४.२०.२८ ॥

被非法所伤的正法来到会场,若不拔出其箭,则会场中所有人都将受伤。

4.20.29

यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ४.२०.२९ ॥

若正法被非法所杀,真实被虚妄所害,而会众旁观,那么会众其实已经死了。

4.20.30

तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम् ।
ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन्।
साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ॥ ४.२०.३० ॥

听到赛兰陀丽那悲惨的哀诉,于是会众全体再次敬重黑天女,说「善哉,善哉」,并且谴责了迦吉卡。

4.20.31

केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम् ।
केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ॥ ४.२०.३१ ॥

有人赞美克里希纳,有人谴责迦旃迦,有人谴责国王,也有人谴责那位王后。

4.20.32

यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा ।
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ ४.२०.३२ ॥

谁能娶这位身体各部分都美丽、眼睛大大的女子为妻,谁便会获得巨大的利益,永远不会悲伤。

4.20.33

यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् ।
गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् ॥ ४.२०.३३ ॥

她身体美好丰满,面容胜过莲花,步态胜过天鹅,笑容胜过茉莉花,这样的女子不配死于脚下。

4.20.34

द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः ।
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ॥ ४.२०.३४ ॥

她的三十二颗白牙牢牢地长在牙床上,头发光滑柔软,这样的女子不配死于脚下。

4.20.35

पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा ।
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ॥ ४.२०.३५ ॥

她掌心有莲花、法轮、旗幡、海螺、宫殿和摩羯的纹路,这样的女子不配死于脚下。

4.20.36

आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः ।
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ॥ ४.२०.३६ ॥

她身上的四个旋涡,确实都是右旋的;这样身体匀称、美丽光滑的女子,不配死于脚下。

4.20.37

अच्छिद्रहस्तपादा च अच्छिद्रदशना च या ।
कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ॥ ४.२०.३७ ॥

这位手足与牙齿皆无瑕疵、眼如莲花瓣的少女,怎会应当遭受脚踢?

4.20.38

सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना ।
सुरूपिणी सुवदना नेयं योग्या पदा वधम् ॥ ४.२०.३८ ॥

她具备吉祥之相,面容如满月,形貌美好,面庞秀丽,不应遭受脚踢。

4.20.39

देवदेवीव सुभगा शक्रदेवीव शोभना ।
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ॥ ४.२०.३९ ॥

她如神中之神女般福泽深厚,如因陀罗之妃般光彩照人,容貌与阿普萨拉相当,不应遭受脚踢。

4.20.40

इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ॥ ४.२०.४० ॥

众位朝臣如此说罢,望着黑公主,便开始赞美她。

4.20.41

सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता ।
तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ॥ ४.२०.४१ ॥

那位美丽的臀妇深深叹息,面朝内站在地上,见坚战将要开口,便默然不语。

4.20.42

युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत् ।
अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् ।
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ॥ ४.२०.४२ ॥

坚战因愤怒,额头上开始淌汗。于是法之子对黑公主说话——她是他心爱的正妃,名为侍女沙兰陀利,此刻扮作云游苦行者,站在国王近旁。

4.20.43

गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् ।
राजा ह्ययं धर्मशीलो विराटः परलोकभीः ।
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ॥ ४.२०.४३ ॥

去吧,桑坎德丽,不要害怕;去苏提什那的住所。这位国王毗罗吒崇尚法度,畏惧来世;他坚守真理与法道,必定会保护你。

4.20.44

भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः ।
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ ४.२०.४४ ॥

英雄之妻随从其夫,忍受艰辛;以侍奉而受苦,她们便能赢得夫之世界。

4.20.45

मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव ।
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ ४.२०.४५ ॥

我认为此时并非发怒之时;你的丈夫们正在看着,因此如太阳般光辉的乾闼婆们不会向你奔来。

4.20.46

श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः ।
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ॥ ४.२०.४६ ॥

美发女子啊,请听那些依托解脱之法的故事,其中可见良家女子之法是依循法度而显现的。

4.20.47

नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम् ।
या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते ॥ ४.२०.४७ ॥

女子没有祭祀,没有祭祖之礼,也没有斋戒;但对丈夫的侍奉,才会通向天界。

4.20.48

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ ४.२०.४८ ॥

童年由父亲保护,青年由丈夫保护,老年由儿子保护;女子不配享有自主。

4.20.49

भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन ।
बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः ।
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ॥ ४.२०.४९ ॥

胆怯的女子啊,妻子因畏惧丈夫,从不发怒。即便多受苦难、为敌人所轻侮,专一忠贞而纯洁的女子仍能赢得福德之界。

4.20.50

न क्रोधकालं नियतं पश्यन्ति पतयस्तव ।
न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि।
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ॥ ४.२०.५० ॥

你的丈夫们不会看准发怒的确定时刻;即便杀死弗栗多的因陀罗,也不会走近盛怒的丈夫。因此,能随意变化形貌的乾闼婆不会奔向你。

4.20.51

यदि ते समयः कश्चित्कृतो ह्यायतलोचने ।
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ॥ ४.२०.५१ ॥

眼睛宽大的女子啊,如果你曾订下某种约定,请记住它。宽容忍耐的女子啊,忍耐乃是至上之法。

4.20.52

क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः ।
क्षमावतामयं लोकः परलोकः क्षमावतांम् ॥ ४.२०.५२ ॥

忍耐即是法,忍耐即是真实,忍耐即是布施,忍耐即是苦行。这个世界属于有忍耐的人,来世也属于有忍耐的人。

4.20.53

द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः ।
कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत् ॥ ४.२०.५३ ॥

那年之轮有两部分、十二肢、二十四节、三百六十辐,少了一个月,谁会因此而不耐烦呢?

4.20.54

गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ।
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ॥ ४.२०.५४ ॥

去吧,桑德丽!乾闼婆们将为你做你所喜爱之事,并将消除那使你受辱之人所带给你的悲伤。

4.20.55

इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट् ।
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ॥ ४.२०.५५ ॥

她被如此说后仍站立着,法王又对她说:“善良的女子啊,你在王宫的集会中妨碍那些正在赌博的人。”

4.20.56

तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः ।
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ॥ ४.२०.५६ ॥

所以,美臀的女子啊,你在我们看来也像个舞女。”丈夫这样说后,她看着他们,说了这番话。

4.20.57

सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः ।
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ॥ ४.२०.५७ ॥

“智者啊,你说得对。但你应当知道我是一个演员的妻子。我属于那位演员,他们之中的长兄精通骰子。”

4.20.58

एवमुक्त्वा वरारोहा परिमृज्याननं शुभम् ।
केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ॥ ४.२०.५८ ॥

这样说完,这位美臀的女子擦拭了她美丽的面容,把散乱的头发、被血沾湿的头发束好。

4.20.59

पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव ।
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ॥ ४.२०.५९ ॥

她全身沾满尘土,宛如象王的妃子,大腿如象鼻,她知晓了丈夫的命令便出发了。

4.20.60

विमुक्ता मृगशावाक्षी निरन्तरपयोधरा ।
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ॥ ४.२०.६० ॥

她鹿仔般的眼睛,丰满相连的双乳,被释放后,如同星王(月亮)的光辉被黑云遮蔽。

4.20.61

यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम् ।
तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः।
समयं नातिवर्तन्ते वेलामिव महोदधिः ॥ ४.२०.६१ ॥

为了她,般度之子甚至愿意舍弃性命;见到克利希那如此情景,忍耐而行法的人仍不违背期限,犹如大海不越其岸。

4.20.62

सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् ।
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ॥ ४.२०.६२ ॥

她颤抖着走进苏德什那的住处,哭泣着,四肢俱美,站在她的面前。

4.20.63

तामुवाच विराटस्य महिषी शाठ्यमास्थिता ।
किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ॥ ४.२०.६३ ॥

毗罗吒的正妃假意欺诈地对她说:“你如莲花般,牙齿、嘴唇、眼睛、鼻子都很美,这是怎么回事?”

4.20.64

रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम् ।
बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम्।
नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ॥ ४.२०.६४ ॥

你一边哭泣一边拭泪,你的面容如满月般光辉,唇如香瓜般红润,黑眸清澈,光彩极为动人,双眼直视前方,泪水不断流下。

4.20.65

कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने ।
को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ॥ ४.२०.६५ ॥

美腰的女子啊,是谁伤害了你?光彩照人的女子啊,你为何哭泣?是谁与妻子、儿子和亲族分离了?

4.20.66

कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति ।
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ॥ ४.२०.६६ ॥

今日国王因谁而震怒并下令处死?告诉我,你所愿之事是什么?我该舍弃谁,或是让谁被杀?

4.20.67

तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि ।
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ॥ ४.२०.६७ ॥

她叹息道:“明知故问?你奉兄长之命派我前来,为何这样自夸?”

4.20.68

कीचको माऽवधीत्तत्र सुराहारीमितोगताम् ।
सभायां पश्यतो राज्ञो यथा वै निर्जने वने ॥ ४.२०.६८ ॥

在那里,吉卡卡侮辱了我——我这个来到饮酒者中间的人——就在议会上,在国王眼前,仿佛在荒僻的森林里一般。

4.20.69

घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे ।
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ॥ ४.२०.६९ ॥

美齿朱唇的女子啊!你若愿意,我便让人杀了吉卡卡。若我这位兄长——越过了守法的女子,心被欲望所制,轻慢你这难得之人——显然有罪……

4.20.70

अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः ।
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ॥ ४.२०.७० ॥

今天,那些他所得罪的人就会杀了他。我想他今天或明天就会去往另一个世界。

4.20.71

भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै ।
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ॥ ४.२०.७१ ॥

快为你的兄长举行活人的葬礼——就在今天。欢欣地为他准备吧;我想他已经无法再维系生命了。

4.20.72

तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम् ।
एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ॥ ४.२०.७२ ॥

我那五位奉行法道的丈夫之中,有一位极难战胜,在大地上的力量无与伦比。

4.20.73

निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम् ।
न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् ॥ ४.२०.७३ ॥

若他愤怒,今夜便能使这世间无人;然而这位能随意变化形貌的乾闼婆,至今尚未发怒。

4.20.74

नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम् ।
तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः।
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ॥ ४.२०.७४ ॥

他一旦知道我这一脚,罪人欺奇迦便将在那一刻与他的儿子、兄弟和亲属一同毁灭,正如那心怀恶念、作恶多端之人。

4.20.75

अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः ।
एकस्तु कुरुते पापं कालपाशवशं गतः।
नीचेनात्मापराधेन कुलं तेन विनश्यति ॥ ४.२०.७५ ॥

这也是从前睿智的优秀之人所说:若一人作恶,落入时间的绳索之下,卑劣之人便会因自己的过错而毁灭其家族。

4.20.76

सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता ।
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ॥ ४.२०.७६ ॥

她对苏提舍娜如此说罢,被悲痛迷惑的侍女便受持誓愿,以诛杀欺奇迦。

4.20.77

अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया ।
न च स्नाति न चाश्नाति न पांसून्परिमार्जति।
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ॥ ४.२०.७७ ॥

尽管众女子恳求,苏提舍娜也加以礼敬,她却不沐浴、不进食、不拂去尘土;她面上沾满血迹,双眼仿佛被揉碎,便成了这般模样。

4.20.78

तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः ।
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ॥ ४.२०.७८ ॥

众女见她如此悲痛欲绝、哭泣不止,便都在心中希望迦св卡(Kīcaka)被杀。