Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.25.1

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ॥ ४.२५.१ ॥

善良的女子啊,胆怯的人啊,我会照你所说的去做。今天我就要连同他的亲属一起杀死这个人。

4.25.2

अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् ।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ ४.२५.२ ॥

耶遮那塞那之女,笑容纯净的人啊,抖落痛苦与悲伤,在今夜开始之时与他约定一个暗号。

4.25.3

यैषा नर्तनशालेह मत्स्यराजेन कारिता ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ॥ ४.२५.३ ॥

这座由摩differ 国王在此修建的舞厅,少女们白天在此跳舞,夜里便各自回家。

4.25.4

तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् ।
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ॥ ४.२५.४ ॥

那里有一张四肢坚固、安放稳当的床。在那里,我要把先祖的亡魂显现给这个人看,他的感官因见到你而生的欲望而躁动不安。

4.25.5

संकेतं सूतपुत्रस्य कारयस्व शुभानने ।
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ॥ ४.२५.५ ॥

面容美好的人啊,与御者之子约定一个暗号,使别人看不到你与他的约定。

4.25.6

तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत् ।
तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ॥ ४.२५.६ ॥

善良的女子啊,你要安排他来到此地,并与御者之子约定一个隐秘的暗号。

4.25.7

आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति ।
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ॥ ४.२५.७ ॥

胆怯的女子啊,安排我们的相会,使凡人无从察觉;公主啊,也要为了毁灭迦旃迦而如此行事。

4.25.8

तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ ।
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ॥ ४.२५.८ ॥

两人在那里交谈,流着泪,悲痛不已,将那极其可怕的计划藏在心中,度过了夜的剩余时光。

4.25.9

भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा ।
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ॥ ४.२५.९ ॥

当婆罗多之子怖军(Bhīma)发誓要杀死迦旃迦时,德罗波蒂再次走进了苏提舍娜的住所。

4.25.10

तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः ।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ ४.२५.१० ॥

那一夜过去,黎明时分,迦旃迦起身,前往王宫,对德罗波蒂说了这些话。

4.25.11

यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् ।
न कंचिल्लभसे नाथमभिपन्ना बलीयसा ॥ ४.२५.११ ॥

因为我在国王面前把你打倒,并用脚踢了你;如今你找不到任何保护者,落入了强者之手。

4.25.12

प्रवादेन तु मात्स्यानामयं राजेति चोच्यते ।
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ॥ ४.२५.१२ ॥

世人只是传言称他为摩蹉国之王,实际上我才是摩蹉国之王,也是他们的军队统帅。

4.25.13

सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते ।
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ॥ ४.२५.१३ ॥

你且享受幸福吧,怯懦的人;我将成为你的仆人。怯懦的人,没有你,我不想长久地活下去。

4.25.14

अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते ।
दासीशतं च ते दद्यां दासानामपि चापरम् ॥ ४.२५.१४ ॥

每天,腰肢美丽的女子,我将给你一百尼什卡金。我还会给你一百名婢女和其他仆人。

4.25.15

रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः ।
सुदासानां सहस्रं च महिषाणां सहस्रकम् ॥ ४.२५.१५ ॥

怯懦的人,愿我们结合;还有驾着骡子的车。一千名优良的仆人和一千头水牛。

4.25.16

अन्तःपुरसहस्रं च हेमकूटसहस्रकम् ।
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ॥ ४.२५.१६ ॥

后宫的一千名女子,一千件金顶饰品,我都将给你,还有所有适合国王的衣服。

4.25.17

एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक ।
न ते सखा वा भ्राता वा जानीयात्संगमं मया ॥ ४.२५.१७ ॥

铠迦啊,接受我这句真话:你的朋友或兄弟不可知道你与我的结合。

4.25.18

अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् ।
अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत।
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ॥ ४.२५.१८ ॥

我怕那些著名的乾闼婆的流言;若被人知道,将有大祸和大辱。你对此向我许诺,那么我便听你的支配。

4.25.19

एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे ।
एकोऽहमागमिष्यामि शून्यमावसथं तव ॥ ४.२५.१९ ॥

美腰的女子啊,我会照你说的去做。我将独自前往你空无一人的居所。

4.25.20

समागमार्थं रम्भोरु त्वया मदनदर्पितः ।
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ॥ ४.२५.२० ॥

美如芭蕉之腿的女子啊,为了与你结合,我被欲望迷醉,使那些如太阳般光辉的乾闼婆连你都看不见。

4.25.21

यदेतन्नर्तनागारं मात्स्यराजेन कारितम् ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ॥ ४.२५.२१ ॥

这座由摩特斯亚王建造的舞厅,白天少女在此跳舞,夜晚她们各自回家。

4.25.22

निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते ।
तत्र दोषः परिहृतो भविष्यति न संशयः ॥ ४.२५.२२ ॥

你应在夜里去那里,因为乾闼婆们不知道此事。在那里,过失将被消除,毫无疑问。

4.25.23

एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज ।
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ॥ ४.२५.२३ ॥

你独自在夜里前往舞厅中约定的地方;我将在那里顺从于你,毫无疑问。

4.25.24

तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि ।
एकः सन्नर्तनागारमागमिष्यामि भामिनि।
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ॥ ४.२५.२४ ॥

好吧,善良的女子,我会照你这胆怯者所说的去做。我将独自来到舞厅。美丽的女子,美腰的女子啊,为了结合,我以我的善行起誓。

4.25.25

यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि ।
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम्।
अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ॥ ४.२५.२५ ॥

为使乾达婆不认出你,美貌的女子啊:我真诚地向你保证,你不必害怕乾达婆。今天我就打扮自己,与你相会。

4.25.26

वासांसि च विचित्राणि मनोज्ञानि तवापि च ।
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ॥ ४.२५.२६ ॥

也给你精美多样的衣裳,使你不离弃我;这样我便与你欢愉。

4.25.27

तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम् ।
यन्नानुभूतं भवता जन्मप्रभृति कीचक ॥ ४.२५.२७ ॥

若是如此,御者啊,我将向你展示你自出生以来从未体验过的快乐,迦吉迦啊。

4.25.28

तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह ।
क्षणमात्रं तदभवन्मासेनैव समं नृप ॥ ४.२५.२८ ॥

德罗波蒂与迦吉迦正谈论此事时,大王啊,那一瞬间竟如同一个月那么长。

4.25.29

कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः ।
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ॥ ४.२५.२९ ॥

于是迦吉迦回到家中,极为欢喜;这个愚昧之人没有察觉,那以侍女苏兰陀丽形象出现的正是死神。

4.25.30

गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः ।
अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ॥ ४.२५.३० ॥

他尤其沉迷于香料、饰物和花环,为欲望所迷,急忙装扮起自己。

4.25.31

तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् ।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ ४.२५.३१ ॥

他做那件事时,时间仿佛变得漫长;思念那长眼睛的女子时,也是如此。

4.25.32

आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः ।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ ४.२५.३२ ॥

他的光彩更加盛大,如同油灯熄灭之时,火焰渴望焚烧灯芯。

4.25.33

कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः ।
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ॥ ४.२५.३३ ॥

迦旃迦对她已有把握,被欲望迷惑,思念着那美貌的女子,却不知自己将要陨落。

4.25.34

ततस्तु द्रौपदी गत्वा भीमसेनं महानसे ।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ ४.२५.३४ ॥

于是吉祥的德劳帕蒂来到厨房,走到婆罗多后裔的丈夫毗摩那边站立。

4.25.35

तमुवाच सुकेशान्ता कीचकस्य कृतो मया ।
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ॥ ४.२५.३५ ॥

发丝美丽的她对他说:降伏敌人者啊,正如你所说,我已在舞厅安排了与迦旃迦的相会。

4.25.36

कालेन नियतं बद्धः कामेन च बलात्कृतः ।
शून्यं स नर्तनागारमागमिष्यति कीचकः।
एको निशि महाबाहो कीचकं तं निषूदय ॥ ४.२५.३६ ॥

迦旃迦必定被时机束缚,被欲望强行牵引,将来到空荡的舞厅。大臂者啊,夜里你独自将那迦旃迦诛杀。

4.25.37

तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम् ।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ ४.२५.३७ ॥

昆提之子啊,去舞殿把那因傲慢而自大的御者之子迦吉迦弄得毫无生气吧,般度之子。

4.25.38

गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते ।
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ॥ ४.२५.३८ ॥

那傲慢的御者之子甚至轻视乾闥婆。击者中最优秀的人啊,你无法举起他,就如同无法举起大象一样。

4.25.39

अस्रं दुःखाभिभूताया मम मार्जस्व भारत ।
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ ४.२५.३९ ॥

婆罗多啊,请拭去我被忧伤压倒的泪水。今日显出与你臂力相称的勇武吧。愿你吉祥,护持你自身与家族的荣誉。

4.25.40

स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम् ।
नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥ ४.२५.४० ॥

美腰的女子啊,欢迎你,你为我带来这喜讯。美色的女子啊,我不想要任何人来帮他。

4.25.41

सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे ।
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ॥ ४.२५.४१ ॥

你所告诉我的与迦吉迦相会的喜悦,啊,笑容纯洁的人,正是我杀死希丁巴时所感受到的那份喜悦。

4.25.42

सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते ।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ ४.२५.४२ ॥

实在地,我以兄弟和儿子为证向你起誓:我将杀死迦吉迦,如同诸神之主杀死弗栗多一样。

4.25.43

प्रसह्य निहनिष्यामि केशवः केशिनं यथा ।
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ॥ ४.२५.४३ ॥

正如克舍瓦杀死了克希因,我将以力杀他;无论秘密还是公开,我都要消灭迦吉迦。

4.25.44

अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् ।
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ॥ ४.२५.४४ ॥

善良的女子啊,我将杀死充满欲望的迦吉迦。他的心被欲望所控制,竟想着你这难以得到的人。

4.25.45

अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम् ।
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ॥ ४.२५.४५ ॥

如果他们得知御者之子被我杀死,我将使这座摩差人的居所无人居住。

4.25.46

मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति ।
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्।
कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ॥ ४.२५.४६ ॥

如果我杀死了摩差人而德里塔拉什特拉之子醒来,那么我将杀死难敌及其随从和亲属,获得整个俱卢王国,美丽的女子啊。

4.25.47

नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् ।
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः ।
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ॥ ४.२५.४७ ॥

我无法安抚贡蒂之子坚战。愿贡蒂之子坚战依其所愿侍奉真理;愿其他谦逊奉行达摩的人,也依其所愿侍奉。

4.25.48

त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम् ।
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ॥ ४.२५.४८ ॥

这份悲伤降临在你身上,我无法置之不理。潘遮利啊,通过杀死迦吉迦,你再次安宁吧。

4.25.49

कीचकस्य वधं भीम यदि जानन्ति नागराः ।
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ॥ ४.२५.४९ ॥

婆罗多之子啊,若城民得知杀死吉婆迦的是你,大臂者啊,我便不敢活下去。

4.25.50

कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो ।
निशि गूढं तथा भीम कीचकं तं निपातय ॥ ४.२५.५० ॥

主人啊,为了我,这位国王怎会背离真理?因此,婆罗多之子啊,请在夜里暗中将那吉婆迦打倒。

4.25.51

अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः ।
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ॥ ४.२५.५१ ॥

若昆提之子、法王坚战得知此事,他将与弟弟们一同再次前往森林。

4.25.52

कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत ।
भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ॥ ४.२५.५२ ॥

婆罗多的后裔啊,谁会违背那位志在法道的长兄?婆罗多之子啊,我心中惊惧;请务必谨慎,不要轻率行事。

4.25.53

यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम् ।
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन ।
अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ॥ ४.२५.५३ ॥

请这样行事,使无人知道是你杀了御者之子,居士啊,你这强大的敌人粉碎者。隐身不现,阿林达摩啊,夺走他的性命吧。