摩诃婆罗多 · 章 4.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.26.1
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ॥ ४.२६.१ ॥
善良的女子啊,胆怯的人啊,我会照你说的去做。我在黑暗中隐形,将连同耳环把他抓住。
4.26.2
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः ।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ ४.२६.२ ॥
象踩踏并压碎bilva树一样,我将压碎他的头颅,那个心怀邪恶、渴望得不到之物的吉查卡。
4.26.3
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति ।
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ॥ ४.२६.३ ॥
般遮利啊,我对法王之子所说的,除了愤怒还有什么?谁会不追随国王呢?
4.26.4
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः ।
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ॥ ४.२६.४ ॥
说完这些,那位臂力强大、般度之子的欢喜、充满勇气并具有怖畏般武勇的(怖军)在午夜起身。
4.26.5
अवदातेन मृदुना पटेनाच्छादितस्तथा ।
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ॥ ४.२६.५ ॥
他用柔软的白布遮住身体,让德罗波蒂跟在身后,走向舞厅所在之处。
4.26.6
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् ।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ ४.२६.६ ॥
怖军先行,坐在黑暗之中;如狮子隐伏等候鹿一般,他隐形地等待着吉查卡。
4.26.7
कीचकस्तु शिरःस्नातो निशायां समलंकृतः ।
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ॥ ४.२६.७ ॥
迦吉迦洗过头,夜里盛装打扮,迅速前往约定之处,那座空荡而未闩门的屋子。
4.26.8
तदेव नर्तनागारं पाञ्चाली यदभाषत ।
तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ॥ ४.२६.८ ॥
他被欲望迷惑,前往般遮罗女曾经说话的那个舞厅,以为在约定之处的她是侍女桑德丽。
4.26.9
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम् ।
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ॥ ४.२६.९ ॥
进入舞厅后,他看见那位先到的人中雄牛——骄傲而力量无比的比摩森那。
4.26.10
शयानं शयने तत्र मृत्युं मूढः परामृशत् ।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ॥ ४.२६.१० ॥
那里,躺在床上的死神,因愤怒和对黑公主的侮辱而燃烧——愚昧的迦吉迦触碰了他。
4.26.11
एकान्ते भीममासाद्य कीचकः कालचोदितः ।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ ४.२६.११ ॥
迦吉迦在僻静处走近比摩,被命运驱使,心神因喜悦而激荡,微笑着对他说。
4.26.12
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते ।
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ॥ ४.२६.१२ ॥
"啊,吉祥的女子,啊,笑容纯净的人!我派来的这许多财富是给你的。既然你自己来了,就让这一切都留在你身边吧。"
4.26.13
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः ।
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ॥ ४.२६.१३ ॥
无缘无故,居于家中的女子总是赞美我;对你而言,没有其他与我相似的男子,强壮而且英俊。
4.26.14
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः ।
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः ।
रूपस्य तन्मया प्राप्तं फलं कमललोचने ॥ ४.२६.१४ ॥
我容貌俊美,沐浴后身着华贵饰物;因福运,我总受女子喜爱,令人赏心悦目。莲花眼的女子啊,我已获得了我美貌的这份果实。
4.26.15
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि ॥ ४.२६.१५ ॥
你幸而生得英俊;你幸而自己夸耀自己。
4.26.16
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता ।
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ॥ ४.२६.१६ ॥
你以前从未见过如此具备美德、容貌与品性的女子。看吧,御者之子,你是知道的:片刻之间你就会看到,这位女子是多么有德。
4.26.17
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ ४.२६.१७ ॥
你因欲念会很快停止,而你确实有资格触碰她;这样的接触,你以前从未有过。
4.26.18
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः ।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥ ४.२६.१८ ॥
你懂得接触;你精通爱欲之道。此地没有其他男子像你这样能令女子喜悦。
4.26.19
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः ।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥ ४.२६.१९ ॥
说罢,臂力强大、威勇可怖的婆罗摩之子怖军忽然跃起,俱卢之子笑着说道:
4.26.20
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥ ४.२६.२० ॥
姐姐啊,今日此人如山般的罪人,将被我拖拽在地上,人们将看到他,如同大象被狮子拖拽一般。
4.26.21
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति ।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥ ४.२६.२१ ॥
你被杀之后,女仆(德罗波蒂)将无拘无束地行走,女仆的丈夫们也将永远安逸地生活。
4.26.22
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ ४.२६.२२ ॥
于是他抓住了他那芬芳而佩戴花鬘的头发。
4.26.23
गृहीत्वा कीचकं भीमो विरराज महाबलः ।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ॥ ४.२६.२३ ॥
怖军擒住迦旃迦,大力的他光彩照人,正如渴望吞食的狮子抓住小鹿一般。
4.26.24
स केशेषु परामृष्टो बलेन बलिनां वरः ।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ ४.२६.२४ ॥
被抓住头发的那位强者中的最强者,猛然拽拉头发,将班图之子紧紧抱在臂中。
4.26.25
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः ।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ॥ ४.२६.२५ ॥
两位愤怒的人中雄狮之间爆发了徒手搏斗,如同春天两头强壮的象为争一头雌象而斗。
4.26.26
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च ।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ ४.२६.२६ ॥
卡罗卡斯之首、人中最优者的搏斗,犹如往昔猴中雄狮兄弟波林与须羯哩婆之战。
4.26.27
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ॥ ४.२६.२७ ॥
如两只咆哮的虎,如金翅鸟与蛇相搏而起,努力相当、愤怒相同的婆罗与迦罗迦同时倒下。
4.26.28
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ॥ ४.२६.२८ ॥
如两头发情的醉象咆哮着倒在地上,又如两头践踏蚁冢的公牛,勇力相等。
4.26.29
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ॥ ४.२६.२९ ॥
婆罗略微滑倒,怒气中低着脸站立,此时强大的迦罗迦将婆罗压跪在地上。
4.26.30
पातितो भीमसेनस्तु कीचकेन बलीयसा ।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ ४.२६.३० ॥
被强大的迦罗迦打倒的婆罗目赛那,如被棍棒击中的蛇一般迅速跃起。
4.26.31
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ॥ ४.२६.३१ ॥
二人因竞争和力量的狂妄而昏了头,婆摩与键遮默默地相互拉扯,争求胜利。
4.26.32
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम् ।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ॥ ४.२६.३२ ॥
那时,那座宏伟的殿堂剧烈震颤;二人被愤怒所支配,相互击打。
4.26.33
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली ।
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ॥ ४.२६.३३ ॥
婆摩以手掌击打他的胸膛,然而强大的键遮怒目通红,纹丝不动,一步未退。
4.26.34
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः ।
कीचको भीमसेनेन पश्चात्पश्चादहीयत ॥ ४.२६.३४ ॥
键遮曾暂时承受住这位大丈夫的力量,但在婆摩面前,他一步步地向后退却。
4.26.35
तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ॥ ४.२६.३५ ॥
婆摩见他退却,便以大力抓住他的胸膛,将他揉搓至昏迷。
4.26.36
क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ॥ ४.२६.३६ ॥
狼腹怒火填膺,深深吸了一口气,胜者中的至尊随即又猛烈地抓住他的头发。
4.26.37
गृहीत्वा कीचकं भीमो विरराज महाबलः ।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ॥ ४.२६.३७ ॥
大力的毗摩抓住了迦expected Kīcaka,光彩照人,如老虎为了肉而抓住鹿群的首领。
4.26.38
पुनश्चातिबलस्तत्र कीचको बलदर्पितः ।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ॥ ४.२६.३८ ॥
那位臂力强大、自恃力量的迦吉遮,再次在那里不可战胜地与敏捷的般度之子毗摩搏斗。
4.26.39
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम् ।
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ॥ ४.२६.३९ ॥
被毗摩犀那的拳头重重击中头部,迦吉遮血红的双眼翻白,断气倒在地上。
4.26.40
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् ।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ॥ ४.२६.४० ॥
将所有肢体彻底碾碎,把带着耳环的面孔、双手、双脚、头和颈都挤进了身体里。
4.26.41
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ॥ ४.२६.४१ ॥
然后他把全身肢体都被揉碎的他,变成了一团肉块。
4.26.42
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली ।
कष्णायै दर्शयामास भीमसेनो महाबलः ॥ ४.२६.४२ ॥
在那里,大力的毗摩犀那亲自点燃了由双手摩擦而生的火,并把它展示给黑公主看。
4.26.43
उवाच च महातेजा द्रौपदीं योषितां वराम् ।
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम्।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ॥ ४.२६.४३ ॥
毗耶娑之弟子曰:大光明的怖军对女中之最的德罗波蒂说:“般遮莉,来看他。这个极度贪恋你、罪人且奸人妻妾的色鬼,已被我杀死。”
4.26.44
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् ।
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा।
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ॥ ४.२६.४४ ॥
毗耶娑之弟子曰:“美发的女子啊,那些渴望你的人就像这样睡去。胆怯的女子啊,这位迦遮卡就像那个用脚踢你、把你推倒在地的人一样躺着,有德的吉祥女子啊。”
4.26.45
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा ।
विज्ञापनार्थमन्येषां विरराम महाहवम् ॥ ४.२६.४५ ॥
毗耶娑之弟子曰:如此说罢,那大臂者便停止了那场大战,为了让其他人知道被乾达婆所杀者的事。
4.26.46
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम् ।
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ॥ ४.२६.४६ ॥
毗耶娑之弟子曰:如此杀死迦遮卡,消除了愤怒,向德罗波蒂告别之后,便迅速走向厨房。
4.26.47
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम् ।
सुखोपविष्टः शयने भीमो भीमपराक्रमः ॥ ४.२६.४७ ॥
毗耶娑之弟子曰:沐浴、涂抹香膏、满足了心愿之后,威猛的怖军舒适地坐在床榻上。
4.26.48
ततः कृष्णा यदा मेने गतं भीमं महानसम् ।
कीचकं घातयित्वा च द्रौपदी योषितां वरा।
प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ॥ ४.२६.४८ ॥
此时,黑天(德罗波蒂)以为怖军已去厨房,并已使迦吉迦被杀,女中之最的德罗波蒂欣喜,摆脱了恐惧,对议事厅的守卫说道。
4.26.49
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम ।
परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ॥ ४.२६.४९ ॥
迦吉迦被我的乾达婆丈夫杀死,躺在那里,他因渴求他人之妻而焦灼。你们来看吧。
4.26.50
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ॥ ४.२६.५० ॥
他们听了她的话,舞厅的守卫立刻站起,都拿起火把。
4.26.51
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः ।
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम्।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ ४.२६.५१ ॥
迦吉迦的兄弟们听说迦吉迦被杀,便前往那屋,看见迦吉迦被打倒在地,没有了生命,浑身沾满鲜血。
4.26.52
पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ॥ ४.२६.५२ ॥
他们看见(迦吉迦)没有脚跟、手和头,感到惊讶。
4.26.53
क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् ।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ॥ ४.२६.५३ ॥
“他的脖子在哪里?脚在哪里?手在哪里?头在哪里?眼睛在哪里?”他们这样查看;此时他已被一位乾达婆杀死。
4.26.54
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् ।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ॥ ४.२६.५४ ॥
此事非人力所能为;见他倒地,众人皆惊愕不已,凝望着他。