Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.27.1

तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ॥ ४.२७.१ ॥

此时,他所有的亲属都聚集在那里,看到迦阇死去,便痛哭起来,将他围住站立。

4.27.2

सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।
तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥ ४.२७.२ ॥

众人毛发竖立、惊恐万分地看着迦阇,他全身骨骼碎裂,如同被拖上陆地的乌龟。

4.27.3

पोथितं भीमसेनेन महेन्द्रेणेव दानवम् ।
कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ॥ ४.२७.३ ॥

迦阇被毗摩森那打得粉碎,犹如因陀罗击碎檀那婆;他因力量而狂妄,任何人都无法战胜。

4.27.4

गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् ।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ ४.२७.४ ॥

听闻人中之牛迦阇被乾闼婆所杀,他们想为他举行葬礼,便开始将他抬到外面去。

4.27.5

अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः ।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ ४.२७.५ ॥

当时聚集在那里的御者之子,从不远处看见身体完美无瑕的黑公主抱着一根柱子站立。

4.27.6

समागतेषु सूतेषु तानुवाचोपकीचकः ।
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ॥ ४.२७.६ ॥

御者们聚集之后,邬波迦阇对他们说话,仿佛在嘲笑,满怀愤怒,目光仿佛要将他们烧尽。

4.27.7

हन्यतां शीघ्रमसती यत्कृते कीचको हतः ।
अथवा नैव हन्तव्या दह्यतां कामिना सह ॥ ४.२७.७ ॥

那个因她而使迦遮卡被杀的淫妇,应立即处死。或者不必杀她,让她与那贪欲者一同焚烧。

4.27.8

मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ।
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ॥ ४.२७.८ ॥

即便对已死之人,也应当全力做他所喜欢的事,对于御者之子更是如此。这个行为恶劣的女人,是我兄长的敌人。

4.27.9

यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति ।
सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् ।
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ॥ ४.२७.९ ॥

因她而死的人,她不配活着。御者们啊,禀告国王后将她焚烧;即便是被乾达婆所杀的迦遮卡,也会因此而高兴。

4.27.10

ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन् ।
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ॥ ४.२७.१० ॥

于是御者们走近毗罗吒,合掌说道:「迦遮卡在此被能随意变化形体的乾达婆杀死,躺卧于此。」

4.27.11

सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया ।
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ॥ ४.२७.११ ॥

他在夜里被那位侍女所杀。让我们与她一同焚烧他吧。英雄啊,你曾尊重我们,所以应当允许此事。

4.27.12

पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ॥ ४.२७.१२ ॥

国王知晓御者们的勇力,便允许将侍女与御者之子一同焚烧。

4.27.13

ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ॥ ४.२७.१३ ॥

于是,得到允许后,在场的所有亲属见到迦企迦便痛哭起来,四面环绕着他站立。

4.27.14

आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च ।
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ॥ ४.२७.१४ ॥

把黑天女与迦企迦放在一起,用头发和双脚捆绑她;那些御者也看着黑天女,对她说了这些话。

4.27.15

यस्याः कृते।़यं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु ।
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ॥ ४.२७.१५ ॥

这位大德因她而被杀,因此让她走迦企迦的路吧;与不可抵挡的迦企迦一同失去生命,让这位美人升入天界。

4.27.16

सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च ।
अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा ।
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ॥ ४.२७.१६ ॥

他将黑天女绑在床上。她荣耀而心志高远,本性之高贵远胜于那无耻而将死之人;黑天女哭泣起来,在恶人掌握中无能为力,就在那张华美的床上哀哭,这位身姿美好的女子。

4.27.17

ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता ।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ ४.२७.१७ ॥

此时,被御者之子带走的黑天女,腰肢美好、无可指责、贞洁,渴望有一位保护者,大声呼喊起来。

4.27.18

मृतेन सह बद्धाङ्गी निराशा जीविते तदा ।
श्मशानाभिमुखं नीता करेणुरिव रौति सा ॥ ४.२७.१८ ॥

她与死者缚在一起,对生命已绝望,被带往火葬场,像母象一样哀号。

4.27.19

जयो जयेशो विजयो जयत्सेनो जयद्बलः ।
त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ ४.२७.१९ ॥

胜、胜主、毗阇耶、胜军、胜力——愿他们认出我的声音;御者之子正带我走。

4.27.20

येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् ।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ ४.२७.२० ॥

鼓声雷鸣、弓弦震响远扬的那些人——愿他们认出我的声音;御者之子正带我走。

4.27.21

येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ॥ ४.२७.२१ ॥

在战场上,弓弦击打的轰鸣如雷霆般巨大而可怖——那些迅捷勇士的。

4.27.22

रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् ।
ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ॥ ४.२७.२२ ॥

还有乾达婆迅捷战车那强劲的轰鸣——愿他们认出我的声音;御者之子正带我走。

4.27.23

येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः ।
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ॥ ४.२७.२३ ॥

他们的勇武无与伦比,力量与荣誉如同因陀罗——愿那些王中最优秀的雄狮认出我这个深感悲痛的人。

4.27.24

इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः ।
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ॥ ४.२७.२४ ॥

毗摩听到黑天女(德罗波蒂)这些可怜的话语与哀叹,不加思索便从床上起身。

4.27.25

अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः ।
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ॥ ४.२७.२५ ॥

哎,赛兰德丽,我听到了你所说的话。因此,你永远不必畏惧御者之子。

4.27.26

इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ॥ ४.२७.२६ ॥

说完这些,这位大臂者伸展身体,渴望杀戮。

4.27.27

ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च ।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ ४.२७.२७ ॥

随后,他把一块长布系好裹在身上,不从门出,而是跳跃而出,当时便走到了外面。

4.27.28

स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् ।
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ ४.२७.२८ ॥

他跨过城墙,迅速爬上一棵树,朝着钦迦们所去的火葬场走去。

4.27.29

स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् ।
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ॥ ४.२७.२९ ॥

他跨过城墙,离开这座卓越的城市,毗摩疾速跃起,出现在御者们面前。

4.27.30

चितासमीपं गत्वा स तत्रापश्यन्महाबलः ।
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ॥ ४.२७.३० ॥

这位大力者走近火葬柴堆,在那里看到一棵高如棕榈、树干粗大、顶端枯萎的树。

4.27.31

तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च ।
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ॥ ४.२७.३१ ॥

如象般走近它,用双臂紧紧抱住,威猛无比的毗摩拔起了那棵树。

4.27.32

ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ॥ ४.२७.३२ ॥

于是他把那棵长十寻的树弄得没有叶子。

4.27.33

तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः ।
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः ॥ ४.२७.३३ ॥

他举起那棵庞大的树,挥舞旋转,迅速抓住,像手持棒杖的死神一样扑向御者们。

4.27.34

ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।
भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ॥ ४.२७.३४ ॥

由于他双腿的猛力,榕树、菩提树和紫铆树倒在地上,折断了,躺在那里。

4.27.35

तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।
वित्रेसुश्च तदा सूता विपादभयपीडिताः ॥ ४.२७.३५ ॥

见那位愤怒如狮的乾闼婆走来,御者们在忧愁与恐惧的折磨下战栗起来。

4.27.36

तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः ।
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः।
परस्परमथोचुस्ते विषादभयमोहिताः ॥ ४.२७.३६ ॥

他们看到他如死神般愤怒,对乾达婆心存疑惧,想要焚烧长兄,被忧惧所迷,彼此说道。

4.27.37

गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् ।
प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः।
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ॥ ४.२७.३७ ॥

“强大的乾达婆愤怒地举起了一棵树。光辉如太阳的大福德乾达婆们已经醒来。立即释放赛兰德丽,巨大的恐惧已降临到我们身上。”

4.27.38

ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ॥ ४.२७.३८ ॥

他们看见毗摩森纳挥舞的树木,惊恐万分,放开德劳帕蒂,朝城市奔逃。

4.27.39

द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव ।
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ॥ ४.२७.३९ ॥

他看见逃跑的人们,如持金刚者注视檀那婆一般,毗摩跃起,站在逃跑者的前面。

4.27.40

ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ॥ ४.२७.४० ॥

他们看见他,惊恐不安,呆立不动。

4.27.41

दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव ।
एकेनैव प्रहारेण दश सप्त च विंशतिम्।
अष्टादश च पञ्चाशञ्जघान स वृकोदरः ॥ ४.२७.४१ ॥

他看见成百上千的人,如持金刚者注视檀那婆一般,那狼腹者一击之下便击倒了十人、七人、二十人、十八人和五十人。

4.27.42

शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ।
वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली।
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ॥ ४.२७.४२ ॥

诸王之主啊!风之子、强大的毗摩以一棵树将一百零五人送往阎摩之居所。这位与风速同等、光辉的英雄,将所有御者无一遗漏地斩杀。

4.27.43

तान्निहत्य महाबाहुर्भीमसेनो महाबलः ।
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ॥ ४.२७.४३ ॥

毗摩森那长臂大力,将他们杀尽之后,随即为黑天女解开束缚,并加以安慰。

4.27.44

उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः ।
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ॥ ४.२७.४४ ॥

婆罗多族的雄牛狼腹扶起泪流满面、惊恐不已的般遮罗女,以温和的话语对她说道。

4.27.45

मा खिदस्त्वं याज्ञसेनि पातिव्रत्यव्रते स्थिता ।
पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः ॥ ४.२७.४५ ॥

耶若塞娜之女啊,不要悲伤;你坚守对丈夫忠贞的誓愿。坚守贞节的女子应当始终守护自己的誓愿。

4.27.46

पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः ।
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ॥ ४.२७.४६ ॥

往昔,提婆罗多之妻,女子中的明珠、忠于丈夫,曾被一个化为其夫之形的罗刹劫走。

4.27.47

कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः ।
तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ॥ ४.२७.४७ ॥

罗刹将她安置在某湖的岸边,随即舍弃了丈夫的形貌,化为极其可怖的罗刹。

4.27.48

साम्ना दानेन भेदेन सा यदा नान्वमन्यत ।
तदा तां पातयित्वा स मैथुनायोपचक्रमे ॥ ४.२७.४८ ॥

当他以怀柔、赠礼与离间之法都无法使她应允时,他便将她推倒,着手行淫。

4.27.49

ततः सा धैर्यमास्थाय विवरं त ददौ तदा ।
ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ॥ ४.२७.४९ ॥

于是她镇定下来,在那时给了他一个机会。随后他拔出剑来,恐吓那位贞洁的女子。

4.27.50

साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता ।
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ॥ ४.२७.५० ॥

她也抛弃了恐惧,决意舍弃性命,这位专心守贞的贤妇向黑天发下誓愿。

4.27.51

आराधितो यदि मया भर्ता मे दैवतं महत् ।
कर्मणा मनसा वाचा गुरवस्तोषिता मया।
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ॥ ४.२७.५१ ॥

若我以行为、心念与言语侍奉了我的夫君——我的至高神祇,并使长辈欢喜,那么凭着这份真实,愿我的身体今日化为坚石。

4.27.52

एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत् ।
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ॥ ४.२७.५२ ॥

她如此发誓之后,她的阴部便化为石头;而脐与膝之间的一切,全都化成了石头。

4.27.53

ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ॥ ४.२७.५३ ॥

随后他举起剑,猛力砍下了她的头。

4.27.54

जया नाम सखी साऽभूत्पार्वत्या नखमांसवत् ।
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ॥ ॥ ४.२७.५४ ॥

名叫耶娅的那位女子是帕尔瓦蒂的伴侣,如同指甲与血肉。因此守贞的妻子苦少乐多。

4.27.55

एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः ।
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ॥ ४.२७.५५ ॥

凡伤害你的人都会这样被杀,怯懦的女子啊。克里希那啊,去城里吧,你无所畏惧。

4.27.56

अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् ।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ।
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ॥ ४.२७.५६ ॥

你快走另一条路去苏德什那的住处,我则走另一条路去毗罗吒的厨房,以免夜里有人认出我们两人。我们就这样安排好。

4.27.57

साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ।
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा । ॥ ४.२७.५७ ॥

得到毗摩安慰的贞洁克里希那进了城。完成任务后,这位吉相的女子走进了苏德什那的住处。

4.27.58

शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ।
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः। ॥ ४.२७.५८ ॥

正如那罗沙被诅咒后,舍质进入了天界,同样,武勇无量、强大、摧毁敌人的毗摩也前往了那里。

4.27.59

सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ।
निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव। ॥ ४.२७.५९ ॥

那里,法子的弟弟杀死了所有那些迦旃迦;彻底歼灭迦旃迦,正如罗摩歼灭夜行的罗刹。

4.27.60

जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ।
पञ्चाधिकं शतं तत्र निहतं तेन भारत। ॥ ४.२७.६० ॥

战胜了敌人的、意志不屈的他随即进入了城中。婆罗多的后裔啊,那里被他杀死的有一百零五人。

4.27.61

महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ।
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः। ॥ ४.२७.६१ ॥

如同被砍伐、树木倒下的大森林,他们横躺着。国王啊,就这样,迦吉迦的一百零五名随从被杀。

4.27.62

स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ।
न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः । ॥ ४.२७.६२ ॥

他是统帅、御者;这是六百名御者的一群。因畏惧健达缚,迦吉迦的亲属们什么也不敢说。

4.27.63

अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ।
विराटनगरे चापि सर्वे मात्स्याः समागताः । ॥ ४.२७.६३ ॥

因恐惧而连看她一眼都不敢,在毗罗吒城中,所有摩差人也都聚集了。

4.27.64

काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ।
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः। ॥ ४.२७.६४ ॥

清晨,他们看到这五百名御者被杀。看到这大奇事,男人、女人和城中居民(都惊愕不已)。

4.27.65

विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ ४.२७.६५ ॥

陷入极大的惊异之中,他们什么也没说。婆罗多的后裔啊!