Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.3.1

एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् ।
विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह ॥ ४.३.१ ॥

他如此自我介绍之后,因忧苦而发出灼热的叹息,从眼中流下泪水,对毗摩森那说道。

4.3.2

भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि ।
हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने ॥ ४.३.२ ॥

毗摩森那啊,你在摩差国将如何行事?你曾在香醉山上杀死那些受愤怒支配的人。

4.3.3

यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात् ।
प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि ॥ ४.३.३ ॥

你以勇力制服了怒目通红的夜叉和罗刹,又为般遮罗之女献上了许多莲花。

4.3.4

बकं राक्षसराजानं भीषणं पुरुषादकम् ।
जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम।
क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता ॥ ४.३.४ ॥

贡蒂之子啊,降敌者啊,你为了一位婆罗门杀死了可怖的食人罗刹王牟卢,使一轮城变得安全无惧。

4.3.5

हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम् ।
त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् ॥ ४.३.५ ॥

大臂者啊,你杀死了威力巨大的希丁巴和罗刹基尔米罗,使这片森林没有了荆棘。

4.3.6

आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी ।
जटासुरवधं कृत्वा वयं च परिमोक्षिताः ॥ ४.३.६ ॥

当笑容美丽的德罗波蒂也陷入灾难之时,你杀死了遮吒苏罗,使我们获得解脱。

4.3.7

मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः ।
वृकोदर विराटस्य बलीयान्दुर्बलीयसः।
समीपे नगरे तस्य वत्स्यसे केन कर्मणा ॥ ४.३.७ ॥

孩子啊,在摩差王身边,你充满勇力、极易愤怒的狼腹(Vṛkodara),你比毗罗吒更强大却显得弱小,将以何种职业住在他的城中?

4.3.8

सूदोऽहं वललो नाम्ना सूपकारो नराधिप ।
उपस्थास्यामि राजानं विराटमिति रोचये ॥ ४.३.८ ॥

君主啊,我名叫跋罗(Vallabha),是一名厨师。我认为应当侍奉毗罗吒王。

4.3.9

रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा ।
सूपांश्चापि करिष्यामि कुशलोस्मि महानसे ॥ ४.३.९ ॥

我将烹制各种美味的饭食,甘甜可口的菜肴,也做汤羹;我在厨房里很是精通。

4.3.10

कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः ।
तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ॥ ४.३.१० ॥

即便是他那些训练有素的厨师先前所做的菜肴,我也将超越它们,使他欢喜。

4.3.11

पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् ।
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति ॥ ४.३.११ ॥

摩差王品尝了这道他从未尝过、由他所做、滋味浓郁的美味菜肴,必将欢喜。

4.3.12

आहरिष्यामि दारूणां पाटितानां शतंशतम् ।
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति ॥ ४.३.१२ ॥

我将搬来成百上千的劈好的木柴;царь见到我的功绩,便不会轻视我了。

4.3.13

ये च तस्य महामल्लाः समरेष्वपराजिताः ।
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ॥ ४.३.१३ ॥

还有他的那些在战场上从未被击败、屡次展现勇武、深受国王信任的大力士——

4.3.14

रङ्गोपजीविनः सर्वे परेषां च भयावहाः ।
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ॥ ४.३.१४ ॥

凡以竞技场谋生、使敌人恐惧的人,我都将杀死,使国王欢喜。

4.3.15

न च तान्युध्यमानोऽहं नयिष्ये यमसादनम् ।
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः ॥ ४.३.१५ ॥

与他们交战时,我不会把他们送往阎摩之所;我会将他们打倒,使他们如病人般活着。

4.3.16

वृषो वा महिषो वापि नागो वा षाष्टिहायनः ।
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः ॥ ४.३.१६ ॥

公牛、水牛,或六十岁的象,狮子或老虎——都必须擒获,此事毫无疑问。

4.3.17

तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान् ।
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः ॥ ४.३.१७ ॥

这些令他人难以擒住、如毒蛇之毒的人,我都要在摩差国王面前以力擒获。

4.3.18

आरालिका वा सूदा वा येऽस्य युक्ता महानसे ।
तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा ॥ ४.३.१८ ॥

在他的厨房中任职的厨师与炊事人员——我将以盗贼的行径来取悦这些人。

4.3.19

आरालिको गोविकर्ता सूपकर्ता नियोधकः ।
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ॥ ४.३.१९ ॥

我是厨师、切肉者、做汤者,也是摔跤手;我会对人们说,我曾是坚战的仆人。

4.3.20

आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते ।
इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा।
विराटनगरे च्छन्नो विराटस्य समीपतः ॥ ४.३.२० ॥

人主啊,我将自我保护而行走;此事已经约定。我将隐匿于毗罗吒城中,就在毗罗吒的身边游走。

4.3.21

अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत ।
महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे ॥ ४.३.२१ ॥

火神化作婆罗门,乔装前来乞求食物。阿周那啊,在khāṇḍava中,救我这大食的婆罗门吧。

4.3.22

संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह ।
तस्मै ब्राह्मणरूपाय हुताशाय महायशाः ।
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥ ४.३.२२ ॥

听说那位行法之心、大名远扬的人,为化作婆罗门的火神而做了那件事:以一辆战车战胜因陀罗,杀死蛇族与罗刹。

4.3.23

यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् ।
स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति ॥ ४.३.२३ ॥

那位以一辆战车战胜诸天与众人的人——持可怖之弓、驾白马的般度子——如今将做什么呢?

4.3.24

आशीविषसमस्पर्शो नागानामिव वासुकिः ।
दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव ॥ ४.३.२४ ॥

其触碰如毒蛇一般,如那伽中的婆苏吉;如诸蛇中的目光带毒者,如诸光明者中的火。

4.3.25

समुद्र इव सिन्धूनां शैलानां हिमवानिव ।
महेन्द्र इव देवानां दानवानां बलिर्यथा ॥ ४.३.२५ ॥

如诸河中的大海,诸山中的喜马拉雅,诸天中的摩訶因陀罗,诸达那婆中的毗卢遮那(即婆梨)。

4.3.26

सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा ।
कुबेर इव यक्षाणां मृगाणां केसरी यथा ॥ ४.३.२६ ॥

如象王中的善伏象,驾乘之马中的良马,夜叉中的俱毗罗,兽中的狮子。

4.3.27

राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः ।
रुद्राणामिव कापाली विष्णुर्बलवतामिव ॥ ४.३.२७ ॥

如罗刹中的十首王,阿修罗中的商跋罗,楼陀罗中的持颅者,有力者中的毗湿奴。

4.3.28

रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः ।
वायुवेगबलोद्धृतो गरुडः पततामिव ॥ ४.३.२८ ॥

充满愤怒与不甘的德叉迦在蛇中,乘风之速力而腾起的迦噜达在飞禽中。

4.3.29

तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा ।
ह्रदानामिव पातालं पर्जन्यो नर्दतामिव ॥ ४.३.२९ ॥

如光耀者中的太阳,众生中的婆罗门,湖泊中的地底(帕塔拉),轰鸣者中的云雨神(帕尔詹亚)。

4.3.30

आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः ।
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा ॥ ४.३.३० ॥

如兵器中最上的金刚杵,牛群中最上的峰牛,蛇中的持国,象中的爱罗婆多。

4.3.31

पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ।
गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः।
ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा ॥ ४.३.३१ ॥

子是亲人中最亲者,妻是朋友中最好者。山中之首是须弥,神中之首是摩图苏陀那;星宿之首是月,如湖泊中之摩那娑。

4.3.32

यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर । ॥ ४.३.३२ ॥

如这些各在其类中特出,啊,狼腹者。

4.3.33

सोयमिन्द्रादनवमो वासुदेवाच्च भारत ।
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि।
ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः ॥ ४.३.३३ ॥

他不逊于因陀罗,也不逊于婆苏提婆,啊,婆罗多。在千眼因陀罗的住所居住五年,专心于梵行之誓,成为一切持兵者中最优秀的。

4.3.34

अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः ।
क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः ॥ ४.३.३४ ॥

他获得了武器;精通武器,无所不知,为众人所敬重。迅捷、精微、奇妙而确定(于发射之时);是言说者中最优秀的。

4.3.35

अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् ।
धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च ॥ ४.३.३५ ॥

得到诸神之主(因陀罗)的允许,他再次返回大地,为了消灭持国之子,为了般度之子的胜利。

4.3.36

यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् ।
वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः ॥ ४.३.३६ ॥

我以为他是阿底提耶中的第十二位楼陀罗,第十三位(阿底提耶);是诸婆苏中的第九位,诸山中被认为是第八位。

4.3.37

यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ ।
दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा। ॥ ४.३.३७ ॥

其长而等的双臂,右与左,因弓弦之击而结茧,如牛之臂。

4.3.38

तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ ।
पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ ॥ ४.३.३८ ॥

掌与指成形,有皮套之痕,如象王之鼻,丰厚,似铁闩,掌软而呈赤铜色,吉祥。

4.3.39

श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ।
गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः ॥ ४.३.३९ ॥

黑而年轻、发卷、可观之般度子,持甘狄拔弓,白马,戴冠,猴旗。

4.3.40

किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः ।
बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः ।
कुन्तीपुत्रो विराटस्य रमते केन कर्मणा ॥ ४.३.४० ॥

化何形,行何事,何举止,依何为?畏惧者、持可怖弓之阿周那将作何事?昆提之子于毗罗吒处以何事为乐?

4.3.41

इमौ किणीकृतौ बाहू ज्याघाततलपीडनात् ।
नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे ॥ ४.३.४१ ॥

此二臂因弓弦之击与掌之压而结茧,我常以袖遮之,否则不能掩藏。

4.3.42

किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् ॥ ४.३.४२ ॥

然因事之所需,我将行此卑劣之事。

4.3.43

बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ ।
ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे ॥ ४.३.४३ ॥

婆罗多族之最,我的双臂带着大伤痕,因弓弦的击打而变得粗大;除此之外我无法将其掩盖。

4.3.44

उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके ।
वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ॥ ४.३.४४ ॥

戴上两只贝壳手镯,佩戴闪亮的耳环,把头发编成辫子,我将成为布利哈纳拉。

4.3.45

पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः ।
प्रजानां समुदाचारं बहुनर्मकृतं वदन् ।
रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् ॥ ४.३.४५ ॥

以女子的姿态反复诵读名为“阿启耶依迦”的故事,讲述民众的习俗和许多玩笑话,我将使国王和内宫的其他人欢喜。

4.3.46

नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः ॥ ४.३.४६ ॥

大王,我将在毗罗吒城教导妇女舞蹈、歌唱、乐器以及种种天界的技艺。

4.3.47

स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः ।
छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना ॥ ४.३.४७ ॥

诸王之主,我将以女子的举止,凭借舞蹈、歌唱和故事,以自身的幻术遮掩自己。

4.3.48

युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका ।
उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता ॥ ४.३.४८ ॥

我将说:“我曾在这位坚战的家中做德罗波蒂的侍女”;连法王也会认可此言。

4.3.49

उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम् ।
शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात्।
इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ ४.३.४९ ॥

大王啊,因乌尔瓦希的诅咒,我成了阉人。蒙因陀罗恩典,十三年之后我将摆脱此状。这是我所立的誓言;我将如此漫游。

4.3.50

एतेन विधिना छन्नः कृतकेन यथा नलः ।
विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् ॥ ४.३.५० ॥

众王之主啊,如那罗陀以伪装隐匿,我也如此隐蔽,将在毗罗吒的城中安乐居住。

4.3.51

वासुदेवसमो लोके यशसा विक्रमेण च ।
सोयं राज्ये विराटस्य भवने भरतर्षभः ॥ ४.३.५१ ॥

此人在世间的名声与勇力与婆苏提婆相等,这位婆罗多族之牛,将住在毗罗吒的王国与宫殿之中。

4.3.52

मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना ।
आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं ॥ ४.३.५२ ॥

如同被持金刚杵之拳遮掩的弥卢山,你将居住;自称“我是阉人”——此誓言实为罪过。