Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.30.1

ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा ।
चिरमन्तर्मना भूत्वा इदमाह सभासदः ॥ ४.३०.१ ॥

于是国王难敌听了他们的话,良久默然沉思,然后对众位大臣说道。

4.30.2

अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः ।
तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ॥ ४.३०.२ ॥

事情的真正走向实在难以确知。所以你们都去查访,看看般度五子究竟去了何处。

4.30.3

अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च ।
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥ ४.३०.३ ॥

在这第十三年隐匿的日子里,他们的时间大多已过去,所剩已经不多。

4.30.4

अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः ।
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥ ४.३०.४ ॥

般度五子或许已度过了这一年的余下时日;他们的期限已满,因为他们恪守真实的誓言。

4.30.5

क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः ।
दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥ ४.३०.५ ॥

他们个个如同流淌着发情之液的大象,又如毒蛇一般;因悲痛,他们必定会对俱卢族怒火中烧。

4.30.6

विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया ।
निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ॥ ४.३०.६ ॥

人中之主应当通过周密的推理来查明,借助精明、有智慧、能干且隐藏得很好的密探。

4.30.7

अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः ।
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥ ४.३०.७ ॥

在未知的时间被认出,采取困苦的形态,战胜愤怒,他们应当再次进入森林,同样长的时间。

4.30.8

तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम् ।
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥ ४.३०.८ ॥

因此你们要迅速搜寻,使王国长久不朽、无二元之扰、安定、无敌。

4.30.9

दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना ।
ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ॥ ४.३०.९ ॥

杜尔约达那极为悲伤地如此说完后,迦尔纳便说了一番与真理、法和利相连的话。

4.30.10

एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत ।
शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ॥ ४.३०.१० ॥

婆罗多啊,这些人不要再去,让别人去——行动迅速、合格、精明、隐秘行走的人。

4.30.11

चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् ।
तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ॥ ४.३०.११ ॥

让他们游历各个繁荣、人口众多的国家;在那里的愉快集会中,以婆罗门之形态出现的成就之人。

4.30.12

परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च ।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ ४.३०.१२ ॥

人主啊,行走于隐秘之中的般度之子,应当在河流的水道、圣渡口和各种矿场中寻找。

4.30.13

नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च ।
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥ ४.३०.१३ ॥

在河边树丛中,在圣渡口,在村庄和城市中,在可爱的修行处,在山上和洞穴中。

4.30.14

विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया ।
विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ॥ ४.३०.१४ ॥

人主啊,应当以精细推断去识别他们,由专心于此、十分熟练、为通晓此道者所认可的各类人来进行。

4.30.15

अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः ।
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥ ४.३०.१५ ॥

于是,紧接长兄出生、一心为兄长谋求喜爱与利益的难敌之弟(Duḥśāsana)在那里对兄长说道。

4.30.16

येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप ।
ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ॥ ४.३०.१६ ॥

国王啊,人主啊,让我们所信任的那些间谍去吧,那些已经派遣、且应当派遣的人,再去彻底搜寻他们。

4.30.17

यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् ।
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ॥ ४.३०.१७ ॥

王中之王啊,请考虑迦尔纳所说的一切;如所指示,让所有间谍四处寻找。

4.30.18

घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ४.३०.१८ ॥

牲畜以嗅觉知觉;最优秀的再生者则以吠陀知觉。国王以间谍知觉,其他人则以眼睛知觉。

4.30.19

यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः ।
एते चान्ये च बहवो देशांश्च नगराणि च ॥ ४.३०.१९ ॥

如前所说,让那些密探一次又一次地搜寻;他们和许多其他人,在各国和各城之中搜寻。

4.30.20

न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते ।
अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ॥ ४.३०.२० ॥

他们的去向、住处和消息都无从找到。他们或者完全隐匿,或者已经渡到了波涛汹涌的大海的彼岸。

4.30.21

व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः ।
द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ॥ ४.३०.२१ ॥

或者那些自以为勇敢的人,在大森林里被猛兽吞食,或者抵达了遥远的岛屿,或者隐藏在山中险峻的林地里。

4.30.22

हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः ।
अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥ ४.३०.२२ ॥

他们失去了骄傲,陷入绝望,或许已被罗刹吞噬;或者到达了某个险恶之地,在无尽的岁月中已经灭亡。

4.30.23

तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च ।
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ॥ ४.३०.२३ ॥

因此,人主啊,保持心境不乱,克制自己,以极大的热忱去做你认为应当做的事。