Vedyatra वेदयात्रा
Search

Mahābhārata · Adhyāya 4.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

4.33.1

ततस्तेषां महाराज तत्रैवामिततेजसाम् ।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ ४.३३.१ ॥

Then, O great king, there, of those immeasurably brilliant, great-souled Pāṇḍavas who had entered in disguise…

4.33.2

व्यतीतः समयः सम्यग्विराटनगरे सताम् ।
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ॥ ४.३३.२ ॥

The time passed well in the city of Virāṭa for those virtuous ones, while they performed the tasks of King Virāṭa.

4.33.3

कीचके तु हते राजा विराटः परवीरहा ।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥ ४.३३.३ ॥

When Kīcaka had been slain, King Virāṭa, slayer of enemy heroes, bestowed the highest honor upon Yudhiṣṭhira, son of Kuntī.

4.33.4

ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत ।
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ ४.३३.४ ॥

Then, O Bhārata, at the end of the thirteenth year, Suśarman forcibly seized a great herd of cattle.

4.33.5

ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत् ।
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः।
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ॥ ४.३३.५ ॥

Then a great sound arose, and dust touched the sky; there was the roar of conches and kettledrums, the mighty blare of war-drums, and the tumult of cattle, horses, chariots, elephants and foot soldiers.

4.33.6

एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने ।
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ॥ ४.३३.६ ॥

Thus, as they came forth and the Trigartas were seizing King Matsya's herd, the cowherds resisted them.

4.33.7

अथ त्रिगर्ता बहवः परिगृह्य धनं बहु ।
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत।
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ॥ ४.३३.७ ॥

Then the Trigartas, seizing much wealth and many herds, surrounded them with swift horses and troops of chariots, and, O Bhārata, resolved on victory, fought the cowherds in battle.

4.33.8

ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः ।
गोपाला गोकुले भक्ता वारयामासुरोजसा ॥ ४.३३.८ ॥

Struck by many with spears and javelins in hand, the cowherds, devoted to the cattle-pen, held them back with force.

4.33.9

परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः ।
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ॥ ४.३३.९ ॥

With axes, clubs, slings, and maces, and with various goads, the cowherds struck the horses on every side.

4.33.10

ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः ।
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ॥ ४.३३.१० ॥

Struck and enraged, the Trigarta chariot-warriors let loose a shower of arrows and forcibly put the cowherds to flight.

4.33.11

हन्यमानेषु गोपेषु विमुखेषु विशांपते ।
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ॥ ४.३३.११ ॥

When the cowherds, struck down, had turned away, O lord of men, then the young men, terrified, gasping, and covered with dust, fled.

4.33.12

जवेन महता चैव गोपालाः पुरमाव्रजन् ।
विराटनगरं प्राप्य नरा राजानमब्रुवन् ॥ ४.३३.१२ ॥

With great speed the cowherds went to the city; reaching the city of Virāṭa, the men spoke to the king.

4.33.13

सभायां राजशार्दूलमासीनं पाण्डवैः सह ।
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ॥ ४.३३.१३ ॥

In the assembly hall, the tiger among kings sat with the Pāṇḍavas, surrounded by heroic warriors wearing earrings and armlets.

4.33.14

सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् ।
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ॥ ४.३३.१४ ॥

Seeing him surrounded by worthy men, learned men and counselors, the cowherds quickly spoke these words to Virāṭa.

4.33.15

अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् ।
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ।
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ॥ ४.३३.१५ ॥

Having defeated us in battle and humbled us together with our kinsmen, the Trigartas are driving off sixty thousand cows. Turn them back, O lord of kings, lest your cattle be lost.

4.33.16

श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः ।
स राजा महतीं सेनां मात्स्यानां समवाहयत्।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ ४.३३.१६ ॥

Hearing their words, that subduer of enemies sent forth the great army of the Matsyas, crowded with chariots, elephants and horses, thronged with foot soldiers and banners.

4.33.17

राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे ।
भानुमन्ति विवातानि सूपसेव्यानि भागशः ॥ ४.३३.१७ ॥

Then the kings and princes put on their armour, shining, impenetrable, well kept, portioned out as needed.

4.33.18

पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ॥ ४.३३.१८ ॥

Golden-harnessed horses were yoked separately to the chariots; and the heroes, loosening the tethers of their bowstrings, fitted them to the bows.

4.33.19

दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ ४.३३.१९ ॥

Śatānīka, the beloved brother of Virāṭa, brought a firm coat of mail with an iron core, made of heated gold.

4.33.20

सर्वभारसहं वर्म कल्याणपटलं दृढम् ।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥ ४.३३.२० ॥

Madirākṣa, the younger brother of Śatānīka, brought a firm armour, able to bear every burden, with a beautiful layering of plates.

4.33.21

उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च ।
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ॥ ४.३३.२१ ॥

Sūryadatta brought the one on whose height were a hundred lotuses and saugandhika flowers, its edges bordered with polished gold.

4.33.22

दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम् ।
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ ४.३३.२२ ॥

The heroic eldest son of Virāṭa, Śaṅkha, brought a firm white armour with an iron core, adorned with gold.

4.33.23

शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् ।
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ ४.३३.२३ ॥

The king of the Matsyas brought an armour with a hundred suns, a hundred whorls, a hundred dots and a hundred eyes, nearly impenetrable.

4.33.24

ततो नानातनुत्राणि स्वानिस्वानि महाबलाः ।
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ॥ ४.३३.२४ ॥

Then the mighty warriors, eager to fight, godlike strikers, each put on his own distinct armour.

4.33.25

सोपस्करेषु शुभ्रेषु महत्सु च महारथाः ।
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥ ४.३३.२५ ॥

On bright, great chariots fitted with their gear, the great charioteers separately yoked horses in golden armour.

4.33.26

सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते ।
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ॥ ४.३३.२६ ॥

On the chariot was raised the great banner of the king of the Matsyas, gleaming like sun and moon, adorned with jewels and gold.

4.33.27

ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः ।
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ ४.३३.२७ ॥

The heroic kshatriyas fixed on their chariots, each according to his own, golden banners of many shapes, garlanded with gold.

4.33.28

रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् ।
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ॥ ४.३३.२८ ॥

While the chariots were being yoked, Kanka said to the king: "I have obtained from the best of sages the weapons of the fourfold kind."

4.33.29

दंशितो रथमास्थाय पदं निर्याम्यहं गवाम् ।
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ॥ ४.३३.२९ ॥

Armoured and mounted on my chariot, I set out toward the cattle; and, sinless one, look, the mighty Śara and Valala are visible here.

4.33.30

गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः ।
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ॥ ४.३३.३० ॥

Yoke the count of the cattle and the horses' harness onto the chariots; in my view, by this means they will never fight for the cows.

4.33.31

अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् ।
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ॥ ४.३३.३१ ॥

Then the king of the Matsyas spoke to Śatānīka, his younger brother: Kaṅka, Vallala, the cook, and the mighty Dāmagranthi as well.

4.33.32

तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः ।
शूराः सुवीराः पुरुषा नागराजवरोपमाः ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ ४.३३.३२ ॥

Tantripāla and Gosaṅkhya as well — like you, bulls among men, heroes and valiant warriors, like the finest of royal elephants — will fight; this is my judgment, and there is no doubt in it.

4.33.33

एतेपामपि दीयन्तां रथा ध्वजपताकिनः ।
कवचानि विचित्राणि दृढानि च लघूनि च ॥ ४.३३.३३ ॥

Let chariots with banners and pennants be given to these as well, and variegated armor, strong yet light.

4.33.34

प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ॥ ४.३३.३४ ॥

Let them put armor on their bodies, and let weapons be given too; my firm judgment is that these men should never fail to fight.

4.33.35

तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः ।
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ॥ ४.३३.३५ ॥

Having heard the king's words, Śatānīka, with a hurried mind, O king, quickly ordered chariots to be assigned to the Pāṇḍavas.

4.33.36

सहदेवाय राज्ञे च भीमाय नकुलाय च ।
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ॥ ४.३३.३६ ॥

And for Sahadeva, the king (Yudhiṣṭhira), Bhīma and Nakula. Seeing them, the charioteers, moved by loyalty to the king, suddenly hurried forward.

4.33.37

निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन् ।
कवचानि विचित्राणि नवानि च दृढानि च ॥ ४.३३.३७ ॥

Directed by the lord of men, the charioteers swiftly yoked the chariots, and (readied) variegated, new and strong armours.

4.33.38

विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम् ।
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ॥ ४.३३.३८ ॥

Having put on their bodies those (armours) that Virāṭa had given to those of unwearied deeds, those great charioteers stood equipped.

4.33.39

तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः ।
रथान्हेमपरिष्कारान्समास्थाय महारथाः।
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ॥ ४.३३.३९ ॥

Swift, in disguised forms, skilled in all weapons, those great charioteers the Pāṇḍavas, mounted on chariots adorned with gold, set out gladdened and armoured, O best of kings.

4.33.40

विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः ।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ ४.३३.४० ॥

The four valiant brothers, the Pāṇḍavas, bulls of the Kurus of true valour, together followed Virāṭa from behind.

4.33.41

दीर्घानां च दृढानां च धनुषां ते यथाबलम् ।
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ॥ ४.३३.४१ ॥

Those heroes, according to their strength, drew out the loops of the bowstrings of their long and strong bows and fitted them onto the bows.

4.33.42

ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः ।
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ॥ ४.३३.४२ ॥

Then all the heroes, finely clad and smeared with sandal, urged on by the king, swiftly drove the horses forward.

4.33.43

ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः ।
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ॥ ४.३३.४३ ॥

The great horses, covered with gold and well trained to draw, urged on, were seen like rows of birds.

4.33.44

भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः ।
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ॥ ४.३३.४४ ॥

The elephants, terrible in form, with temples and faces flowing with rut, were well mounted by the chief mahouts skilled in battle.

4.33.45

क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः ।
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ॥ ४.३३.४५ ॥

Like dripping clouds, with fine tusks, sixty years old, they followed the king behind, moving like mountains.

4.33.46

दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् ।
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ॥ ४.३३.४६ ॥

That vanguard of Virāṭa's army, filled with men of firm weapons and crowded with chariots, horses and elephants, then shone like Indra's.

4.33.47

तं प्रयान्तं महाराज निनीषन्तं गवां पदम् ।
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ॥ ४.३३.४७ ॥

O great king, O lord of men, then the skilled and excellent vaiśyas saw him setting out, wishing to lead away the place of the cattle.

4.33.48

विंशतिस्तु सहस्राणि नराणामनुयायिनाम् ।
अष्टौ रथसहस्राणि दश नागशतानि च ।
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ॥ ४.३३.४८ ॥

Twenty thousand men as followers, eight thousand chariots, a thousand elephants and twenty thousand horses: the Matsya army went swiftly.

4.33.49

तदनीकं विराटस्य शुशुभेऽतीव भारत ।
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ॥ ४.३३.४९ ॥

O Bhārata, that army of Virāṭa shone exceedingly, like a forest rich with many flowers in spring, variegated in colour.