Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.35.1

तमसाऽभिप्लुते लोके रजसा चैव भारत ।
व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ॥ ४.३५.१ ॥

婆罗多啊!当世界被黑暗与尘土笼罩时,列阵的军队停滞了片刻,战士们蓄势待发。

4.35.2

ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः ।
कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ॥ ४.३५.२ ॥

于是月亮升起,驱散黑暗,使夜晚清明,并在战场上照见刹帝利战士。

4.35.3

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत ।
घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ॥ ४.३५.३ ॥

随后光明到来,战斗再次开始,他们互相看见了对方可怕的模样。

4.35.4

तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति ।
गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ॥ ४.३५.४ ॥

同样,他们愤怒而喧嚣的军队互相冲杀,手持铁棍、刀剑、长刀、斧头以及尖锐且磨光锋刃的长矛。

4.35.5

बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा ।
प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ॥ ४.३५.५ ॥

然而特里伽尔塔之主苏舍尔曼王以其军队击溃了摩差人的全部军队,征服并压迫了摩差人,随即冲向威猛的毗罗吒。

4.35.6

मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ ।
सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ॥ ४.३५.६ ॥

那二人如同狂暴的公牛,如同因发情而傲慢的大象,如同擒象的两头狮子,如同因陀罗与弗栗多,怒气冲天。

4.35.7

उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ ।
उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ॥ ४.३५.७ ॥

二人力量与锐气相当,勇武相当,发射兵器相当,都精通战斗。

4.35.8

तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी ।
आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ॥ ४.३५.८ ॥

二人分别杀死了双方的前马与后御者,两人都是同样的强弓手,凶猛如黑天与刚萨。

4.35.9

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा ।
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥ ४.३५.९ ॥

于是,三伽陀国王苏沙尔曼与其兄弟苏伐尔曼率领一群战车,从四面八方冲向摩差国王。

4.35.10

ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ ।
गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ॥ ४.३५.१० ॥

于是两位兄弟,刹帝利中的雄牛,从战车上跃下,手持铁杵,怒不可遏,疾速冲去。

4.35.11

सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी ।
विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ॥ ४.३५.११ ॥

苏沙尔曼——敌方英雄的杀手,强大而勇猛,手持铁杵——活捉了失去战车的摩差国王。

4.35.12

तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः ।
स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ॥ ४.३५.१२ ॥

如同情人抱起少女一般,威猛非凡的苏沙尔曼将他抓起举起,放上自己的战车,然后离去。

4.35.13

तस्मिन्गृहीते विरथे विराटे बलवत्तरे ।
बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ॥ ४.३५.१३ ॥

当更为强大的毗罗吒失去战车被擒之时,他的全军溃散,失去勇气与希望。

4.35.14

प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे ।
विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ॥ ४.३५.१४ ॥

在战斗中被三摩竭人压迫的摩蹉人因恐惧而逃;他们四散奔逃,向各个方向跑去。

4.35.15

तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः ।
अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ॥ ४.३५.१५ ॥

当他们被驱散之时,贡提之子、心地正直的坚战对制服敌人的怖军说道。

4.35.16

मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा ।
तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ॥ ४.३५.१६ ॥

摩蹉王被三摩竭人苏舍尔曼擒住了。噢,臂力强大者,救出他;不要让他落入敌人之手。

4.35.17

भीमसेनः महाबाहो गृहीतं तु सुशर्मणा ।
त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ॥ ४.३५.१७ ॥

噢,怖军,噢,臂力强大者!我们所爱的国王已被苏舍尔曼擒获。请迅速保护并救出他。

4.35.18

उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः ।
भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ॥ ४.३५.१८ ॥

我们都在此幸福地生活,并且在各种愿望上都得到了极好的礼遇。怖军啊,你必须偿还这份恩情。

4.35.19

तं तथावादिनं तत्र भीमसेनो महाबलः ।
अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ॥ ४.३५.१९ ॥

那位大力、难以抵挡的怖军,便在战场中央向如此说话的坚战开口。

4.35.20

अहमेनं परित्रास्ये शासनात्तव पार्थिव ।
पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ॥ ४.३५.२० ॥

大王,依您的命令,我将保护他。请看我与敌人交战时所作的这番大事。

4.35.21

स्वबाहुबलमाश्रित्य परेषामसमं रणे ।
एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ॥ ४.३५.२१ ॥

大王,依靠自己的臂力,在战场上为敌人所无法比拟,您应与诸兄弟一同独自待在一处。

4.35.22

अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः ।
अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ॥ ४.३५.२२ ॥

这棵大枝繁茂、高如山岳的森林之王,我将攀上它,把敌人碾碎。

4.35.23

तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् ।
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥ ४.३५.२३ ॥

法王坚战看着那棵树,如同狂象一般的怖军,对他这位勇士兄弟说道。

4.35.24

भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ॥ ४.३५.२४ ॥

怖军,不要行事冒失,让这棵树就站在那里吧。

4.35.25

मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् ।
जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥ ४.३५.२५ ॥

婆罗多啊,不要让人们看见你用树木做出超人的举动,从而认出这是怖军。

4.35.26

मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद ।
कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ॥ ४.३५.२६ ॥

你不要抓住这棵树,也不要发出狮吼;人们必定会凭你的行为和狮吼认出你。

4.35.27

इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव ।
वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ॥ ४.३५.२७ ॥

你拿着这棵树,不要冲向这支军队;人们看见你用树木击碎敌人,必定会认出你。

4.35.28

अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम् ।
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ॥ ४.३५.२८ ॥

另取一件兵器,以人的样子出现——或弓,或矛,或剑,或战斧。

4.35.29

यदेव मानुषं भीम भवेदन्यैरलक्षितम् ।
तदेवायुधमादाय मोचयाशु महीतिम् ॥ ४.३५.२९ ॥

怖军啊,取那件别人看不出来的人用兵器,迅速阻止这支军队的进攻。

4.35.30

यमौ च चक्ररक्षौ ते भवितारौ महाबलौ ।
व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ॥ ४.३५.३० ॥

你的两位孪生兄弟将成为大力的车轮护卫;当你在战场上努力保护摩差国王时。

4.35.31

भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च ।
चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ॥ ४.३५.३१ ॥

毗摩听从兄长之言,放下树木,拿起弓,般度之子登上战车前来。

4.35.32

व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः ।
तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ॥ ४.३५.३२ ॥

他如载水的云般降下箭雨;那时毗摩向行事可怖的苏摩尔曼冲去。

4.35.33

विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ॥ ४.३५.३३ ॥

他望着毗罗吒,说道:“站住,站住!”

4.35.34

सुशर्मा चिन्तयामास कालान्तकयमोपमम् ।
तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ॥ ४.३५.३४ ॥

苏尸摩尔曼心想:这位如死神与阎摩的最好的战车手,正从后面喊着“站住,站住!”

4.35.35

पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् ।
परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ॥ ४.३५.३५ ॥

众人观看之际,那一场大事与大战降临了;苏尸摩尔曼拿起弓,与他的兄弟们转身回击。

4.35.36

निमेषान्तरमात्रेण भीमसेनेन ते रथाः ।
रथानां च गजानां च वाजिनां च ससादिनां ॥ ४.३५.३६ ॥

瞬息之间,毗摩森那使他们的战车、象与马,连同骑手……

4.35.37

सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् ।
पातिता भीमसेनेन विराटस्य समीपतः ॥ ४.३५.३७ ॥

在毘罗吒附近,怖军成群地击倒了成百上千的勇猛持弓英雄。

4.35.38

पत्तयो निहतास्तेषां गदां गृह्य महात्मना ॥ ४.३५.३८ ॥

这位大德持起铁棒,杀死了他们的步兵。

4.35.39

तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः ।
चिन्तयामास मनसा किं शेषं हि बलस्य मे ॥ ४.३५.३९ ॥

苏沙尔曼见到如此激战,因战斗的狂傲而心神激荡,心中思忖:我的军队还剩下什么?

4.35.40

अपरो दृश्यते सैन्ये पुरा मग्नो महाबले ।
आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ॥ ४.३५.४० ॥

啊,大力者!军中又见到一人,他先前已被淹没;此时他拉满弓至耳边,再次出现。

4.35.41

सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ॥ ४.३५.४१ ॥

苏沙尔曼一再发射锐利的箭矢。

4.35.42

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् ।
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥ ४.३५.४२ ॥

于是他们众人一齐策马,施展天神的兵器,愤怒地向三国之军冲去。

4.35.43

तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ ४.३५.४३ ॥

众Pāṇḍava见彼等战车回转,便与那支大军交战。毗罗吒之子大怒,作战极为奇异。

4.35.44

त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः ।
तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः ।
वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ॥ ४.३५.४४ ॥

Trigarta众欲求胜,一齐冲杀而战。持械者中最优秀的Bhīmasena对他们怒不可遏。毗罗吒之子大怒,作战极为奇异。

4.35.45

सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥ ४.३५.४५ ॥

Kuntī之子国王Yudhiṣṭhira派出千人;Nakula也以箭矢派出七百人。

4.35.46

शतानि त्रीणि शूराणां सहदेवः प्रतापवान् ।
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ ४.३५.४६ ॥

威勇的Sahadeva奉Yudhiṣṭhira之命,与三百勇士击杀(敌军);他是人中之牛。

4.35.47

प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः ।
क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ॥ ४.३५.४७ ॥

大力者(Bhīma)冲入Trigarta的大军,震慑一切众生,如狮子惊吓小鹿。

4.35.48

ततो युधिष्ठिरो राजा त्वरमाणो महाबलः ।
अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ॥ ४.३५.४८ ॥

于是大力的国王Yudhiṣṭhira急速前进,冲向Suśarman,以箭矢将其重重射伤。

4.35.49

सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् ।
अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ ४.३५.४९ ॥

苏沙尔曼也极度愤怒,急速冲向坚战,以十支箭射他,又以四支箭射他的四匹马。

4.35.50

ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः ।
समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ॥ ४.३५.५० ॥

于是,大王,行动迅捷的贡蒂之子狼腹(毗摩)靠近苏沙尔曼,将他的马击倒。

4.35.51

पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः ।
अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ॥ ४.३५.५१ ॥

随后,他以至上之箭杀死苏沙尔曼的两名后卫,又怒而将其御者从车台上推落。

4.35.52

चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः ।
स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ॥ ४.३५.५२ ॥

然而名叫首那首娃(Śoṇāśva)的车轮护卫勇士,见到失去战车的特里伽尔塔(苏沙尔曼),便因恐惧而高声呼喊。

4.35.53

ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः ।
गदामस्य परामृश्य तमेवाभ्यहनद्बली ॥ ४.३५.५३ ॥

于是毗罗吒跳下战车,夺过苏沙尔曼的狼牙棒,有力地用它击打苏沙尔曼本人。

4.35.54

स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥ ४.३५.५४ ॥

他手持狼牙棒往来奔走,虽已年老,却如少年一般。

4.35.55

भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् ।
उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च।
सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ॥ ४.३५.५५ ॥

勇猛如毗湿摩的毗摩从自己的战车上跳下,迅猛跃起,落在苏沙尔曼的战车上,待那正在作战的人喘息之后,抓住了他的头。

4.35.56

अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा ।
ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ॥ ४.३५.५६ ॥

如同狮子从山顶抛下小鹿,又如猫跃起,怒而抓住老鼠的头。

4.35.57

समुद्यम्य तु रोषात्तं निष्पिपेष महीतले ।
यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ ४.३५.५७ ॥

他怒而将其举起,狠狠摔碎于地;那大臂者正在他将要哀号之时,击中了他的头。

4.35.58

तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः ॥ ४.३५.५८ ॥

毗摩击其膝,又以前臂击之;那国王被上好的打击所折磨,昏厥过去。

4.35.59

तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे ।
अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ॥ ४.३५.५९ ॥

当那位特里迦尔塔的大车手英雄被擒后,特里迦尔塔的全军因恐惧而溃散。

4.35.60

निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः ।
अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥ ४.३५.६० ॥

于是般度的大车手诸子转回所有牛群,击败苏沙尔曼,取尽所有财物而归。

4.35.61

स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः ।
विराटस्य महात्मानः परिक्लेशविनाशनाः।
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ॥ ४.३५.६१ ॥

他们凭自身臂力而强盛,知羞耻,持守誓愿,是毗罗吒的伟大之人,能除去苦难;他们都站在面前。于是毗摩说道。

4.35.62

नायं पापसमाचारो मत्तो जीवितुमर्हति ।
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
गले गृहीत्वा राजानमानीय विवशं वशम् ॥ ४.३५.६२ ॥

这作恶之人不配从我手中活命。国王一向仁慈,我还能怎样呢?我抓住他的咽喉,把无助的国王制服——

4.35.63

तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः ।
रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ॥ ४.३५.६३ ॥

于是,普利塔之子狼腹(毗摩)将挣扎的他捆住,把满身尘土、昏迷不醒的他放上战车。

4.35.64

अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् ।
दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ॥ ४.३५.६४ ॥

毗摩走到站在战阵中央的坚战面前,把人主苏沙尔曼展示给他看。

4.35.65

प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् ।
तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ॥ ४.३५.६५ ॥

人中之虎对光耀战阵的毗摩说道。国王见到他便笑了,说:“放了这个最卑劣的人吧。”

4.35.66

एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ ४.३५.६६ ॥

被如此说后,毗摩对大力的苏沙尔曼说道:“愚人啊,你若想活命,就听我说的理由。”

4.35.67

दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ ४.३५.६७ ॥

你须在集会与议会中说:「我是奴隶。」如此,我便赦你性命;这是战胜者的定制。

4.35.68

तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः ।
मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ॥ ४.३५.६८ ॥

于是长兄以温和的话对他说:「放了他,放了这个行为卑劣的人,若我们是你的准绳。」

4.35.69

दासभावं गतो ह्येष विराटस्य महीपतेः ।
अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ॥ ४.३५.६९ ॥

此人已沦为毗罗吒王的奴仆。你不是奴隶,走吧,你已获释。切勿再做这样的事。

4.35.70

एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः ।
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ॥ ४.३५.७० ॥

听罢此言,苏沙尔曼羞愧地低头而立。获释之后,他走近国王,行礼致敬,然后离去。

4.35.71

विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः ।
स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः ।
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥ ४.३५.७१ ॥

释放苏沙尔曼之后,般度五子诛灭了敌人,凭借自己臂膀之力而强盛,不屈于卑贱的服役,坚守誓愿,在战场中央安然度过了那一夜。