摩诃婆罗多 · 章 4.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.38.1
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः ।
गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ॥ ४.३८.१ ॥
在众位长者面前,尤其是在女人们之中,牛群的监管者then对毗罗吒之子说道。
4.38.2
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम् ।
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ ४.३८.२ ॥
在女人们中间有人对他说了增益其威名的话,他便在内宫自夸道出了这些话。
4.38.3
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् ।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥ ४.३८.३ ॥
今天我这位执弓坚定的人,若有一位善于驾驭马匹的御者,就会追寻牛群的足迹。
4.38.4
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् ।
पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ॥ ४.३८.४ ॥
我尚未找到与我相当的御者。请快为我已套好的战车找一位御者,我即将出发。
4.38.5
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ॥ ४.३८.५ ॥
二十八个夜晚,或至多一个月——在那场发生的大战中,我的御者被杀了。
4.38.6
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि ।
त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ॥ ४.३८.६ ॥
若我能在战场上找到一位能做我御者的人,我今天便急速出发,高扬我的大旗。
4.38.7
विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ॥ ४.३८.७ ॥
我将冲入那满是象、马和车的敌军,以武器之威战胜失去力量的俱卢族人,夺回牛群。
4.38.8
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम् ।
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥ ४.३८.८ ॥
难敌、毗迦尔纳、毗迦尔坦之子迦尔纳、克利巴,以及与其子同来的德罗纳——这些聚集于此的大弓箭手。
4.38.9
विद्रावयित्वा संग्रामे दानवान्मघवानिव ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥ ४.३८.९ ॥
如因陀罗在战斗中击溃达那婆,我将在这一刻之间再次夺回牛群。
4.38.10
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् ।
किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ॥ ४.३८.१० ॥
得知城中空虚,俱卢族人正带着牛群财富离去。既然我不在那里,他们还有什么做不到的呢?
4.38.11
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः ।
किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ॥ ४.३८.११ ॥
愿聚集于此的俱卢族人今日见我之勇。他人岂不会以为我便是普利塔之子阿周那本人吗?
4.38.12
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् ।
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥ ४.३८.१२ ॥
般遮罗公主听到他的话,又听到他在妇女面前自夸,便无法忍受对毗跋蹉(阿周那)的赞美。
4.38.13
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम् ।
अतीतसमये काले प्रियां भार्यामभाषत ॥ ४.३८.१३ ॥
阿周那听了优多罗所说的那番话,回想起往昔的时光,便对他心爱的妻子说道。
4.38.14
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् ।
सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् ।
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ॥ ४.३८.१४ ॥
阿周那欢喜地在私下对般遮罗公主、德行兼备的克里希纳说道,她以美貌受人敬重,具有真实与正直的美德,一心为丈夫的喜乐与利益着想,而阿周那通晓一切事理。
4.38.15
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ॥ ४.३८.१५ ॥
般遮罗女啊,你笑容纯净,快快前去告诉优多罗。
4.38.16
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः ।
सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला।
महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ॥ ४.३८.१६ ॥
往昔在坎达瓦之战中,她曾是般度之子、左右开弓的帕尔陀的御者。若布禅那罗在战中为御者,必将大获全胜。
4.38.17
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता ।
पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ॥ ४.३८.१७ ॥
于是,阿周那催促之下,那位笑容纯净的般遮罗女来到了优多罗的住处。
4.38.18
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव ।
युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ॥ ४.३८.१८ ॥
得知坚守法、立于真实与正直之道的坚战,已从约定之期中解脱,如同月亮从罗睺之口中释放出来。
4.38.19
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना ।
उत्तरामाह वचनं सखीमध्ये विलासिनीम् ॥ ४.३८.१९ ॥
克利须那(德劳帕蒂)不堪忍受那份痛苦,以莲花般的眼睛,在众侍女之中对优多罗(优雅者)说了这些话。
4.38.20
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत ।
पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ॥ ४.३८.२० ॥
这位年轻人如象群之主,人们称他为“我是布里哈恩纳拉”。我想他从前曾是帕尔塔(阿周那)的御者,那时他是弓箭手中的第一人。
4.38.21
एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् ।
सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ॥ ४.३८.२१ ॥
当时,阿周那与这位御者一同征服了一切众生,包括诸神、乾闼婆、大阿修罗和蛇族;这位英勇者还使火神希兰亚列塔斯得到了满足。
4.38.22
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् ।
संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः ॥ ४.३८.२२ ॥
我甚至知道他在战斗中的结局,也知道他深入敌方英雄之中时的勇武。那位英勇者手持缰绳、拿起弓,站在战车上,向前驰去。
4.38.23
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः ।
धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ॥ ४.३८.२३ ॥
若布里哈恩纳拉是乌塔拉的御者,那么即使一切众生、诸神与达那婆,甚至所有聚集的俱卢人,也绝不能夺走你的财富,因为布里哈恩纳拉是一位弓箭手。
4.38.24
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः ।
सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ॥ ४.३८.२४ ॥
他在射术上不逊于任何人,是那位大德者(阿周那)的弟子。我在般度族的宫中行走时,曾经清楚地见过他。
4.38.25
स चानेन सहायेन खाण्डवं चादहत्पुरा ।
अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ॥ ४.३८.२५ ॥
他与此伙伴曾焚烧了坎达瓦森林,那时阿周那的良马由他控制。
4.38.26
तेन सारथिना पार्थः सर्वभूतानि सर्वशः ।
अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ॥ ४.३८.२६ ॥
与这位御者一起,般度之子在坎达瓦-普拉斯塔彻底征服了一切众生;的确,没有另一位像他那样的御者。
4.38.27
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत् ।
अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ॥ ४.३८.२७ ॥
于是乌塔拉与赛兰德里一起对她的兄弟说:'英雄,快向布利哈南纳拉请求让她来做御者。'
4.38.28
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते ।
सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ॥ ४.३८.२८ ॥
'她精通驾车、舞蹈以及歌唱与器乐。'极有智慧的赛兰德里赞美布利哈南纳拉,如此说道。
4.38.29
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम् ।
सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति ॥ ४.३८.२९ ॥
'赛兰德里,你知道我的誓愿:我不与阉割之人交谈。因此,吉祥的人啊,我自己不能对布利哈南纳拉说:“把马给我。”'
4.38.30
भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः ।
यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः ।
इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ॥ ४.३८.३० ॥
'然而,恐惧之时到来,既无誓愿也无非誓愿;智者应当做适宜之事以渡过困厄。精通法者如此说;因此应当与布利哈南纳拉交谈。'
4.38.31
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी ।
अस्यास्तु वचनं वीर करिष्यति न संशयः ॥ ४.३८.३१ ॥
这位纤腰美丽的少女,你的幼妹,英雄啊,她必定会听从她的话,毫无疑问。
4.38.32
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः ।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥ ४.३८.३२ ॥
若她做你的御者,战胜所有俱卢并夺得牛群,必定能够凯旋,毫无疑问。
4.38.33
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत ।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ॥ ४.३८.३३ ॥
萨兰德里如此说后,他对妹妹说:'肢体无瑕的女子啊,你去把那位布里汉纳拉带来。'
4.38.34
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी ।
भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता ॥ ४.३८.३४ ॥
那位佩戴金色花环、受长兄派遣的光荣女子,听了兄长的命令便飞奔而去;她眉目秀美,面容吉祥,身佩黄金与钻石。
4.38.35
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता ।
प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ॥ ४.३८.३५ ॥
佩戴钻石、珍珠、宝石与黄金耳环,步履轻柔,受兄长之命驱使;身姿右转婀娜,发髻高挽,面如莲花,眼如莲瓣般修长。
4.38.36
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी ।
सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ॥ ४.३८.३६ ॥
那纤腰匀称、目光温柔而深邃的马特亚王之女,婀娜多姿,睫毛卷曲,向舞厅走去,如同承载百湖的云朵。
4.38.37
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या ।
आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ॥ ४.३८.३७ ॥
她无可指摘,大腿匀称如象鼻,腰肢纤细如祭坛,手持华美花环,走到阿周那身前站定,光彩照人,如同母象站在公象身旁。
4.38.38
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ॥ ४.३८.३८ ॥
看见她走来,长长的红眼睛,阿周那在适当的时候对她说话。
4.38.39
किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु ।
किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि ॥ ४.३८.३९ ॥
美好肢体的女子啊,你为何戴着金色花环而来?你似乎有些匆忙。美眉的女子啊,你的脸为何不欢欣?美丽的女子啊,甜美微笑的女子啊,快快告诉我。
4.38.40
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी ।
प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे ॥ ४.३८.४० ॥
她佩戴钻石与青金石雕成的耳环,芬芳如盛开的莲花与青莲,面容如清朗的明月,这位少女对阿周那说道。
4.38.41
हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले ।
सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ॥ ४.३८.४१ ॥
布利哈娜啊,俱卢人正在夺走我父亲的财富,成千上万的牛。快拦住我哥哥的马,趁别人把牛赶得更远之前。
4.38.42
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः ।
अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ॥ ४.३८.४२ ॥
布利哈南拉,桑兰德丽告诉我,你精通驾驭战车与马匹。若你不去,我必死,此无疑问,因为我已选定了你。
4.38.43
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः ।
उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ॥ ४.३८.४३ ॥
王女如此吩咐,人中之杰、普利塔之子达南迦耶心中欢喜,以温和吉祥的声音对那位面容秀美、牙齿洁白、笑容纯净的女子说道。
4.38.44
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा ।
इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि।
न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ॥ ४.३८.४४ ॥
无论你想去哪里,微笑甜美的人啊,我都会去,或投入熊熊烈火。肢体秀美的人啊,我甚至愿为你付出生命。美丽的人啊,今天我该为你做什么喜悦之事?心爱的人,因我的缘故,你不会看见那座城——阎摩,亡灵之主的大恐怖之地。
4.38.45
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम् ।
बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ॥ ४.३८.४५ ॥
说完这些,库鲁英雄中最杰出者,面容以布利哈南拉之相装饰,从那位优雅、牙齿洁白、笑容纯净的女子身边走向毗罗吒之子。
4.38.46
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम् ।
गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ॥ ४.३८.४६ ॥
他这样前行,身佩华美饰物,光辉灿烂,如象群之首领。臂如象王,目如莲花般修长,胸如门板,肩膀高耸。
4.38.47
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम् ।
वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ॥ ४.३८.४७ ॥
毗罗吒之子乌陀罗见到般度之子阿周那——这位摧敌者、大力者,如狂象般走来——便呼唤大宝(Bṛhannalā),想要驱赶牛群,说道:
4.38.48
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् ।
अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ॥ ४.३८.४८ ॥
他疾速走来,如发情的象;大眼的她跟随着他,如母象跟随公象。
4.38.49
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत ।
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ ४.३८.४९ ॥
王子远远看见,便说道:“有你为御者,般度之子在坎陀婆林中满足了火神。”
4.38.50
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः ।
सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ॥ ४.३८.५० ॥
贡蒂之子持财(Dhanañjaya)征服了整个大地。侍女桑兰陀丽(Sairandhrī)向我谈起你;她确实认识般度五子。
4.38.51
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः ।
सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ॥ ४.३८.५१ ॥
因陀罗之御者、以勇武著称的英雄摩多梨;伟大的遮摩陀耆尼(Paraśurāma,持斧罗摩)之御者,以及毗湿奴之御者达嚕迦(Dāruka)。
4.38.52
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः ।
सर्वे सारथयः ख्याता न बृहन्नलया समाः ॥ ४.३८.५२ ॥
达舍罗陀之子的御者苏曼特罗,或太阳的御者阿伦那,这些御者都享有盛名,然而没有一人能与大舞女相比。
4.38.53
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै ।
आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले ॥ ४.३८.५३ ॥
被赛兰陀利如此告知,我便召你前来。大舞女啊,你既被我召唤,就随我去作战吧。
4.38.54
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः ।
तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ॥ ४.३८.५४ ॥
被库卢人夺去的牛群越走越远。大舞女被如此询问后,便对王子这样答道。
4.38.55
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि ।
नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् ।
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ॥ ४.३८.५५ ॥
我哪有能力在战阵前为你驾车?舞蹈、歌唱或各种乐器,这些我会做。愿你吉祥;可我又怎能做御者呢?
4.38.56
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत् ।
अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके ॥ ४.३८.५६ ॥
无论你是舞者还是歌者,快穿上闪亮的铠甲吧。人们常谈论你英勇的事迹,今天我身边的女子也在称赞它们。
4.38.57
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत् ।
अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् ॥ ४.३८.५७ ॥
说罢,王子中最优秀的乌达罗微笑着赞扬了阿周那。随后,乌达罗拿起那件镶饰金饰、带有百目纹样的、闪耀的波罗奢婆(pārśava)铠甲。
4.38.58
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने ।
तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ॥ ४.३८.५८ ॥
于是毗罗吒之子乌达罗亲自把(铠甲)交给了杀戮敌方英雄的布里哈南纳拉。遵照他的命令,这位勇士接过了它,仿佛并不情愿。
4.38.59
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः ।
अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ॥ ४.३८.५९ ॥
若战斗中有勇气,且能够杀死敌人,那么无论你去哪里,朋友,我都将跟随你。
4.38.60
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु ।
उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ॥ ४.३८.६० ॥
于是这位制服敌人的般度之子,尽管洞悉一切,仍在优多罗面前做了许多戏谑的举动。
4.38.61
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत् ।
ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ॥ ४.३८.६१ ॥
他拿起时,女人们笑了起来,因为铠甲是倒扣的。英雄中的翘楚稳住了它。随后这位杀敌者拉过那件倾斜、倒扣的铠甲穿上。
4.38.62
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः ।
ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ॥ ४.३८.६२ ॥
他虽然完全明白,却仿佛毫不知情,作为所有俱卢勇士中的翘楚,更为英勇的财征(阿周那)将铠甲向上抛起,又重新举起。
4.38.63
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे ।
तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ॥ ४.३८.६३ ॥
当他做出许多这样的事情时,少女和年轻女子都笑了起来;然而,即使令敌人痛苦的财征这样做着,优多罗也未能胜过他。
4.38.64
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा ।
कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ॥ ४.३८.६४ ॥
王子亲自穿上了那件镶着金边的华美铠甲,它如同在火中烧炼过的金属,明亮耀眼,闪耀着千道光芒。
4.38.65
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान् ।
सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ॥ ४.३८.६५ ॥
随后,他迅速察看,在婆阇耶陀罗的战车上安置了覆盖着金网的马匹,网间套有金饰,又在车上竖立了金色的狮子标志。
4.38.66
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून् ।
आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ॥ ४.३८.६६ ॥
他又在战车的底板上放置了奇妙的弓、许多美丽的箭以及其他武器。
4.38.67
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः ।
अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ॥ ४.३८.६७ ॥
英雄登上战车出发,以布利哈塔纳拉为御者。那时,乌达罗和众少女以及他的伙伴也都开口说道。
4.38.68
बृहन्नले आनयेथा वासांसि रुचिराणि नः ।
पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च ।
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ ४.३८.६८ ॥
布利哈塔纳拉啊,请为我们带来华美的衣裳,并为般遮离带来精美多样的宝石;在击败那些以毗湿摩、德罗纳为首出阵的俱卢人之后。
4.38.69
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः ।
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ॥ ४.३८.६९ ॥
那时,众少女一同说话,俱卢族之喜的般度之子,声音如云中鼓鸣,笑着回答了她们。
4.38.70
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।
अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ॥ ४.३८.७० ॥
若此乌达罗在战斗中战胜大车战士,我便带来精美的衣裳和饰物。
4.38.71
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम् ।
आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य ॥ ४.३८.७१ ॥
于是乌达罗穿上威力巨大、以金与猫眼石装饰的吉祥铠甲,走向上好的战车,以财胜为御者。
4.38.72
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा ।
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् ॥ ४.३८.७२ ॥
众人见优多罗站在上好的战车上,也见到大髻(Bṛhannalā),于是大众、妇女、少女以及持戒的婆罗门右绕行礼,口诵吉祥之词,向他们致敬。
4.38.73
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् ।
कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ॥ ४.३८.७३ ॥
昔日焚烧掘陀婆林为善行者阿周那(行如公牛者)带来吉祥,今日愿你,大髻啊,与优多罗一同在战场上抵达俱卢人之处,也得吉祥。