摩诃婆罗多 · 章 4.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.39.1
स राजधान्य निर्याय वैराटिरकुतोभयः ।
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ ४.३९.१ ॥
无畏的毗罗吒之子走出王城,对御者说:"驱车前往库卢人所去之处。"
4.39.2
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै ।
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ॥ ४.३९.२ ॥
"我将战胜所有集结而来、渴望胜利的库卢人,迅速夺回这些牛群,然后再回到城中。"
4.39.3
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ॥ ४.३९.३ ॥
于是般度之子驱策那些良马前进。
4.39.4
ते हया नरसिंहेन चोदिता वातरंहसः ।
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥ ४.३९.४ ॥
那些被人中狮子驱策的疾如风的良马,佩戴金色花环,奔驰如同擦过天空。
4.39.5
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ ।
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ॥ ४.३९.५ ॥
二人没有走得太远,毫无惧色地望向强大的库卢人之军。
4.39.6
श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ।
तदनीकं महत्तेषां विस्तृतं सागरोपमम् । ॥ ४.३९.६ ॥
两位英雄来到火葬场附近,看见了库卢人;他们庞大的军队铺展开来,如同大海。
4.39.7
सर्पमाणमिवाकाशे वनं बहुलपादपम् ।
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता। ॥ ४.३९.७ ॥
如同天空中移动的茂密树林,行进的军队扬起的大地尘土清晰可见。
4.39.8
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ।
तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् । ॥ ४.३९.८ ॥
库鲁之最,那触及天空的尘土夺去了众生的视力。随后,他望见那满是象、马与战车的军队——
4.39.9
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ।
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ॥ ४.३९.९ ॥
由迦尔纳、难敌和慈悲护卫,又有檀努之子(毗湿摩)守护,还有德罗纳及其子——那位伟大的弓箭手、智者。
4.39.10
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा ।
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ॥ ४.३९.१० ॥
他因恐惧而心神不宁,汗毛竖起,于是闭上双眼,身体颤抖,毗罗吒之子(优多罗)对般度之子(阿周那)说道——
4.39.11
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे ।
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्।
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ॥ ४.३९.११ ॥
我没有勇气与库鲁人作战——看,我的汗毛都竖起来了。我无法抵挡那可怕的库鲁军队,它满是众多英雄,极其凶猛,连诸神也难以接近。
4.39.12
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् ।
देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ॥ ४.३९.१२ ॥
我不指望能进入那支手持可怖弓箭的婆罗多军队。即便诸神与因陀罗联手也做不到之事,更何况凡人!
4.39.13
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ॥ ४.३९.१३ ॥
望见敌军之阵,车、象、马密布,步卒与旌旗纷繁,我的心几乎为之震动。
4.39.14
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ॥ ४.३९.१४ ॥
德罗纳与毗湿摩、克利巴、迦尔纳、毗毗姆沙提、马嘶、毗迦尔纳、苏摩达多、跋利迦、国王难敌、英雄难降及其他人,皆在彼处。
4.39.15
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
मत्ता इव महानागा युक्तध्वजपताकिनः ॥ ४.३९.१५ ॥
诸人皆通晓policy、善射之大弓手、精于战阵,如发情之大象,旌旗幡帜齐整。
4.39.16
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः ।
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ॥ ४.३९.१६ ॥
我愚昧地来到这里,要在战场上战胜那些通晓政略、善射的大弓手、在一切目标上坚定决心的英雄。
4.39.17
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः ।
हृषितानि च रोमाणि कश्मलेनाहतं मनः ॥ ४.३९.१७ ॥
望见诸位俱卢,军阵已列,勇士正击,我的汗毛竖起,心为迷惑所伤。
4.39.18
दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम् ।
परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ ४.३९.१८ ॥
见俱卢之大军,皆持坚弓,愚钝的我在善左手者(阿周那)面前悲叹。
4.39.19
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम् ।
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ ४.३९.१९ ॥
我的父亲率全军前往三乡国,把我留在空城里。这里我连一个士兵也没有。
4.39.20
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः ।
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ॥ ४.३९.२० ॥
我孤身一人,只是个少年,无法抵挡众多精通武艺却未经磨练的勇士。大诃娜啊,调转车子吧。
4.39.21
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत ।
संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ॥ ४.३९.२१ ॥
他如此说话时,闻名三界的大车战士比毗婆苏(阿周那)大笑着再次回答了他。
4.39.22
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ॥ ४.३९.२२ ॥
你因恐惧而显得可怜,增添了敌人的喜悦。在战场上,敌人至今尚未建立任何功业。
4.39.23
स्वयमेव च मामात्थ नय मां कौरवान्प्रति ।
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ ४.३९.२३ ॥
你自己对我说:'把我驾向俱卢族。'那么,我就带你去这些旗帜众多的地方。
4.39.24
मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् ।
नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव।
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ॥ ४.३९.२४ ॥
我要带你去那些贪图中原血肉、侵略成性的俱卢人那里。大臂者啊,不要沮丧。降敌者啊,俱卢军像大海一样深广。
4.39.25
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम् ।
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ॥ ४.३९.२५ ॥
在女人面前立下誓言,众男子听着,你夸夸其谈,出去后却说:为何不在此作战?
4.39.26
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च ।
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ॥ ४.३९.२६ ॥
同样,你在女人面前许诺雄威,在男人面前也如此;登上战车出去后,你为何不醒悟?
4.39.27
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि ।
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ॥ ४.३९.२७ ॥
若你夺回牛群后不回城,英雄、男子和女子聚集起来,必会嘲笑你。
4.39.28
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ ४.३९.२८ ॥
我也曾被侍女赛兰德丽因驾车之事所称赞;但不夺回牛群,我无法向城市前行。
4.39.29
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः ।
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ॥ ४.३९.२९ ॥
受赛兰德丽的称赞和你的话语所激励,我为何不与这些俱卢人作战?请坚定。
4.39.30
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम् ।
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ॥ ४.३९.३० ॥
任由众多俱卢人夺去马特斯亚人的财富;任由女人和男人嘲笑我吧,布利哈南纳啊。
4.39.31
संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे ।
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ॥ ४.३९.३१ ॥
我不需要战斗;让我的牛也走吧。布里哈娜拉啊,在你注视之下,我将进入城中。
4.39.32
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली ।
त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ॥ ४.३९.३२ ॥
说完这话,受惊的昆陀利(优多罗)跳下战车逃走了;他放下骄傲,极度惊恐,抛下了连同箭的弓。
4.39.33
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम् ।
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ॥ ४.३९.३३ ॥
英雄们认为,逃跑不是刹帝利的职责;战死沙场胜过怯懦者的逃亡。
4.39.34
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात् ।
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ।
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ॥ ४.३९.३४ ॥
说完这话,那位俱卢族战士跳下良车,追赶逃跑的王子;财富征服者(阿周那)甩着长辫,身穿华丽的红衣,紧追不舍。
4.39.35
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् ।
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा।
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ॥ ४.३९.३५ ॥
当时他们未认出阿周那,只见他迈着大步奔跑,脚下仿佛使大地俯首,甩动着长辫;一些士兵见他女子的模样,便笑了起来。
4.39.36
तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् ।
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ॥ ४.३९.३६ ॥
库鲁人看见他飞快地奔来,说道:"此人是谁?先前弃了最好的战车,却无牵挂地奔跑?"
4.39.37
क एष वेषसंच्छन्नो भस्मनेव हुताशनः ।
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ॥ ४.३९.३७ ॥
此人是谁,以伪装遮掩,如同灰烬覆盖的火?他的一部分像男子,一部分像女子。
4.39.38
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् ।
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ॥ ४.३९.३८ ॥
士兵们这样说时,库鲁与般度的师尊德罗纳——其见解如同舍克罗与安吉罗娑一般——对他们说了这番话。
4.39.39
किं विचारेण वः कार्यमेतेनानुसृतेन वा ।
धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् ।
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ॥ ४.३९.३९ ॥
"思量他或追随他,对你们有何益处?那看似惊恐奔逃的,正是无畏追赶的;甩开辫束,这人中之牛光彩焕发。"
4.39.40
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च ।
रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ॥ ४.३९.४० ॥
他形貌如阿周那,却现出阉人之相;容貌与帕尔塔相似,却以女子服饰装饰。
4.39.41
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥ ४.३९.४१ ॥
这同样的头颈,那两条如铁杵般的臂膀,那同样的勇力——此人正是陀那耶,并非他人。
4.39.42
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः ।
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ॥ ४.३९.४२ ॥
如同众神之中的天帝因陀罗,人类之中便是持财者(阿周那)。世上除了持财者,还有谁会独自来到我们面前?
4.39.43
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान् ।
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ॥ ४.३९.४३ ॥
德罗纳如此说后,智者迦尔纳答道:毗罗吒唯一的儿子就在空城之中。
4.39.44
स एष किल निर्यातो बालभावान्न पौरुषात् ।
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ ४.३९.४४ ॥
他实在是因年少无知而非因勇武出城,以一个阉人为御者。
4.39.45
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् ।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ ४.३९.४५ ॥
务必知道,那位离去者乃是伪装的阿周那。他们在战场上无法与我们对阵。他们之中的一人独自如何能与所有俱卢人作战?
4.39.46
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ।
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ॥ ४.३९.४६ ॥
他以乌ttara为御者出了城。我想他见到我们的旗帜,便惊恐地逃跑了。
4.39.47
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः ।
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ॥ ४.३९.४७ ॥
毫无疑问,持财者想要擒获那个奔逃之人。他以乌ttara为御者,自己想在此处作战。
4.39.48
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् ।
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ॥ ४.३९.४८ ॥
众俱卢各自思量,却无法确定那人是阿周那。
4.39.49
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् ।
अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ॥ ४.३९.४९ ॥
难敌对诸位最优秀的车战勇士和士兵说:阿周那、婆苏提婆、罗摩或普拉德牛那,他们在战场上无法与我们对抗。
4.39.50
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम् ।
शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ॥ ४.३९.५० ॥
若有他人以阉人之形来到牛群之处,我将以利刃将他击倒于地;但一人如何能独自与全体俱卢作战?
4.39.51
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः ।
अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः।
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ॥ ४.३९.५१ ॥
虽见般度之子以装束掩饰其身,士兵们仍无法断定,时而说“阿周那”,时而说“不是”;众俱卢反复思量。
4.39.52
दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः ।
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ॥ ४.३९.५२ ॥
若今日有一位执坚弓、带箭袋、大勇猛、勇力与因陀罗相当者前来交战,全军都将陷入疑虑。
4.39.53
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ॥ ४.३९.५३ ॥
在那里,他们也无法断定除达南遮耶(阿周那)之外的任何其他人。
4.39.54
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः ।
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ॥ ४.३९.५४ ॥
财主(阿周那)追赶逃跑的优多罗,迅速跑了一百步,抓住了他的发髻一侧。
4.39.55
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले ।
इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत्।
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ॥ ४.३९.५५ ॥
“不要抓我,愿你吉祥;哦,布利哈纳拉,我是你的仆人。”他一边这样说一边奔跑,于是威猛的敌人摧毁者比跋苏立即用力抓住了毗罗吒之子。
4.39.56
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ॥ ४.३९.५६ ॥
被阿周那抓住后,他像遭受苦难的人一样悲哀地哀叹,并开始陈述大量的财富。
4.39.57
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते ।
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ॥ ४.३९.५७ ॥
“你想要的金子、宝石、珍珠,我都会给你——大象、马匹、战车、牛,以及盛装打扮的女子。”
4.39.58
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च ।
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ॥ ४.३९.५८ ॥
“我将给你一百尼什卡的纯净上好的金子和银子;哦,布利哈纳拉,放开我吧。”
4.39.59
षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते ।
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ॥ ४.३९.५९ ॥
“我将给你六十位盛装的少女和一个村庄;放开我吧——我极其可怜、慌乱,因恐惧而颤抖。”
4.39.60
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ।
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ॥ ४.३९.६० ॥
八颗镶嵌于金中、光辉璀璨的青金石宝珠,以及一辆覆以金杆、驾着马匹的战车。
4.39.61
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले ।
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ॥ ४.३९.६१ ॥
还有十头发狂的象。布利哈恩纳拉,放开我。阉人啊,我今天要回城去见我的母亲。
4.39.62
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः ।
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ॥ ४.३९.६२ ॥
我是母亲唯一的儿子,还能说什么呢?在这样的时候,命运本身使我落入你的掌握。
4.39.63
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः ।
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ॥ ४.३९.६३ ॥
我是摩差国王的幼子,由他悉心养育。我睡在母亲身旁,未被日晒风吹,一直这样被守护着。
4.39.64
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः ।
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ॥ ४.३९.६४ ॥
我从未见过孩童的战斗。你的俱卢人在哪里,我又在哪里?我要去母亲身边。布利哈恩纳拉,放开我。
4.39.65
प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ॥ ४.३९.६५ ॥
可见俱卢军队,犹如世界毁灭时的大海。
4.39.66
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम् ।
उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् ।
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ॥ ४.३९.६६ ॥
我因无知,在女人们中间说出了带有勇武与豪气的话,凭着年轻的骄傲说:谁能战胜俱卢族?若你不放开我而带走我,我会死在你面前。
4.39.67
एवमादीनि वाक्यानि विलपन्तमचेतसम् ।
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ ४.३९.६७ ॥
他悲叹着说出这些话,神志恍惚,人中之虎便强行将他带到战车旁。
4.39.68
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ॥ ४.३९.६८ ॥
于是普利塔之子(阿周那)对这个因恐惧而痛苦、心神迷乱的人说道。
4.39.69
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् ।
आददानः किमर्थं त्वं पलायनपरोऽभवः ॥ ४.३९.६९ ॥
“我要与俱卢族作战;为我控制好马匹。”你既然拿起了我,为何却一心想要逃跑?
4.39.70
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति ।
यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान्।
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ॥ ४.३९.७० ॥
与俱卢族一同作战吧,你必将获胜。凡在战场上由我驾车、由我驾驭良马的国王或王子,其战胜必定无疑。
4.39.71
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् ।
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ॥ ४.३९.७१ ॥
优多罗啊,你要以各种方式与俱卢族作战,有我为你驾车。战胜俱卢族、获得荣誉后,你将享有这整个大地。
4.39.72
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ॥ ४.३९.७२ ॥
战死则得升天;逃跑对你并无益处。
4.39.73
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि ।
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ॥ ४.३९.७३ ॥
正如今日你将战胜诸俱卢并获得胜利,我也将在此尽力;此处我被视为助手。
4.39.74
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ।
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ ४.३९.७४ ॥
啊,克制敌人者!若你不敢与敌人交战,便来为我执掌马缰,在我与敌人作战时。
4.39.75
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः ।
अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः ।
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ॥ ४.३९.७५ ॥
在我的臂膀护卫下进入这支战车阵列,它最难以攻破、可怕,由可畏的大车战士守卫。勿惧,王子中最优秀者;你是刹帝利,灼烧敌人者。
4.39.76
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् ।
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ॥ ४.३९.७६ ॥
我将与那些俱卢交战,并为你夺回牛群。进入这支战车阵列,它难以攻破、难以接近。
4.39.77
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ।
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ॥ ४.३९.७७ ॥
请做我的御者,人中之最;我将与俱卢交战,并把战场上勇猛的英雄送往阎摩的居所。
4.39.78
एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः ।
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ॥ ४.३९.७८ ॥
不败的毗跋蹉(阿周那)如此说话,安慰被恐惧折磨的毗罗吒之子优多罗——婆罗多族的雄牛。
4.39.79
इतस्ततो विवेष्टन्तमकामं भयपीडितम् ।
रथमारोपमायास पार्थः परपुरंजयः ॥ ४.३९.७९ ॥
征服敌城的普利塔之子(阿周那)把他扶上战车——他惊惶地左右挣扎,心不情愿,被恐惧所折磨。
4.39.80
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः ।
गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति। ॥ ४.३९.८० ॥
把他扶上战车底板后,财富征服者带着哀号的他,前往舍弥树取甘狄拔神弓。
4.39.81
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ॥ ४.३९.८१ ॥
安慰了优多罗之后,阿周那让他做了御者。