摩诃婆罗多 · 章 4.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.4.1
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः ।
वाक्यं तथासौ … भूयो नृपोऽपरं भ्रातर…बभाषे ॥ ४.४.१ ॥
如此说罢,人中英雄、饮法甘露者中最杰出的阿周那说出那些话……国王又对另一位兄弟说……
4.4.2
किंकर्मा किंसमाचारो नकुलोयं भविष्यति ।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ ४.४.२ ॥
这位那枯罗将从事何事、有何行止?他娇嫩、勇敢、俊美,适于享乐。
4.4.3
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः ।
सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह ॥ ४.४.३ ॥
他不应受苦,是个孩子,一向被娇养;然而他却悲伤而平静。那么他在此处将以何为乐?
4.4.4
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि ।
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ॥ ४.४.४ ॥
那枯罗啊,孩子,你在那位大地之主的国中将做何事为生?请如实说明那件事。
4.4.5
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः ।
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ॥ ४.४.५ ॥
我的打算是做毗罗吒的马匹总管。我名叫达摩衮提,这件事对我极为珍贵。
4.4.6
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि ।
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ॥ ४.४.६ ॥
我以达摩衮提之名闻名,精于系绳之事,此地之人决不会轻视我。
4.4.7
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने ।
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव ॥ ४.४.७ ॥
我精通驯马,也精通治马;马对我始终珍贵,正如对您,库鲁王一样。
4.4.8
न मां परिभविष्यन्ति किशोरा वडवास्तथा ।
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ॥ ४.४.८ ॥
年轻的母马不会轻慢我,在我驾驭之下,无论在背上还是在轭中,它们也不会变得桀骜。
4.4.9
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः ।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥ ४.४.९ ॥
毗罗吒城中凡见到我的人,我将这样对他们说,并且如我所愿地生活。
4.4.10
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा ।
इति तस्य पुरे छन्नश्चरिष्यामि महीपते ।
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ ४.४.१० ॥
父亲,我昔日曾被一位般度子任命掌管马匹。因此,地上之主啊,我将乔装在那城中游走。这是我向您许下的诺言:我将如我所愿地生活。
4.4.11
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः ।
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ॥ ४.४.११ ॥
无种如此说后,法王——智慧如毗诃娑帕提,治策如乌until那斯——说出了这番话。
4.4.12
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः ।
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ॥ ४.४.१२ ॥
凭借种种谋略得到引导,坚定于有益之事,立于善道、善加治理者,获得了王权的治理之术。
4.4.13
न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः ।
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ॥ ४.४.१३ ॥
熟知他的人从未发现他有任何过失;他精通善政,勇敢,并且精通一切谋略。
4.4.14
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा ।
सहदेव कथं कर्म तस्य राज्ञः करिष्यसि।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ ४.४.१४ ॥
萨诃提婆啊,你一向是我们母亲坤蒂最心爱的儿子,你将如何侍奉那位国王?或者,亲爱的,你将乔装做什么事而四处流浪?
4.4.15
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये ।
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्।
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति ॥ ४.४.१५ ॥
我愿成为毗罗吒的牛只清点者:我将负责喂养、挤奶,并擅长清点牛只。我的名字自会被称为“坦特里帕拉”。
4.4.16
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः ।
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः ॥ ४.४.१६ ॥
那些牛将无病,数量众多,肥壮,乳汁充足,子嗣繁多,精力充沛,照料良好,并且没有发烧与疾病之患。
4.4.17
दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः ।
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ॥ ४.४.१७ ॥
大王啊,牛群将永远无惧盗贼,远离疾病与猛虎,聚集良好,安然无忧,并且健康。
4.4.18
भविष्यन्ति मया गुप्ता विराटनगरे तदा ।
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे ॥ ४.४.१८ ॥
那时它们将在毗罗吒的城中受我守护。我将勤勉地施展才能,因为我最大的快乐就在于此。
4.4.19
अहं हि भवता गोषु प्रहितः सतत पुरा ।
तत्र मे कौशलं सर्वमनुबद्धं विशांपते ॥ ४.४.१९ ॥
我过去常常受你差遣去照看牛群;那里我所有的技艺都与我同在,人民之主啊。
4.4.20
लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् ।
सत्सर्वं मे सुविदितमन्यच्चापि विशांपते ॥ ४.४.२० ॥
牛的特征与习性,以及其中一切吉祥之事,我都十分熟悉;其他事情也一样,人民之主啊。
4.4.21
वृषभानपि जानामि राजन्पूजितलक्षणान् ।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ ४.४.२१ ॥
国王啊,我也了解那些具有受尊崇特征的公牛,只要闻一闻它们的尿,连不育的母牛也能生育。
4.4.22
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे ।
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ॥ ४.४.२२ ॥
因此我就这样行事,因为在此我有至高的喜悦;隐藏在毗罗吒城中,我将以此事为乐。
4.4.23
तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ ।
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव।
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ ४.४.२३ ॥
我会让国王欢喜。无罪者啊,愿你不必忧虑。别人不会认出我;大地之主啊,愿此事合你心意。我已向你们承诺,将这样行走于世。
4.4.24
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति ।
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ ४.४.२४ ॥
在此,黑公主德劳帕蒂将以何种事务行走?她对女子所做的任何事情都毫无所知。
4.4.25
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च ।
एतान्येवाभिजानाति यथाजाता च भामिनी ॥ ४.४.२५ ॥
她熟知花环、香料、饰物和各式衣裳,但这位光彩照人的女子并非生长于此等物事之中。
4.4.26
पतिव्रता महाभागा कथं नु विचरिष्यति ।
इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी ॥ ४.४.२६ ॥
这位忠于丈夫、福德深厚的女子将如何行走?她是我们心爱的妻子,比生命更为珍贵。
4.4.27
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च ।
सुकुमारी सुशीला च राजपुत्री यशस्विनी ।
कथं वत्स्यति कल्याणी विराटनगरे सती ॥ ४.४.२७ ॥
她应如母亲般守护,如长姊般敬重。她柔弱、品行端正、是王女,光荣、吉祥而贞洁,她将如何在毗罗吒城中生活?
4.4.28
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव ।
यथा ते मत्कृते शोको न भवेन्नृपते शृणु।
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो ॥ ४.४.२८ ॥
王中之王啊,我将住在那里;国王,请安心。为了使你不因我而忧愁,人主啊,请听:主人啊,我将如何行事,使他们不认得我。
4.4.29
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन ।
वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते ॥ ४.४.२९ ॥
我将隐居度日,使人不认得我。我将说明我的行为;愿民之主安宁。
4.4.30
सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी । ॥ ४.४.३० ॥
我出身于侍女种姓,名号为持戒者。
4.4.31
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत ।
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ॥ ४.४.३१ ॥
婆罗多啊,侍女们受妇女保护。世人确定这些女子只忠于一位丈夫。
4.4.32
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि ।
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् ॥ ४.४.३२ ॥
我自称侍女,精通梳妆之技,是世间能令远行男子之妻倾心的人。
4.4.33
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका ।
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ॥ ४.४.३३ ॥
婆罗多啊,即便国王问起,我也会说我曾在坚战家中做德罗波蒂的侍女。我将隐藏自己,如你所问那样四处游走。
4.4.34
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि ।
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ॥ ४.४.३४ ॥
人主啊,我不会留在那里,因为王宫中难以生存。我将始终凭借誓愿守护自己。
4.4.35
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥ ४.४.३५ ॥
我将侍奉声名远扬的王后、国王之妻苏德什娜。我来到她那里,她会保护我,愿你不要有这样的悲伤。
4.4.36
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी ।
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ ४.४.३६ ॥
那时,我将在你们的庇护下留在那里,四处游走。我已这样向你们许诺:我将按我所说的方式生活。
4.4.37
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः ।
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः ॥ ४.४.३७ ॥
为使我们邪恶的敌人不再快乐,吉祥的女子啊,你就这样做吧;愿人们认不出你。
4.4.38
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा ।
न पापमभिजानासि साध्वी साधुव्रते स्थिता ॥ ४.४.३८ ॥
黑天啊,你所说的都是吉祥之言,如忠实的犬一般;你不知道罪恶。你是贤德的女子,安住于善人的誓愿之中。