摩诃婆罗多 · 章 4.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.40.1
तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम् ।
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ॥ ४.४०.१ ॥
看见他身为宦官之形,立于战车之上,是车手中的最优者,正朝沙弥树方向前进,并让优怛罗登上战车。
4.40.2
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः ।
वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात् ॥ ४.४०.२ ॥
俱卢族的英雄德罗纳、毗湿摩等人,诸位最优秀的车手,因持军所造成的恐惧而心中惊惧。
4.40.3
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् ।
गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत ॥ ४.४०.३ ॥
他见众人士气低落,又见种种奇异的凶兆,兵器手中的最优者、婆罗堕折之子(德罗纳)便对他们说话。
4.40.4
स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः ।
भस्मवर्षप्रकाशेन तमसा संवृतं नभः ॥ ४.४०.४ ॥
粗糙的风混杂着粗厉的喧吼声刮起,天空被一种如同灰烬雨般发光的黑暗所遮蔽。
4.40.5
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः ।
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥ ४.४०.५ ॥
可见颜色灰暗、形状奇异的云团,各种兵器也从鞘中自行飞出。
4.40.6
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः ।
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥ ४.४०.६ ॥
在光亮的方向,这些可怕的豺狼在嚎叫;马匹流下泪水,旗帜虽未被吹动却在颤抖。
4.40.7
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च ।
यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम् ॥ ४.४०.७ ॥
如这里所见种种征兆,你们都应警觉而立;战斗已经迫近。
4.40.8
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि ।
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥ ४.४०.८ ॥
护卫国王,列阵布兵,守候牧人的牛栏,也要守护牛群的财富。
4.40.9
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः ।
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥ ४.४०.९ ॥
此英雄,大弓手,持械者中最优者,以阉人的装束而来;毫无疑问,此人是般度之子(阿周那)。
4.40.10
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत् ॥ ४.४०.१० ॥
说完这些,他看着毗湿摩,开口说道。
4.40.11
नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः ।
गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम् ॥ ४.४०.११ ॥
生于河中,持楞伽林敌人之旗,名为那伽呼耶,山敌之子——步态如诸神之王,有时又像女子;那时,尊师说了话。
4.40.12
इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते ।
भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत् ॥ ४.४०.१२ ॥
说完这些,德罗纳以手势默然不语,哦,人民之主。听到婆罗堕阇之子的话,甘伽之子(毗湿摩)以手势作答。
4.40.13
अतीतं चक्रमस्माकं विषयान्तरमागताः ।
अतीतः समयश्चोक्त अस्माभिर्यः सभातले।
न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ ॥ ४.४०.१३ ॥
我们的时限已经过去,我们来到了另一个国家。我们在议事厅里约定的期限已经届满。人中之雄啊,不必畏惧敌人,放下你的疑虑吧。
4.40.14
देवव्रतेनैवमुक्ते वचने हितकारिणा ।
दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत् ॥ ४.४०.१४ ॥
当行善的提婆跋多如此说完,德罗纳看着难敌,以示意的方式说道。
4.40.15
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः ।
आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः ॥ ४.४०.१५ ॥
这位英雄,大弓箭手,所有持兵器者中的最优者,化作阉人的形象而来。无疑,这是阿周那(Pārtha)。
4.40.16
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः ।
ये जेतारो महीपानाममुना कुरवो हताः ॥ ४.४०.१६ ॥
这是阿周那——勇猛的、左右开弓的、烧灼敌人的。那些征服了诸王的俱卢族人,都被他所杀。
4.40.17
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत् ।
येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा ॥ ४.४०.१७ ॥
他一出生,整个大地便深深舒了一口气;他以力量捆缚德鲁帕达,并以此作为我的祭礼酬金。
4.40.18
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् ।
निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे ॥ ४.४०.१८ ॥
他射中了在空中旋转的目标,击败了诸王,正是从前在选婿大会上赢得般遮罗公主的人。
4.40.19
खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् ।
परिणीता सुभद्रा च येन निर्जित्य यादवान् ॥ ४.४०.१९ ॥
在坎达瓦森林中令火神满足者,战胜天神与阿修罗者,以及战胜耶达瓦人后娶了苏跋陀罗者,正是他。
4.40.20
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः ॥ ४.४०.२० ॥
在战斗中战胜三城之敌、摧毁爱神(迦摩)的特里普拉里者。
4.40.21
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि ।
निवातकवचा राजन्दानवानां त्रिकोटयः।
निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः ॥ ४.४०.२१ ॥
他到达天界,在战斗中战胜了因陀罗的檀那婆;大王啊,他还战胜了三千万尼瓦塔卡瓦查檀那婆和居住在黄金城的迦拉刻亚人。
4.40.22
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने ॥ ४.४०.२२ ॥
在那片森林中被持明(Citrasena)所缚的你,正是被他解救的人。
4.40.23
येन गत्वोत्तरं मेरोरानिनाय महद्धनम् ।
याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च ॥ ४.४०.२३ ॥
他到达弥卢山以北,带回巨大的财富;并战胜所有国王,使法之子完成了祭祀。
4.40.24
यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः ।
औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् ।
एवमादिगुणोपेतः सोयं पार्थो न संशयः ॥ ४.४०.२४ ॥
其中具有勇武与力量、光辉与坚定、威势、慷慨与深沉、吉祥、羞耻心、法、慈悲与正直——具备这些及类似的德性,此人无疑就是这位普利塔之子。
4.40.25
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान् ॥ ४.४०.२५ ॥
即使不战胜所有摩路多众,他也不会回转。
4.40.26
क्लेशितश्च वने शूरो वासवेन च शिक्षितः ।
अमर्षवशमापन्नो योत्स्यते नात्र संशयः ।
न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव ॥ ४.४०.२६ ॥
这位英雄在林中受尽折磨,又受因陀罗教导,必将在愤怒驱使下作战,此毫无疑问。哦,俱卢族之子,我看不到能与他对敌的另一人。
4.40.27
महादेवोपि पार्थेन श्रूयते युद्धतोषितः ।
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः ॥ ४.४०.२७ ॥
据说,连伪装成猎人(吉罗多)的大自在天,也曾在喜马拉雅山上因战斗而与阿周那相得而悦。
4.40.28
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत ॥ ४.४०.२८ ॥
德罗纳如此说时,愤怒的迦尔纳对他说道。
4.40.29
सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे ।
न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा ॥ ४.४०.२९ ॥
您总是在我们面前称赞法尔古纳的美德,但精通诸艺的阿周那,既不及我,也不及难敌。
4.40.30
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम ।
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान् ॥ ४.४०.३० ॥
哦,罗陀之子,若这位波罗陀完成了我的使命,那些被认出的人将再流浪十二年。
4.40.31
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् ।
शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥ ४.४०.३१ ॥
或者,若有另一位天王以阉人之形在此,我将以锋利的箭将他射倒在地。
4.40.32
तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे ।
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥ ४.४०.३२ ॥
当般杀敌者、持国之子说出那番话时,毗湿摩、德罗纳、慈悲和德罗纳之子赞叹了那份勇气。
4.40.33
तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत् ।
सुखसंवर्धितं पित्रा समराणामकोविदम् ॥ ४.४०.३३ ॥
阿周那走近那棵沙弥树,对毗罗吒之子说:“你由父亲在安逸中养育,不熟悉战事。”
4.40.34
एहि भूमिंजयारुह्य वैराटे महतीं शमीम् ।
समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय ॥ ४.४०.३४ ॥
来吧,毗罗吒之子,攀上那大沙弥树,遵照我的吩咐,迅速把甘提婆弓取来。
4.40.35
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् ।
नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम् ॥ ४.४०.३५ ॥
这里的这些弓承受不住我的力量;它们不能承受如此沉重的负荷,也不能劈开或压碎大象。
4.40.36
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ।
नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह ॥ ४.४०.३६ ॥
我将以双臂的挥动在此战胜敌人,却不愿借助那些弓在此成就胜利之业。
4.40.37
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च ।
आयुधानि महाबाहो तवैतानि महाबल ॥ ४.४०.३७ ॥
大臂者啊,大力者啊,你的这些武器都极其细小、短小而柔软。
4.40.38
तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् ।
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत ॥ ४.४०.३८ ॥
因此,你从地上起身,爬上这棵多叶的沙密树吧;不动者啊,正是在这里藏着般度之子们的弓。
4.40.39
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
ध्वजा शराश्च शूराणां दिव्यानि कवचानि च ॥ ४.४०.३९ ॥
那里还有坚战、怖军、比毗特苏(阿周那)以及双生子的旗帜与箭,还有那些英雄的神圣铠甲。
4.40.40
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् ।
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥ ४.४०.४० ॥
这里也有般度之子(阿周那)威力无比的甘狄拔神弓,它一张便抵得上十万张弓,能使国家昌盛。
4.40.41
व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्वायुधमहामात्रं सर्वारिक्षयकारकम् ॥ ४.४०.४१ ॥
它能承受极大的力量,如草中之王般巨大,是诸般兵器中的大臣,能使一切敌人毁灭。
4.40.42
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् ।
अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम् ॥ ४.४०.४२ ॥
由黄金锻造、神圣、光滑、宽阔而无瑕,能承受沉重负荷;还有属于伐楼那的苏达尔舍那圆盘,也在那里。
4.40.43
तादृशान्येव सर्वाणि बलवन्ति दृढानि च ।
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत ॥ ४.४०.४३ ॥
尤帝希提罗、怖军、比跋察(阿周那)及双生子的一切同样强劲坚固,声名卓著、殊胜,且令人难以直视。
4.40.44
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल ।
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥ ४.४०.४४ ॥
此处挂在沙密树上、昔日已干枯的那具尸体,我身为王子,怎能用手去触碰?
4.40.45
न मामेवंविधं कर्म कारयस्व बृहन्नले ।
कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं ॥ ४.४०.४५ ॥
大哈纳尼啊,不要让我做这样的事。或者你凭智慧认为这如何能够做到?
4.40.46
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ ४.४०.४६ ॥
我出身刹帝利种姓,是伟大的王子,通晓咒语与祭祀的善人,不宜触碰这样的东西。
4.40.47
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् ।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले ॥ ४.४०.४७ ॥
我像抬尸者一样触碰了尸体而变得不洁——大哈纳尼啊,你要如何让我去处理它?
4.40.48
तमुवाच ततः शूरः पार्थं परपुंरजयः ।
दायादं सर्वमत्स्यानां कुले जातं विशारदम् ॥ ४.४०.४८ ॥
于是那位征服敌方战士的英雄,对贡娥之子(阿周那)说道——这位出生于所有摩差族家系的、精通技艺的继承者。
4.40.49
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च ।
कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप ॥ ४.४०.४९ ॥
大智者啊,我知道你出身与家族都高贵。焚烧敌人者啊,我怎能对你说一件罪恶的行为呢?
4.40.50
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि ।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥ ४.४०.५० ॥
诸王之主啊,你将成为可任用之人,并且清白。不要害怕这些弓;此处你的身体并无危险。
4.40.51
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।
कथं वा नन्दितं कर्म कारये त्वां नृपात्मज ॥ ४.४०.५१ ॥
你是摩offset王族之子,出身其家,心胸高尚,王子啊,我该让你去做哪件令人欣喜的事呢?
4.40.52
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली ।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥ ४.४०.५२ ॥
被Pārtha如此吩咐后,佩戴耳环的毗罗吒之子从车上跳下,当时无可奈何,爬上了沙米树。
4.40.53
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः ।
अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम् ॥ ४.४०.५३ ॥
站在战车上的消灭敌人者百战,向他下令说:“从树梢把这些弓拿下来,不要迟延。”
4.40.54
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् ।
परिवेष्टनपत्राणि विमुच्य समुपानयत् ॥ ४.४०.५४ ॥
他取下那些宽胸勇士的贵重弓箭,解开缠绕的布帛,将它们拿到近处。
4.40.55
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् ।
तेषां संनहनीयानि परिमुच्य परन्तपः।
अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह ॥ ४.४०.५५ ॥
立刻解开它们的所有包裹。焚烧敌人者解下它们的护甲束缚,在那里看见了甘狄拔弓与另外四件。
4.40.56
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् ।
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥ ४.४०.५६ ॥
当那些如太阳般明亮的弓被解开时,神圣的光芒迸发出来,如同行星升起之时。
4.40.57
स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् ।
हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा ॥ ४.४०.५७ ॥
他看见它们的形貌,宛如竖起兜帽的蛇,这位王子便毛发竖立,因恐惧而心神不宁,身体颤抖。
4.40.58
अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः ।
तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ॥ ४.४०.५८ ॥
在阿周那的安抚下,这位王子稍稍壮起胆子,反复观看并反复触摸它们以熟悉它们。
4.40.59
आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः ।
सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ॥ ४.४०.५९ ॥
他闭上眼睛又睁开,时而触碰时而不触碰,如此反复;他原本完全惊惶,此刻转瞬便安定下来。
4.40.60
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च ।
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ ४.४०.६० ॥
大王啊,他触摸了那些光辉而巨大的弓,维罗陀之子对阿周那说了这些话。