摩诃婆罗多 · 章 4.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.42.1
अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् ।
मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् ॥ ४.४२.१ ॥
乌татara如此说后,阿周那以温和的话语对毗罗吒之子说话,安慰这个因恐惧而陷入疑虑的人。
4.42.2
अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम् ।
पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम् ॥ ४.४२.२ ॥
你首先问道:这把能摧毁敌军肢体的阿周那神弓,以甘狄拔之名闻名于世。
4.42.3
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम् ।
सर्वायुधमहामात्रं शातकुम्भमयं धनुः ॥ ४.४२.३ ॥
此弓坚不可摧、无所畏惧、光辉灿烂、神圣、不可斩断、无损伤;是一切兵器的大宝库,由黄金制成。
4.42.4
एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ॥ ४.४२.४ ॥
此弓价值十万,能增益国家的繁荣,诸天神、檀那婆与乾达婆在永恒的岁月中崇拜它。
4.42.5
येन देवासुरान्पार्थः सर्वान्विषहते रणे ।
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ ४.४२.५ ॥
阿周那凭此神弓在战斗中战胜所有天神与阿修罗;此弓在古时曾由梵天亲自持握千年。
4.42.6
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च ।
सोमः पञ्चसहस्राणि तथा च वरुणः शतम् ॥ ४.४२.६ ॥
乌摩的夫主(湿婆)持握六十四年,帝释天(因陀罗)八十五年,月神五千年,水神(伐楼那)一百年。
4.42.7
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् ।
अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् ।
पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति ॥ ४.४२.७ ॥
阿耆尼从婆楼那处怀着爱意获得了那张吉祥之弓,阿耆尼作为保证将甘狄拔弓交给了普利塔之子。贡蒂之子将执持它六十五年。
4.42.8
एवंवीर्यं महावेतेतच्च धनुरुत्तमम् ।
नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः ॥ ४.४२.८ ॥
这张如此强大的最佳之弓如同青莲,属于大心的俱卢王。
4.42.9
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः ।
विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम् ॥ ४.४२.९ ॥
此处背面的金点排列得当;这是以金柄握持的、著名的坚固之弓,属于毗摩森那。
4.42.10
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ ४.४२.१० ॥
背面站立着千只金蜥蜴、十四只金豹以及金角公牛。
4.42.11
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः ।
पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः ॥ ४.४२.११ ॥
毗摩以此弓征服了整个东方;背上分开的标记如同吉祥草上的火焰般闪耀。
4.42.12
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम् ।
तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम् ॥ ४.४२.१२ ॥
受天神与凡人尊崇、享有盛名的这张最佳之弓属于毗摩;高如棕榈树,以宝石与黄金装饰。
4.42.13
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः ॥ ४.४२.१३ ॥
此弓难以拉开,巨大而修长,形态优美,难以攻破。其金色羽翎饰有百枚月牙纹。
4.42.14
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः ।
एतेन सदृशं चित्रं धनुरेतद्यवीयसः।
हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः ॥ ४.४२.१४ ॥
这是智慧的摩德利之子那库拉的弓。与之相似的这张奇妙的弓属于那位幼弟。它呈姜黄色,是伟大的俱卢王的。
4.42.15
विपाठा भीमसेनस्य गिरीणामपि दारणाः ।
सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः ।
भीमेन प्रहिता ह्येते वारणानां निवारणाः ॥ ४.४२.१५ ॥
这些是bhīmasena的毗婆它箭,连山岳也能劈裂。它们明亮、体型巨大、箭尖锋利且极为坚固,由Bhīma射出,能够阻挡大象。
4.42.16
सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः ।
नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः ॥ ४.४२.१६ ॥
金杆璀璨,如死神之杖,吉祥。这些是那库拉的箭,光芒如金刚与雷电。
4.42.17
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान् ।
वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः ॥ ४.४२.१७ ॥
你所问的那些明亮、刃口齐平、制作精良的箭,是野猪耳箭,箭尖锋利,属于萨哈德瓦。
4.42.18
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः ।
पार्थस्यायं महाघोरः सर्वभारसहो महान् ॥ ४.४२.१८ ॥
这支插在牛皮箭囊中的长箭属于般度之子阿周那;它极为可怖,能承受一切重负,且极为强大。
4.42.19
यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः ।
राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः । ॥ ४.४२.१९ ॥
这把在豹皮鞘中镶嵌好的无瑕宝剑,属于智者、昆提之子国王坚战。
4.42.20
वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः ।
वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने ॥ ४.४२.२० ॥
这是怖军的虎皮鞘,带有五只老虎的标记,经过训练,用来斩断狂傲大象的肩膀。
4.42.21
नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः ।
मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः ॥ ४.४२.२१ ॥
这把剑光泽如青莲,属于智者般若——Pārtha(阿周那);以狮皮覆盖,锋利而极其无瑕。
4.42.22
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः ।
अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः ॥ ४.४२.२२ ॥
这把剑外形可观,锋尖极利,属于智者、昆提之子阿周那;它能摧毁敌军的前锋。
4.42.23
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ।
नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः ॥ ४.४२.२३ ॥
这把装饰美丽的剑被放在珀尔沙塔的鞘中,属于无种(那库拉);它如火焰般闪耀。
4.42.24
यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः ।
सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक ।
भीमस्यायं महादण्डः सर्वामित्रविनाशनः ॥ ४.४२.२४ ॥
这把赭黄色、色彩斑斓、镶有宝石柄的剑属于偕天(sahadeva);它承受得住重量,安置得十分牢固。这是怖军的大棒,能摧毁一切敌人。
4.42.25
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः ।
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् ॥ ४.४२.२५ ॥
阿周那依据其特征迅速而准确地说明:兵器、箭囊,以及光辉无比的剑。