Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.44.1

ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत् ।
अहं भूमिंजयो नाम प्रणतोस्मि धनंजय ॥ ४.४४.१ ॥

于是毗罗吒之子合掌向般度子(阿周那)致敬:“我名为Bhūmiñjaya,哦,财富征服者,我向你俯首。”

4.44.2

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजवरोपम ॥ ४.४४.२ ॥

“幸运地我见到你了,哦,般度子。欢迎你,哦,财富征服者!哦,红眼的、大臂的,如同最好的蛇王一般!”

4.44.3

यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम ।
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ॥ ४.४४.३ ॥

“我因无知与疏忽对你说的话,哦,人中最优者,请你心中不存任何介怀,宽恕我吧。”

4.44.4

यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् ।
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ॥ ४.४४.४ ॥

“因为你先前完成了奇妙而极难的功业,我的恐惧已经消散,我对你怀有至高的敬爱。”

4.44.5

दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ॥ ४.४४.५ ॥

“我将成为你的仆人;请怀着慈悲看我一眼。”

4.44.6

या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् ।
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ॥ ४.४४.६ ॥

“先前为了给你驾车而许下的誓愿,今已为我完成了,哦,阿周那,我心中生起了欢喜。”

4.44.7

देवेन्द्रतनयस्येह सारथिः स्यां महामृधे ।
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ॥ ४.४४.७ ॥

“我将在此大战中为因陀罗之子驾车”——此誓言我们先前已立下,哦,你这在战斗中傲慢之人。

4.44.8

प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् ।
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ॥ ४.४४.८ ॥

因为我为你驾车,我的誓言已经实现;我的心得到了安宁,我的福分也变得巨大。

4.44.9

आस्थाय विपुलं वीर रथं सारथिना मया ।
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ॥ ४.४४.९ ॥

英雄啊,登上这辆宽大的战车,由我为你驾车,在战斗中战胜难敌,把我的牛群夺回来吧。

4.44.10

प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव ।
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥ ४.४४.१० ॥

王子,我很欣慰;现在你不必有任何恐惧。善战者啊,我将在战场上驱逐你所有的敌人。

4.44.11

स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ॥ ४.४४.११ ॥

在大战中要镇定、要伟岸;看我与敌人交战,在这冲突中发出可怕的吼声。

4.44.12

गाण्डीवं देवदत्तं च शरान्कनकभूषणान् ।
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥ ४.४४.१२ ॥

快把天神所赐的甘提婆神弓、饰以黄金的箭,以及所有这些箭囊绑在我的战车上;再取一把饰有黄金的剑来。

4.44.13

अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् ।
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ॥ ४.४४.१३ ॥

我将与俱卢人作战,解救你的牲畜,使国王欢喜,然后再次进入城市。

4.44.14

संकल्पागाधपरिधं बाहुप्राकारतोरणम् ।
त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् ॥ ४.४४.१४ ॥

以决心为深不可测的壕沟,以臂为城墙与门楼,充满三杖兵器与箭囊,旌旗众多。

4.44.15

ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः ।
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥ ४.४४.१५ ॥

你的城市,将以弓弦的嗡鸣与如车轮之声的战鼓,以箭网的华盖与巨大的呼喊而充盈,由我守护,将成为你战车的座位。

4.44.16

अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना ।
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥ ४.४४.१६ ॥

我这持甘狄拔弓者在战斗中所乘的这辆战车,敌军无法战胜。维罗吒之子啊,愿你的恐惧消散。

4.44.17

बहुना किं प्रलापेन शृणु मे परमं वचः ।
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ॥ ४.४४.१७ ॥

多说何益?请听我最终的话:贡蒂之子啊,我即便面对因陀罗本人也不畏惧。

4.44.18

यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि ।
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि ।
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ॥ ४.४४.१८ ॥

我不畏惧阎摩、风神、俱毗罗,也不畏惧德罗纳、毗湿摩及百余人。我知道你在战中坚定;在战斗中你与克舍婆相当,甚至与因陀罗本人相当。

4.44.19

इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् ।
निश्चयं नाधिगच्छामि नावगच्छामि किंचन ॥ ४.४४.१९ ॥

我只是思索此事,便完全迷惑了。无法下定决心,什么也不明白。

4.44.20

एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च ।
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ॥ ४.४४.२० ॥

您的肢体如此俊美,又有吉祥的相貌,究竟是由于何种业报,这阴阳不全之症才降临到您身上?

4.44.21

मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम् ।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ॥ ४.४४.२१ ॥

我想,您化作阴阳不全之人在此行走,实如持三叉戟的神,或如乾闼婆之王,甚或如行过百次祭祀的因陀罗。

4.44.22

भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम् ।
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥ ४.४४.२२ ॥

依长兄之命,我将守此梵行之誓一年。这是我向您所说的真实之言。

4.44.23

नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।
उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् ॥ ४.४४.२३ ॥

大臂者啊,我并非阴阳不全之人。我持守法度,且顺从长者。因乌尔瓦西的诅咒所生的这阴阳不全之症,已降临到我身上。

4.44.24

पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम् ।
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ॥ ४.४४.२४ ॥

往昔,我奉长兄之命前往天界,在善法殿中见到了乌尔瓦西。

4.44.25

नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ ।
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे ॥ ४.४४.२५ ॥

她在因陀罗(持金刚者)面前起舞,容貌至为美丽,我不眨眼地注视着她;她对我的家族而言是坚定的。

4.44.26

रात्रौ समागता मह्यं शयनं रन्तुमिच्छया ।
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ॥ ४.४४.२६ ॥

夜里她出于渴望来到我的床边;我恭敬地向她行礼,并以对待母亲的敬意待她。

4.44.27

सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै ।
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ॥ ४.४४.२७ ॥

她盛怒之下诅咒我:“你将成为无势的希坎丁。”因陀罗听闻后对我说:“普利塔之子啊,不要畏惧那非男非女的境遇。”

4.44.28

उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा ।
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ॥ ४.४४.२८ ॥

因陀罗眷顾我说:“这在你隐匿度日之时,对你有益。”随后他派遣了公牛(法)。

4.44.29

तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥ ४.४४.२९ ॥

无瑕者啊,我所奉行的这项誓愿现已圆满;王子啊,请知道我已完成誓愿,并已渡过。

4.44.30

परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा ।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ॥ ४.४४.३० ॥

今日对我而言是至高的恩赐,我的推测并非徒劳;这样的人中俊杰,不会以非男非女之形出现。

4.44.31

सहायवानस्मि रणे युद्ध्येयममरैरपि ।
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥ ४.४४.३१ ॥

若有同伴,我即便在战场上也能与天神作战。我的恐惧已经消失,请告诉我该怎么做。

4.44.32

अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण ।
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ॥ ४.४४.३२ ॥

灭敌者啊,我将为你驾驭马匹。人中雄牛啊,我在御车之术上已受训练,技艺纯熟。

4.44.33

दारुको वासुदेवस्य यथा शक्रस्य मातलिः ।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥ ४.४४.३३ ॥

请知道我的御车之术,正如达鲁迦为婆苏提婆、摩怛利为因陀罗所做的那样,人中之最啊。

4.44.34

अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः ।
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ॥ ४.४४.३४ ॥

大臂者啊,这些马确实属于你,在战斗中无人能胜。它们适合驾驭最好的战车,充满活力,已战胜了疲劳。

4.44.35

यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम् ।
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ॥ ४.४४.३५ ॥

奔跑时每一步都能看见踏在地上的那匹马,在右侧承担车辕的,与苏利婆相当。

4.44.36

योऽयं हयो धुर्यवरो वामां वहति शोभनः ।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥ ४.४४.३६ ॥

这匹在左侧优美地承担车辕的骏马,是驾辕马中最好的,我认为它的速度与云花相当。

4.44.37

योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः ।
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ॥ ४.४४.३७ ॥

这匹在右侧承载后部、弯曲昂起的马,比云马更受珍视,光辉中更加威猛。

4.44.38

योऽयं काञ्चनसन्नाहो वामं वहति शोभनः ।
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ॥ ४.४४.३८ ॥

这匹披金色鞍具、左侧承载的俊美之马,我认为是尸毗王的辕马,速度上更为强劲。

4.44.39

त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।
त्वं चे रथमास्थाय योद्धुमर्हो मतो मम।
शर्वशत्रुभिरायातो देवराज इवासुरैः ॥ ४.४४.३९ ॥

这辆战车只配载你这位弓箭手上阵。如果你认为自己配得上登车作战,那么在我看来,你就像被阿修罗围困的天王一样前来,而阿修罗正是湿婆的敌人。

4.44.40

ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः ।
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ॥ ४.४४.४० ॥

于是,这位勇猛的敌人粉碎者下车,向诸神致敬,拿起甘狄拔神弓,光辉熠熠。

4.44.41

ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः ।
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ॥ ४.४४.४१ ॥

于是般度之子从双臂上解下螺壳手镯,把两只发出鼓声般响声的手掌缠束起来。

4.44.42

इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले ।
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ॥ ४.४४.४२ ॥

他取下因陀罗所赐的两枚神耳环,用白布把光滑、柔软、油亮的头发束起来。

4.44.43

अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः ।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ॥ ४.४४.४३ ॥

于是他面向东方,身心清净,心意专一,这位大臂者在上好的战车上冥想所有的武器。

4.44.44

ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् ।
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ॥ ४.४४.४४ ॥

众兵器合掌对国王之子、大德的因陀罗之子般说:「大德者啊,因陀罗之子,我们都是您的仆从。」

4.44.45

प्रणिपत्य ततः पार्थः समालभ्य च पाणिना ।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत ॥ ४.४४.४५ ॥

于是阿周那行礼并以手触之,说:「愿这些意识之兵器都归你们所有。」

4.44.46

प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ ४.४४.४६ ॥

接受了这些兵器后,他面露喜色;迅速拉紧弓弦,拉开了甘迪瓦弓。

4.44.47

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ॥ ४.४४.४७ ॥

当那弓被拉开时,发出巨大的声响,如同巨山抓起群山抛掷之声。

4.44.48

सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् ।
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ॥ ४.४४.४८ ॥

大地因雷电轰鸣而震动;四方狂风大作;天空中的鸟儿惊慌乱飞;巨大的树木颤抖。

4.44.49

तं शब्दं कुरवो राजन्विस्फोटमशनेरिव ।
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ॥ ४.४४.४९ ॥

大王啊,众库如听到那如霹雳炸裂、又如迦鲁达之声的巨响,心神沮丧,皆战栗不已。

4.44.50

यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि ।
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ॥ ४.४४.५० ॥

如同因陀罗向大地掷出可怖的霹雳之响,有力的阿周那以双臂拉开了最好的弓。

4.44.51

महाशनिमहाशब्दसदृशो ज्यास्वनो महान् ।
शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः ॥ ४.४४.५१ ॥

他以如大雷霆般巨大的弓弦鸣响,威吓敌人与英雄,稳稳地立于战车之上。

4.44.52

एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान् ।
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् ॥ ४.४४.५२ ॥

般度子中最优秀者啊,你独自一人,如何在战斗中战胜这许多精通一切兵器与箭术的大车战士?

4.44.53

असहायो।सि कोन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ॥ ४.४४.५३ ॥

般度的儿子啊,你没有助手,而俱卢人有助手。正因如此,大臂者啊,我怀着恐惧站在你面前。

4.44.54

उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ॥ ४.४४.५४ ॥

于是普利塔之子帕尔塔以如雷鸣般的声音笑着说:“不要害怕。”

4.44.55

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥ ४.४४.५५ ॥

英雄啊,当我在牛栏远征中与极其强大的乾达婆作战时,谁是我的助手和朋友?

4.44.56

तथा प्रतिभये तस्मिन्देवदानवसंकुले ।
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ॥ ४.४४.५६ ॥

同样,在那充满天神与阿修罗的可怕的卡ṇḍava林中,我作战时,谁是我的朋友?

4.44.57

निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ॥ ४.४४.५७ ॥

当我为天王而与强大的尼瓦塔迦伐遮和波罗摩作战时,谁成为我的助手?

4.44.58

स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे ।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ॥ ४.४४.५८ ॥

亲爱的,在般遮罗公主的选婿大会上,我与众多国王作战时,谁成为了我的助手?

4.44.59

उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं कृष्णं च माधवम् ।
पिनाकपाणिनं चैव कथमेतान्न योधये ॥ ४.४४.५९ ॥

我曾从师尊德罗纳、从乌商那、从毗沙罗婆那(俱毗罗)、阁摩、伐楼那、火神,以及从克里帕、黑天、摩陀婆和持毗那迦弓的湿婆那里学得学问,我怎能不与这些人作战呢?

4.44.60

रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ॥ ४.४४.६० ॥

快驾我的战车吧;愿你心中的烦热消散。