Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.56.1

ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम् ।
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ॥ ४.५६.१ ॥

于是,库鲁英雄们持弓的三千辆可怖战车在四周排列开来,婆罗多啊。

4.56.2

कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम् ।
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ॥ ४.५६.२ ॥

迦尔纳以一千辆战车迎战达难闍耶,而智慧的山底王之子毗湿摩以一千辆战车被置于前列。

4.56.3

तथा रथसहस्रेण भ्रातृभिः परिवारितः ।
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ॥ ४.५६.३ ॥

同样,难敌站在后方,被兄弟们和一千辆战车环绕,因荣誉与光辉而闪耀。

4.56.4

अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥ ४.५६.४ ॥

步兵与战马一同站在空隙之中,形貌可怖的象群则由长矛和象钩驱使而立。

4.56.5

तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् ।
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ॥ ४.५६.५ ॥

看到那些伟大人物展开的军队,般度之子回答了毗罗吒之子乌多罗。

4.56.6

जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते ।
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ॥ ४.५६.६ ॥

旗杆顶端可见金制祭坛、战车上驾着赤色骏马——这便是灿然生辉的德罗纳。

4.56.7

आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः ।
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ॥ ४.५६.७ ॥

这位老师精通且睿智,是通晓梵的人,也是英雄中最杰出的;在战场上无人能与他匹敌,他是善于远射的大战车武士。

4.56.8

सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम् ।
अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ ४.५६.८ ॥

伟大的英雄德罗纳对俱卢族非常友好;应当将他置于右侧绕行。在这里不与他对抗,这便是永恒的法。

4.56.9

यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः ।
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ॥ ४.५६.९ ॥

若德罗纳欢喜之下击伤我的身体,那我便也要还击他;我的决心并非如此。

4.56.10

भारताचार्यमुख्येन ब्राह्मणेन महात्मना ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ ४.५६.१० ॥

我正与婆罗多族的首席导师、高尚的婆罗门交战;御者啊,请慢慢驾车。

4.56.11

ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते ।
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ॥ ४.५६.११ ॥

旗杆顶端的狮尾标志在四方闪耀;那便是婆罗多族导师之子阿湿婆陀摩,光彩照人。

4.56.12

ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् ।
दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ ४.५६.१२ ॥

旗杆顶端光芒如初升之日,在那里可见的他,对所有军队而言都无法战胜,即便是与因陀罗同在的诸神也无法战胜。御者啊,我与他交战时,请慢慢驾车。

4.56.13

ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते ।
आचार्यवरमुख्यस्तु कृप एष महारथः ॥ ४.५६.१३ ॥

旗杆顶端闪耀着金色公牛的,便是那位最卓越的师长、大车战士克里巴。

4.56.14

द्रोणेन च समो वीर्ये पितुर्मे परमः सखा ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ ४.५६.१४ ॥

勇力与德罗纳相当,是我父亲最好的朋友——我与他作战时,御者啊,请慢慢驾车。

4.56.15

यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः ।
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ॥ ४.५६.१५ ॥

其旗帜以金色贝螺和象鞍绳装饰,远远望去在战车上如闪电群般耀眼。

4.56.16

एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् ।
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ॥ ४.५६.१६ ॥

这位是毗迦尔坦之子迦尔纳,弓箭手中的楷模,我们永远坚定的敌人,总是出言刻薄。

4.56.17

यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः ।
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ॥ ४.५६.१७ ॥

正是凭借其庇护之力,持国之子与沙古尼一起将我们逐出王国,今日仍会再次作战。

4.56.18

एष वै स्पर्धते नित्यं मया सह सुदुर्जयः ।
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ॥ ४.५६.१८ ॥

他总是与我争胜,极难战胜;这位大车战士正是雅玛达格尼之子罗摩的弟子。

4.56.19

सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः ।
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ॥ ४.५६.१९ ॥

迦尔纳精通一切兵器,是所有持械者中最优秀的;在战斗中勇力无双,箭术精准,骁勇善战。

4.56.20

अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना ।
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ॥ ४.५६.२० ॥

今日我将与这位御者之亲属交战。你将见证我们二人的战斗,正如毗利与婆娑之战一般。

4.56.21

महारथेन शूरेण सूतपुत्रेण धन्विना ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ ४.५६.२१ ॥

我与他——那位大车战士、英勇的御者之子、弓箭手——交战之时,御者啊,请快速驱车。

4.56.22

यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः ।
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ॥ ४.५६.२२ ॥

其车座上竖着宝石象旗者,便是那位被荣耀环绕的俱卢之子难敌。

4.56.23

लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ ४.५६.२३ ॥

我与他——善于命中、箭出必中、手法敏捷、威勇非凡——交战之时,御者啊,请快速驱车。

4.56.24

यस्तु श्वेतावदातेन पञ्चतालेन केतुना ।
वैडूर्यमयदण्डेन तालवृक्षेण राजते ॥ ४.५६.२४ ॥

那位以白色耀眼的五棵棕榈旗,以及青金石杆上的棕榈标志而光辉闪耀者。

4.56.25

हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् ।
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ॥ ४.५६.२५ ॥

手法娴熟、弓箭巨大的他站在那里,使军队欢欣;往昔他曾在单打独斗中被持斧罗摩(jāmadagnya)击败。

4.56.26

शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् ।
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ॥ ४.५६.२६ ॥

迅捷、善于一箭中的、手法轻巧而勇猛的,这便是山耶努之子毗湿摩,我们所有人的祖父。

4.56.27

ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः ।
जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः ।
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ॥ ४.५६.२७ ॥

诸军之冠,持械者中最优秀的,为胜利之光所缚,却听命于苏尤达纳;此人之后须撤走,以免成为我的障碍。

4.56.28

इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे ।
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ॥ ४.५६.२८ ॥

如此,普利塔之子急促地向乌陀罗描述了他们,以形貌和标记加以辨认,然后再次急忙赶赴战斗。