Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 4.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.57.1

अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान् ।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ॥ ४.५७.१ ॥

そこで勇猛なアシュヴァッターマンは、そこにいるカルナを見て微笑み、敵を制する御者の子に語った。

4.57.2

कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे ।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ ४.५७.२ ॥

カルナよ、おまえは集会の真ん中で、戦いにおいて私に並ぶ者はいないと、度を越して自慢していた。その時が今、おまえの前に訪れたのだ。

4.57.3

एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ॥ ४.५७.३ ॥

彼は怒れる死神のように、あらゆる生き物を砕く者として、戦陣の先頭の真ん中で獅子のように吠える。

4.57.4

शूरोसि यदि संग्रामे दर्शयस्व सभां विना ॥ ४.५७.४ ॥

もし戦いで勇敢ならば、集会の外でそれを示せ。

4.57.5

यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा ।
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ॥ ४.५७.५ ॥

もし不可思議な行いをするパールタとの戦いで無力なら、再び集会へ行き、母方の叔父を連れ、賢明なドリタラーシュトラの息子と、望むままに速やかに相談するがよい。

4.57.6

एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने ।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ॥ ४.५७.६ ॥

そう言われたカルナは怒りに目を剥き、クルの人々の前でドローナの息子にこの言葉を語った。

4.57.7

नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ ४.५७.७ ॥

私はビーバトス(アルジュナ)を恐れない。デーヴァキーの子クリシュナも、パーンダヴァの誰をも恐れない。私はクシャトリヤの義務に従う者である。

4.57.8

सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ॥ ४.५७.८ ॥

勇気に優れ、弓術によって生計を立てる人々のうち、声高に叫ぶ者には誇りが生じ、その声は揺らがない。

4.57.9

पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ॥ ४.५७.९ ॥

師の子(アシュヴァッターマン)よ、見るがよい。私は迅速にアルジュナと激しく戦っている。勝利は確かに私のうちにある。

4.57.10

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ॥ ४.५७.१० ॥

そこで笑いながら、クンティーの子、白馬を御す者、戦車の戦士の中で最良のビーバトス(アルジュナ)は、確信をもって神々の武器を顕現させた。

4.57.11

महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः ।
उवाच स महाराज राजा दुर्योधनस्तदा ॥ ४.५७.११ ॥

大王よ、そのとき愚かなドリタラーシュトラの子、王ドゥルヨーダナは、その偉大な者(アルジュナ)を見て、深いため息をつきながら語った。

4.57.12

न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ॥ ४.५७.१२ ॥

我々はアルジュナがマツヤ王(ヴィラータ)の館に住んでいるとは知らなかった。だからこそ、カルナよ、我々はマツヤ人から多くの富を奪ったのだ。

4.57.13

एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ॥ ४.५७.१३ ॥

それならば、この莫大な財を捨てて去ろう。両世界において不名誉が我らを越えることはない。

4.57.14

किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम् ।
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ॥ ४.५७.१४ ॥

クシャトリヤにとって戦いに勝る喜びはない。ゆえにパールタと戦おう、逃げはしない。

4.57.15

एतावदुक्त्वा राजा वै ह्यभियानमियेष सः ।
तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ॥ ४.५७.१५ ॥

こう言って王は進軍を望んだ。そして一万の弓兵が、火に飛び込む蛾のようにパールタへ殺到した。

4.57.16

वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः । ॥ ४.५७.१६ ॥

そこには甲冑をつけた馬があり、歩兵が付き従っていた。手に投槍と象の鉤を持つ恐ろしい姿の象もいた。

4.57.17

अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः ।
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ॥ ४.५७.१७ ॥

象の調教に熟達した、よく備えた騎手たちが乗り、ひどく怒り、手に弓を持ち武器を振り上げて、前へ突進した。

4.57.18

पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन् ।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ॥ ४.५७.१८ ॥

五人の卓越した戦車の戦士が素早く彼を取り囲んだ。ドローナ、ビーシュマ、カルナ、そして勇猛なクルの王である。

4.57.19

अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः ।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ ४.५७.१९ ॥

大臂のアシュヴァッタマンは弓術に専念し、雨季の雲のように巧みに矢を放っていた。

4.57.20

ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम् ।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ॥ ४.५७.२० ॥

利益を得たと思い込んで、彼らはダナンジャヤに応戦し、矢の奔流を注ぎ、十方を轟かせた。

4.57.21

ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः ।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ॥ ४.५७.२१ ॥

そこでクンティーの子、白馬のアルジュナ(ビーバッツ)は笑い、神の武器を放って、あの最上の戦車兵たちに応じた。

4.57.22

यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ॥ ४.५७.२२ ॥

太陽が光線で大地を覆うように、彼はガーンディーヴァから放たれた矢で方角を覆った。

4.57.23

न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम् ।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ॥ ४.५७.२३ ॥

戦車、馬、旗、鎧の戦士たちの間は、鋭い矢に貫かれて、二指の幅ほどの隙間さえ残らなかった。

4.57.24

दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च ।
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात्।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ॥ ४.५७.२४ ॥

運命の働きにより、パールタとウッタラの馬は、技と力に恵まれ、武器の巧みな動きによって、また旗とガーンディーヴァの神力と幻術によって守られた。

4.57.25

इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके ।
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ॥ ४.५७.२५ ॥

あちらこちらへ、走る戦車の中で、遠くでも近くでも、険しい地でも凸凹の地でも、平地でも窪地でも、大地の上でも、彼の戦車の進みは心のように決して止められなかった。

4.57.26

समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान् ।
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि। ॥ ४.५७.२६ ॥

戦に熟達した者たちは、彼の様々な機動、極めて驚くべき武勇、そしてパールタの力を見て恐れおののいた。こうして敵は怯え、戦車さえも背を向けて逃げ去った。

4.57.27

कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥ ४.५७.२७ ॥

時の火のように、生きとし生けるものを焼き尽くすかのようなビーバトスをも、敵は見ることができなかった。燃え盛る火のように。

4.57.28

तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः ।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ॥ ४.५७.२८ ॥

アルジュナの矢に砕かれたそれらの軍勢は、太陽の光に満たされた濃い雲のように輝いた。

4.57.29

अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ॥ ४.५७.२९ ॥

アショーカの林が集められた美しい花で彩られるように、パールタは血に乱れた軍勢を血で彩った。

4.57.30

सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च ।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ॥ ४.५७.३० ॥

アルジュナの矢によって幾千にも切られた高低さまざまな天蓋と旗を、絶えず動く風が空へと運んだ。

4.57.31

ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश ।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ॥ ४.५७.३१ ॥

アルジュナの力に怯えて十方へ逃げ去った者たち。パールタが軛を断ち切った馬たちは、その場所で車を捨てた。

4.57.32

निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः ।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ॥ ४.५७.३२ ॥

前脚を断たれた馬たちは鋭い矢に倒れた。まず頭から、次に後尾から、馬たちは大地に達した。

4.57.33

चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान् ।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ॥ ४.५७.३३ ॥

目、鼻孔、牙、牙の覆いやその他の急所を打ち、こうして最上の象たちを倒した。

4.57.34

कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ॥ ४.५७.३४ ॥

意識を失ったカウラヴァと象たちの屍によって、大地は一瞬にして覆われた。あたかも空が雲に覆われるように。

4.57.35

अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसंभूतः कालाग्निरिव संवृतः ॥ ४.५७.३५ ॥

神聖な武器をもつ大腕のアルジュナは、笑っているかのように、バダバの牝馬の口から生まれた時の火のように囲まれていた。

4.57.36

यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ॥ ४.५७.३६ ॥

ユガの終わりの時、猛烈な炎の火が、時に熟したすべての不動と動くものを、残すことなく焼き尽くすように。

4.57.37

तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च ।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ॥ ४.५७.३७ ॥

同様にパールタはその武器の輝きと弓の弦音、神通力と勇気によって、あのドゥルヨーダナの軍勢を震え上がらせた。

4.57.38

रणे शक्तिममित्राणां प्रणीयोपनिनाय सः ।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ॥ ४.५७.३८ ॥

戦場で彼は敵の力を砕き、彼らを(死へと)導いた。夜がほとんどの生き物の活動を静めるように。

4.57.39

सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे ।
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ॥ ४.५७.३९ ॥

彼は突如敵を突き抜けて進み、敵も突如として彼に襲いかかった。彼の武器は迅速で遠くまで届き、堅固で外れることがなく、人間離れしていた。その人間を超えた武勇を見て、カウラヴァたちは恐怖した。

4.57.40

खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव ।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ॥ ४.५७.४० ॥

アルジュナの空は、鳥のような羽根を持つ血を飲む矢によって覆われた。矢は天を満たし、鳥のように飛んだ。

4.57.41

अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ॥ ४.५७.४१ ॥

ガーンディーヴァの弓の射手アルジュナが放った矢は、ガルダのごとき速さで空を飛び、敵の急所を貫いた。

4.57.42

वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ॥ ४.५७.४२ ॥

鎧、御者、馬の金網の馬具、太陽のように輝く宝冠、虎の皮の盾もまた貫かれた。

4.57.43

ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे ॥ ४.५७.४३ ॥

すると敵の矢で戦車のすべての部分が覆われ、霧に包まれた生き物のようにそこで輝いた。

4.57.44

सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ॥ ४.५७.४४ ॥

敵は一度たりとも彼に立ち向かえなかった。そして彼らがまだ触れてもいなかったその戦車が、彼らに襲いかかった。

4.57.45

तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ॥ ४.५७.४५ ॥

彼の矢が敵の身体に刺さったままにならなかったように、ビーバトス(アルジュナ)の戦車も両軍の間で動けなくなることはなかった。

4.57.46

स तद्धि क्षोभयामास विगाह्यारिबलं रथी ।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ॥ ४.५७.४६ ॥

その戦車の戦士は敵軍に突入してそれをかき乱した。無限の速さをもつ蛇が大洋で戯れながら水を揺り動かすように。

4.57.47

अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ॥ ४.५७.४७ ॥

矢を放つ冠を戴く者(アルジュナ)の弓の轟きは、常に他のすべての音を遥かに超えて生き物たちに聞こえていた。

4.57.48

संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः ।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ॥ ४.५७.४८ ॥

そこでは象たちが矢に貫かれ、互いの間にわずかな隙間しか残っておらず、太陽の光線で縫い合わされた雲のように見えた。

4.57.49

दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः ।
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥ ४.५७.४९ ॥

戦いの中、四方を駆け巡りながら左右に矢を放ち、矢と弓の円がつねに見えた。

4.57.50

पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन ।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ॥ ४.५७.५० ॥

目が見えないものに決して向かわないように、ガーンディーヴァの弓を持つ者の矢は見えない的には落ちなかった。

4.57.51

महागजसहस्रस्य युगपन्मृद्गतो वनम् ।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ॥ ४.५७.५१ ॥

千頭の大象が一度に踏みしだいた森のように、戦場におけるクンティーの息子の戦車の道はさらに恐ろしいものとなった。

4.57.52

नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह ।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ॥ ४.५७.५२ ॥

パールタの勝利を望むゆえに、インドラは全ての不死者とともに我々を殺しているのだと、パールタによって苦しめられた敵は考えた。

4.57.53

घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे ।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ॥ ४.५७.५३ ॥

戦場で敵を激しく殺すサヴィヤサーチン(アルジュナ)は、アルジュナの姿をした死神が生き物を呑み込んでいるかのように見えた。

4.57.54

कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ॥ ४.५७.५४ ॥

パールタに打たれていないクル軍の死体さえも、パールタの武勇を見ただけで、パールタに殺されたかのように倒れた。

4.57.55

ओषधीनां शिरांसीव कालपक्तिसमन्वयात् ।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ॥ ४.५७.५५ ॥

時が来て熟した薬草の穂が垂れるように、アルジュナへの恐れによってクル族の頭は垂れた。

4.57.56

चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ॥ ४.५७.५६ ॥

アルジュナは怒りのあまり、怒り狂った者たちさえも背を向けさせた。

4.57.57

अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित् ।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ॥ ४.५७.५७ ॥

アルジュナに再び貫かれた軍の先鋒は、所々で血の流れによって大地を血で覆った。

4.57.58

लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ॥ ४.५७.५८ ॥

風に舞い上がり血に混じった塵と、同じ血から立ち上った細かな血の滴によっても、大地は覆われた。

4.57.59

लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः ।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ॥ ४.५७.५९ ॥

血に濡れた武器によって砕かれ、血にまみれ、血の中に沈み、冠を戴く者(アルジュナ)によって殺された。

4.57.60

बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः ।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ॥ ४.५७.६० ॥

そこでは太陽の光線が真っ赤になり、その瞬間、空は夕暮れの雲のように赤く染まった。

4.57.61

अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः ।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ॥ ४.५७.६१ ॥

太陽が沈みきって引き返すことがあっても、パーンドゥの子らは引き返さない。敵を倒さずに退くことはなく、彼らは絶えず空虚な大言に長けてはいない。

4.57.62

तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान् ।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ॥ ४.५७.६२ ॥

戦いで勇猛に踏みとどまるそれら勇士すべてを、的を外さぬ彼は神々の武器で、弓を持つ者すべてに打ちかかった。

4.57.63

स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत् ।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ॥ ४.५७.६३ ॥

彼はドローナを七十三本の鉄の矢で射抜き、シャクニを八十本で、さらにドローナの子を速やかに七本で射抜いた。

4.57.64

दुःसहं दशभिर्बाणैरर्जुनः समविध्यत ।
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ॥ ४.५७.६४ ॥

アルジュナはドゥフサハを十本の矢で、ドゥフシャーサナを十二本で、シャラドヴァットの子クリパを三本で、シャーンタヌの子ビーシュマを六十本で、胸の間を射抜いた。

4.57.65

स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च ।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ॥ ४.५७.६५ ॥

彼はカルナを、金色で鋭い有刺の矢で射抜いた。敵のただ中で、ヴァーサヴァ(インドラ)の子は至高の矢で彼を打った。

4.57.66

स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः ।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ॥ ४.५७.६६ ॥

鎧ごとカルナを貫いた鋭い矢は、堅弓の者に放たれて、大地を裂きながら飛んでいった。

4.57.67

ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः ।
सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ॥ ४.५७.६७ ॥

続いて彼は四本の鋭い矢で四頭の馬を倒し、敵を制する者は御者の首を胴から切り落とした。さらに半月形の矢で、彼の手に握られた弓を断ち切った。

4.57.68

तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे ।
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥ ४.५७.६८ ॥

あらゆる武器に通じた大福の者カルナが射られ、馬と御者が殺されて戦車を失ったとき、軍は崩れ散った。