Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.61.1

एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः ।
आजगाम महाबाहुः कृपः शस्त्रभृतांवरः ।
अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः। ॥ ४.६१.१ ॥

此时,英勇无比、力大无穷的克里帕,持兵器者中之最优者,大战车武士,渴望与阿周那交战,来到了那里。

4.61.2

अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् ।
आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम् ॥ ४.६१.२ ॥

随后阿周那离开德罗纳之子的战车,迅速来到克里帕那辆光芒如日火的优良战车前。

4.61.3

तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ ।
वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ ४.६१.३ ॥

那二位英雄如太阳般光辉,皆为即将交战的大战车武士,二人伫立,犹如两朵降雨的云,熠熠生辉。

4.61.4

श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः ।
अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया ॥ ४.६१.४ ॥

阿周那再次拿起世上闻名的甘狄拔弓,这位婆罗多族中最优秀者,一排排地射出箭矢,向前推进。

4.61.5

कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम् ॥ ४.६१.५ ॥

克里帕也拿起弓,同样向阿周那逼近。

4.61.6

प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान् ।
कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः ॥ ४.६१.६ ॥

克里帕拿起强大的弓,向般度之子射出嗜血的铁箭,先是数以百计,接着又成千上万。

4.61.7

जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति ।
नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम् ॥ ४.६१.७ ॥

如雨季末的云层降下箭雨,使所有朋友欢喜,他与法尔古那(阿周那)交战。

4.61.8

विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः ।
चचार समरे पार्थश्चित्रमार्गान्विदर्शयन् ॥ ४.६१.८ ॥

般度之子、勇力无量的普利塔之子(阿周那)拉满强弓,在战场上移动,展示奇妙的路线。

4.61.9

सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः ।
एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः ॥ ४.६१.९ ॥

这位大力之主以箭充满了所有方位和中间方位,使天空四面皆如被同一阴影覆盖。

4.61.10

प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ।
उद्गतः समरे मेघो धाराभिरिव पर्वतम् ॥ ४.६१.१० ॥

灵魂无量的普利塔之子以数百支箭遮蔽了克里巴,如战场上升起的云以雨流遮盖山峦。

4.61.11

स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः ।
कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम् ॥ ४.६१.११ ॥

被那些如火焰般锐利的箭所刺中,克里巴在战场上愤怒起来,如无烟之火般熊熊燃烧。

4.61.12

ततः शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्दयित्वा महाबाहुर्ननाद समरे कृपः ॥ ४.६१.१२ ॥

于是大臂的克里巴以千支箭折磨无双威力的普利塔之子,在战场上发出吼声。

4.61.13

ततः कनकपुङ्खेन शरेण नतपर्वणा ।
बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम् ॥ ४.६१.१३ ॥

于是阿周那在战斗中以一支金羽、弯节的箭射穿了克里巴的上好旗帜。

4.61.14

ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह समरे पार्थो भूयो बहुशिलीमुखान् ॥ ४.६१.१४ ॥

随后,大力的阿周那在战斗中又取出如太阳般闪耀的铁箭和许多尸利穆客箭。

4.61.15

तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः ।
जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान् ॥ ४.६१.१५ ॥

于是这位大臂的刹帝利之最,以那些箭射杀了克里巴的车卫和正在作战的大车战士。

4.61.16

चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद ।
मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः ॥ ४.६१.१६ ॥

月幢、善幢、杂马、摩尼蔓、勇猛的草环以及金色令人恐怖者,

4.61.17

सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च ।
नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः ॥ ४.६१.१७ ॥

苏罗陀、阿提罗陀、苏弊那、阿利瑟吒和那罗幢,连同他们的军队,都失去生命倒地。

4.61.18

तान्निहत्य ततः पार्थो निमेपादिव भारत ।
पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान् ॥ ४.६१.१८ ॥

婆罗多啊,阿周那杀了他们之后,几乎在瞬息之间又将十三支尸利穆客箭搭上了弓。

4.61.19

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः ॥ ४.६१.१९ ॥

随后他以一箭射断车轭,以四箭射四马,以第六箭在战中斩下了克里巴的御者之首。

4.61.20

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु भल्लेन कृपस्य सशरं धनुः ॥ ४.६१.२० ॥

这位大力者以三箭斩断三节的车辕,以两箭断车轴,又以第十二支阔头箭斩断克里巴的弓及其箭。

4.61.21

छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे ॥ ४.६१.२१ ॥

阿周那以如雷电般的箭斩断之后,仿佛含笑,他这位与因陀罗相等的英雄,以第十三支箭射中克里巴的胸膛正中。

4.61.22

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् ।
चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे ॥ ४.६१.२२ ॥

他弓已断,车已失,马与御者皆已战死,便抓起一支如日如火般明亮的长矛,怒气冲冲地突然朝这位行奇迹之事的普利塔之子投去。

4.61.23

तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम् ।
रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम् ॥ ४.६१.२३ ॥

阿周那以锋利的半月形箭头之箭,拦住了那支镶嵌黄金的长矛。

4.61.24

आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ।
सापतद्दशधा भूमौ पार्थेन निहता शरैः ॥ ४.६१.२४ ॥

那支如大流星般坠落的长矛,他以十支箭斩断;被普利塔之子的箭射中,它碎成十段落到地上。

4.61.25

शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः ।
गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा।
गदां चिक्षेप सहसा पार्थायामिततेजसे ॥ ४.६१.२५ ॥

长矛被斩断后,这位杀敌者失去战车,又被箭矢所困,立即从战车上跳下,手持木槌,突然向无量光辉的般度之子(Pārtha)投掷木槌。

4.61.26

सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता ।
अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा ॥ ४.६१.२६ ॥

那根沉重的木槌,装饰着他的形象,一经投出,便被阿周那的箭矢击中,沿着原路返回而去。

4.61.27

अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत् ।
इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः ॥ ४.६१.२७ ॥

于是勇力微弱的克利巴拔出宝剑与名为“百月”的闪耀盾牌,想要杀死般度之子。

4.61.28

स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः ।
खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि ॥ ४.६१.२८ ॥

那位沙罗陀之子,伟大的导师,训练有素,迅捷地移动,如同在天空中飞行的人,依次持盾与剑在地上行走。

4.61.29

ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी ।
निमेषादिव चिच्छेद तदद्भुतमिवाभवत् ॥ ४.६१.२९ ॥

于是昆提之子以十支利刃箭,仿佛在一瞬间斩断了剑与盾,那景象令人惊叹。

4.61.30

विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः ।
दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत् ॥ ४.६१.३० ॥

在那里,他仿佛因剑与盾的毁灭而沮丧,用牙齿咬住嘴唇,心中长久地燃起怒火。

4.61.31

भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः ।
अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे।
स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः ॥ ४.६१.३१ ॥

他再次说道:"就这样吧。"大光辉的克里帕准备退出战斗,扑向他外甥阿什瓦塔曼的战车,并重新拿起了弓。

4.61.32

एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत् ।
दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम् ॥ ४.६१.३२ ॥

这时,愤怒的毗湿摩对德罗纳说,他看见克里帕被法尔古那所困,却仍然强大。

4.61.33

एकैकमस्मान्संग्रामे पराजयति फल्गुनः ।
अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च।
अन्ये च बहवः शूरा वयं जेष्याम वासविम् ॥ ४.६१.३३ ॥

在战斗中,法尔古那一个一个地击败我们。但我、德罗纳、迦尔纳、德罗尼(阿什瓦塔曼)、乔答摩(克里帕)以及其他许多英雄都在这里;我们将战胜婆薮之子(阿周那)。

4.61.34

समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः ।
अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत ॥ ४.६१.३४ ॥

于是,以毗湿摩和德罗纳为首的所有战车武士聚集起来,突然与阿周那交战,婆罗多的后裔啊。

4.61.35

स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।
प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान् ॥ ४.६१.३५ ॥

他用箭织成的罗网,从四面八方覆盖了那些大战车武士,如同雾气覆盖群山,以箭的洪流。

4.61.36

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥ ४.६१.३६ ॥

大象咆哮,战马嘶鸣,鼓声和螺号声响起,那声音变得喧嚣震天。

4.61.37

नागाश्वकायान्निर्भिद्य लौहानि कवचानि च ।
पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ ॥ ४.६१.३७ ॥

刺穿象与马的身体,以及铁甲,阿周那(Pārtha)的箭雨成百上千地落在地上。

4.61.38

त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते ।
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः ॥ ४.६१.३८ ॥

急速射出箭矢的般度之子(阿周那)闪耀光芒,如同秋日正午的烈日。

4.61.39

अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे ।
उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ ४.६१.३९ ॥

在战场上,不能承受从阿周那弓上射出的一切箭矢,溃散的车兵从车上、骑兵从马背上、步兵在地上,都向北逃去。

4.61.40

शरैस्तु ताड्यमानानां कवचानां महात्मनाम् ।
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः ॥ ४.६१.४० ॥

被箭矢击中的大德者的铜、银、铁甲中,发出巨大的声响。

4.61.41

छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम् ।
श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम् ॥ ४.६१.४१ ॥

战场被失去知觉者的尸体覆盖,骑兵因疲惫而兵器滑落,纷纷坠落。

4.61.42

शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम् ।
प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः ॥ ४.६१.४२ ॥

空出车座,以人体覆盖大地,手持弓的财富征服者(阿周那)在战场上仿佛在舞蹈。

4.61.43

शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः ।
श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने।
त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश ॥ ४.६१.४३ ॥

在战场上,那位人中雄牛砍下了刹帝利们的头颅。听到甘狄拔弓的轰鸣,仿佛毗湿奴被金刚杵所败,所有军队惊恐万分,四散崩溃。

4.61.44

कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।
पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि ॥ ४.६१.४४ ॥

只见战场上倒下的头颅,戴着耳环与头巾,佩着金色花环。

4.61.45

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥ ४.६१.४५ ॥

大地被被箭矢摧毁的躯体、连同弓的手臂、手以及其他饰物所覆盖,闪闪发光。

4.61.46

शिरसां पात्यमानानां समरे निशितैः शरैः ।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥ ४.६१.४६ ॥

婆罗多族的雄牛啊,战场上被锐利的箭矢射落的头颅如雨,恰似天空降下的石雨。

4.61.47

दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः ।
जघान समरे शूराञ्छतशोऽथ सहस्रशः ॥ ४.६१.४७ ॥

那位威猛异常的英雄显示出他可怕的形象,在战场上杀死了成百上千的勇士。

4.61.48

तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च ।
क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः ॥ ४.६१.४८ ॥

如此在森林中被困十三年之后,般度之子在战场上将他愤怒的火焰倾泻在持国的儿子们身上。

4.61.49

तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम् ।
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत ॥ ४.६१.४९ ॥

众武士见他焚烧那支军队、目睹其威勇,婆罗多啊,持国之子的所有战士都转而求和。

4.61.50

यथा नलवनं नागः प्रभिन्नः षष्टिहायनः ।
एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा ॥ ४.६१.५० ॥

如六十岁发情的象踩踏芦苇林,阿周那便以武器的光辉将他们全部碾碎。

4.61.51

विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान् ।
अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत ॥ ४.६१.५१ ॥

驱散军队、惊吓众大车战士之后,胜利者中最优秀的阿周那,婆罗多啊,便掉头返回。

4.61.52

तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥ ४.६१.५२ ॥

他在战场上穿梭杀戮,于是一条可怖的河流涌现,河中波涛尽是血与肠。

4.61.53

अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् ।
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ॥ ४.६१.५३ ॥

那是一条可怖的河流,骨苔满布,由普利塔之子在战斗中造成,箭与弓作为漂浮的残骸,是血肉淤泥。

4.61.54

रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम् ।
करवालासिपाठीनां चामरोष्णीषफेनिलाम् ॥ ४.६१.५४ ॥

它的船是战车,它的蛇是肠子,它的苔藓与草是头发,它的鱼是剑与匕首,它泛着拂尘与头巾的泡沫。

4.61.55

अश्वग्रीवामहावर्तां कबन्धजलमानुषाम् ।
काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम् ॥ ४.६१.५५ ॥

一条凶猛的河流,马颈为大漩涡,无头躯体与人为水,回响着乌鸦和鹤鸟的鸣叫,充满了鹤与鹭的呼唤。

4.61.56

सिंहनादमहानादां शङ्खस्वनमहास्वनाम् ।
वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम् ॥ ४.६१.५६ ॥

充满狮子的巨吼与海螺的洪亮之声,以英雄头颅化成的莲花为盛,有着箭与弓的巨大火焰。

4.61.57

पदातिमत्स्यकलुषां गजशीर्षककच्छपाम् ।
गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम् ॥ ४.६१.५७ ॥

步兵如鱼使之浑浊,象头如龟,回荡着豺狼群的嚎叫,充满肉与骨髓的泥淖。

4.61.58

प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् ।
अपारामनिवासां च रक्तोदां सर्वतो वृताम् ॥ ४.६१.५८ ॥

他们使那可怖的河流奔流,那里为鬼怪群所聚,没有彼岸,没有栖身之所,流淌着血,四面环绕。

4.61.59

अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम् ।
गजवर्ममहाद्वीपामश्वदेहमहाशिलाम् ॥ ४.६१.५९ ॥

阿周那不断地造就那条河,其中流淌着上好的血,其大岛是象甲,其大石是马身。

4.61.60

पदातिदेहसंघाटां रथावलिमहातरुम् ।
केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम् ॥ ४.६१.६० ॥

有步兵尸身的堆积,车阵如大树,被发丝之草覆盖,对人而言极为可怖。

4.61.61

अगाधरक्तोदवहां यमसागरगामिनीम् ।
दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप।
प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः ॥ ४.६१.६१ ॥

他使这条可怕的河流奔涌——它载着深不可测的鲜血,流向阎摩之海;怯懦的凡人难以渡过,勇者却易于跨越。啊,国王,这是帝释之子(阿周那)所为。

4.61.62

तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः ।
विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम् ॥ ४.६१.६२ ॥

当他取箭、搭箭、放箭、拉开甘狄拔弓时,这些动作之间竟看不到一丝间隙。