Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 4.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.63.1

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् ।
समार्पयन्महावेगाज्ज्वलतः पन्नगानिव ॥ ४.६३.१ ॥

すると勇猛なビーシュマは、燃え盛る蛇のような大きな勢いで、パールタの旗に八本の矢を放った。

4.63.2

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः ।
ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान् ॥ ४.६३.२ ॥

その羽根のついた矢はパーンドゥの子の旗に達し、旗の上の猿と旗の先端に住む者たちを打った。

4.63.3

सारथिं च हयांश्चास्य विव्याध दशभिः शरैः ।
उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः ॥ ४.६३.३ ॥

彼は十本の矢で彼の御者と馬を射抜き、三本の鉄の矢でパールタの胸を打った。

4.63.4

ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम् ।
ध्वजं च सारथिं चापि विव्याध दशभिः शरैः ॥ ४.६३.४ ॥

するとアルジュナは鋭い矢でクル族の祖父を射抜き、その旗と御者をも十本の矢で射た。

4.63.5

तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम् ।
भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ ४.६३.५ ॥

ビーシュマとパールタとのその戦いは、バリとヴァーサヴァ(インドラ)の戦いのように恐ろしく、身の毛もよだつほど驚くべきものとなった。

4.63.6

सन्ततं शरजालाभिराकाशं समपद्यत ।
अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः ॥ ४.६३.६ ॥

二人の弓から放たれた矢の網で空は絶え間なく満たされ、雲からの雨の流れのようであった。

4.63.7

भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे ।
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ ४.६३.७ ॥

戦場で、クルとパーンダヴァが鉤矢で鉤矢を打ち合うと、雨季の蛍のように空に輝いた。

4.63.8

अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे ।
गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः ॥ ४.६३.८ ॥

戦場で、火の口のように恐ろしいアルジュナのガーンディーヴァ弓は円形に引き絞られ、勝者は左右の手で射た。

4.63.9

पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।
अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः ॥ ४.६३.९ ॥

雨雲が水の流れで山を覆うように、アルジュナは幾度となく矢の雨でビーシュマを覆った。

4.63.10

तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् ।
व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत् ॥ ४.६३.१० ॥

海のように湧き上がったその矢の雨を、ビーシュマは自らの矢で砕き、アルジュナをも押しとどめた。

4.63.11

ततस्तानि विसृष्टानि शरजालानि सङ्घशः ।
आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति ॥ ४.६३.११ ॥

そこで彼らが放った矢の網は群れをなして押し寄せたが、アルジュナの戦車に当たって砕け散った。

4.63.12

ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः ।
पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः ॥ ४.६३.१२ ॥

そのとき、金の羽根の先、鋭く節の曲がった、鳥の羽根の矢が落ちてきて、空は矢に覆われた。

4.63.13

ततः प्रासृजदुग्राणि शरजालानि पाण्डवः ।
तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत् ॥ ४.६३.१३ ॥

そこでパーンダヴァは激しい矢の網を放ち、ビーシュマはパールタに向けて同じ数の矢の網を送った。

4.63.14

साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः ।
प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः ॥ ४.६३.१४ ॥

バラタ[ビーシュマ]は子牛の歯の矢で、馬と御者と戦車ごとパールタを完全に覆い、金の羽根の矢で四方と空を覆い隠した。

4.63.15

ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन् ।
दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत् ॥ ४.६३.१५ ॥

そこで神々、仙人、ガンダルヴァたちは「善いかな、善いかな」と讃え、ビーシュマがアルジュナを食い止めて困難な業を成し遂げたと称えた。

4.63.16

बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः ।
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ ४.६३.१६ ॥

力強く、巧みで、行動の速いパーンダヴァ・アルジュナ——戦場でパールタの勢いを受け止められる者が他にあろうか。

4.63.17

ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।
आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात् ॥ ४.६३.१७ ॥

シャンタヌの子ビーシュマ、デーヴァキーの子クリシュナ、あるいは師のうち最も優れた大力のバーラドヴァージャの子(ドローナ)を除いて、ほかに誰がいようか。

4.63.18

अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ ।
चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ ॥ ४.६३.१८ ॥

武器で武器を防ぎ、遊ぶかのように、二人の人中の最上者、大力の英雄は、あらゆる存在の目を喜ばせた。

4.63.19

प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।
कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।
प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः ॥ ४.६३.१९ ॥

二人の偉大な魂は、プラージャーパティヤ、アインドラ、極めて恐ろしいアーグネーヤ、カウベーラ、ヴァールナ、ヤーミヤ、ヴァーヤヴヤの武器を用いて、戦場で輝いた。

4.63.20

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा ।
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ ४.६३.२० ॥

そのとき戦場で二人を見て驚いた生き物たちは言った。「見事だ、パールタ!見事だ、大臂のビーシュマよ!」

4.63.21

नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे ।
महास्राणां संप्रयोगं समरे भीष्मपार्थयोः ॥ ४.६३.२१ ॥

人間の中に、戦場でこのように大いなる武器を用いて見せられる者は他にいない——ビーシュマとパールタの戦いにおける大武器の使用はこのようであった。

4.63.22

एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ॥ ४.६३.२२ ॥

このように、あらゆる武器に通じた二人の間で武器の戦いが続いた。

4.63.23

अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम् ॥ ४.६३.२३ ॥

そこでジシュヌ(アルジュナ)は振り返り、鋭利な鷲の羽根の矢で金で飾られた弓を断ち切った。

4.63.24

निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे ।
समादाय नरव्याघ्रः सज्यं चक्रे महाबलः ॥ ४.६३.२४ ॥

瞬きする間に、ビーシュマは戦場で別の弓を取り、弦を張った——その大力の人中の虎は。

4.63.25

शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये ।
अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून्।
चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे ॥ ४.६३.२५ ॥

怒って彼はすぐさまダナンジャヤに多くの矢を放った。アルジュナもビーシュマに鋭い矢を数多く放ち、大いに輝くビーシュマもまた同様にパーンダヴァへ矢を放った。

4.63.26

तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् ।
न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः ॥ ४.६३.२६ ॥

王よ、神聖な武器に通じたあの二人の大いなる魂の者が絶え間なく矢を放っている間、そのときの二人の間には何の違いも見えなかった。

4.63.27

अथावृणोद्दश दिशः शरैरतिरथस्तदा ।
किरीटमाली कौन्तेयः शूरं शान्तनवं तथा ॥ ४.६३.२७ ॥

そのとき大戦車兵、宝冠を戴くクンティーの子は、矢で十方を覆い、勇猛なシャンタヌの子をも同様に覆った。

4.63.28

अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् ।
बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम् ॥ ४.६३.२८ ॥

王よ、その戦いではパーンダヴァがビーシュマに、ビーシュマがパーンダヴァに、ひたすら激しく向かい合った。それは世にも不思議な出来事であった。

4.63.29

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः ।
शेरते स्म महाबाहो कौन्तेयस्याभितो रथम् ॥ ४.६३.२९ ॥

ああ大腕の方よ、パーンダヴァに殺されたビーシュマの戦車の護衛の勇士たちが、クンティーの子の戦車のまわりに横たわっている。

4.63.30

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः ।
असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः ॥ ४.६३.३० ॥

そのとき、ガーンディーヴァから放たれた矢は、敵を一掃しようと望み、妨げなく、羽の付いた矢柄を備え、白馬の主(アルジュナ)の羽根の矢が飛び出した。

4.63.31

निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः ।
आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः ॥ ४.६३.३१ ॥

彼の戦車から飛び出した、金の衣をまとい輝く矢は、空に白鳥の列のように見えた。

4.63.32

तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ ४.६३.३२ ॥

彼が放つその神聖な武器は極めて強力で不思議であり、空に立つ神々はヴァーサヴァ(インドラ)とともにそれを見守っていた。

4.63.33

तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ ४.६३.३३ ॥

彼を見て大いに喜んだ威力あるガンダルヴァ、チトラセーナは、その不思議で驚くべき光景を神々の王インドラに報告した。

4.63.34

पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः ।
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥ ४.६३.३४ ॥

見よ、敵を引き裂くこれらの矢は互いにくっついて進むかのようだ。勝利者アルジュナが放つこの神聖な武器は、なんと奇妙な形を取ることか!

4.63.35

नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते ।
सौराणां च महास्राणां विचित्रोऽयं समागमः ॥ ४.६३.३५ ॥

人間はこれを信じないだろう。これは人間の間には見られないものだからだ。これは天界の大いなる武器が織りなす驚くべき集まりなのだ。

4.63.36

मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम् ॥ ४.६३.३६ ॥

正午の空に燃える太陽のように、軍勢はパーンダヴァを凝視することができなかった。

4.63.37

उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् ।
उभौ विचित्रकर्माणावुभौ युधि दुरासदौ ॥ ४.६३.३७ ॥

二人とも名高い行いを持ち、二人とも地上の王の中の勇士であり、二人とも不思議な行いを持ち、二人とも戦いで打ち負かし難い。

4.63.38

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् ।
पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ ४.६३.३८ ॥

こう言われて、神々の王はパールタとビーシュマの出会いを神聖な花の雨で称えた、バーラタよ。

4.63.39

अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत ।
अहमेको हनिष्यामि समेतान्सर्वपाण्डवान् ॥ ४.६३.३९ ॥

するとアシュヴァッターマンは速やかに近づき、カルナに言った。「私一人で、集まったパーンダヴァをすべて殺してみせよう。」

4.63.40

इति कर्म समक्षं मे सभामध्ये त्वयोदितम् ।
न तु तत्कृतमेकस्माद्भीतो धावसि सूतज ॥ ४.६३.४० ॥

「会議の中で、私の目の前で、お前はこの行いを宣言した。だがそれは一人の者にできることではない。御者の子よ、お前は恐れて逃げるのか。」

4.63.41

वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् ।
जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम् ॥ ४.६३.४१ ॥

ヴィチトラヴィーリヤの子孫は皆、お前を頼みとして、戦いでプリターの子らに勝とうと望んでいる。お前はパルグナと戦え。

4.63.42

अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा ।
प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया ॥ ४.६३.४२ ॥

アシュヴァッターマンの言葉を聞いて、ドゥリョーダナは怒りをもって、カルナの気に入ろうと望み、ドローナの子に答えた。

4.63.43

मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः ।
मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति ॥ ४.६३.४३ ॥

バラモンの最上者よ、名高い行いをする者の名誉を損なうな。名誉が傷つけば王たちの力は衰えるのだ。

4.63.44

शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते ।
पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः ॥ ४.६३.४४ ॥

勇士は戦いで言葉によって語るが、行為によって成し遂げる。戦場では自らの力量に応じて武勇を示すのだ。

4.63.45

तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् ।
राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ॥ ४.६३.४५ ॥

ゆえに、勇士たちに尊ばれる彼を非難するのは、あなたにふさわしくない。王がこのように言うと、ドローナの子は怒りを捨てた。

4.63.46

ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत् ।
अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः ॥ ४.६३.४६ ॥

そのとき、シャンタヌの子ビーshmaは、矢を放つサヴィヤサーチンの無防備な脇腹めがけて矢を向けた。

4.63.47

ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम् ।
न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः ॥ ४.६३.४७ ॥

そのとき、ビーバツス(アルジュナ)は力強く、幅広の刃と禿鷹の羽を持つ矢で、無限の威光を持つビーシュマの弓を断ち切った。

4.63.48

अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे ।
यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः ॥ ४.६३.४८ ॥

すると、クンティーの子ダナンジャヤは、奮闘する勇猛な彼を背後から十本の矢で胸の中央に射抜いた。

4.63.49

स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।
गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः ॥ ४.६३.४९ ॥

傷ついた大腕の戦士は戦車の轅を掴み、揺らぐ灯火のように立っていた。戦場で打ち破れぬガーンゲーヤである。

4.63.50

तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ ४.६३.५० ॥

戦車の馬の御者は意識を失った彼を遠くへ運び去った。教えを思い出し、その大戦車の武士を守ったのである。

4.63.51

पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे ।
शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने ॥ ४.६३.५१ ॥

武勇において、勇猛において、気力において、胆力において、力において、戦において、あらゆる武器と飛び道具において、機敏さにおいて、遠くから射ることにおいて;

4.63.52

यस्य नास्ति समो लोके पितृदत्तवरश्च यः ।
जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः ।
यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः ॥ ४.६३.५२ ॥

世に比ぶる者なく、父から恩恵を受けた人。疲労と敵に打ち勝ち、怠りなく疲れを知らぬ人。自らの意志で死を選べる勇士、父に仕えることを喜びとする人。

4.63.53

दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे ।
पृथासुतहितार्थाय पराजित इवाभवत् ॥ ४.६३.५३ ॥

ドゥルヨーダナの利益のためにパールタと戦い、プリター の息子たちの利益のために、まるで敗れたかのようになった。