Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.71.1

युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा ।
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ॥ ४.७१.१ ॥

昔日来观人间战斗的诸天神,此后做了什么?无垢者啊,请告诉我。

4.71.2

वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः ।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ॥ ४.७१.२ ॥

以因陀罗为首的诸神,诸仙人走在前面,夜叉与乾闼婆的群众,以及天女的队伍。

4.71.3

युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च ।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ॥ ४.७१.३ ॥

目睹库鲁族与法尔古那(阿周那)的人间之战,一人对众人,那是可怖而极为凶猛的景象。

4.71.4

अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान् ।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ॥ ४.७१.४ ॥

神圣武器的运用与积聚,以及娴熟战士轻捷、精妙而奇异的技艺,皆竭力施展。

4.71.5

भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना ।
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ॥ ४.७१.५ ॥

诸天神见到毗湿摩、沙罗檀婆之子俱利波、德罗纳、迦尔纳,以及被持甘提婆弓者所征服的其他诸王之后,便离去了。

4.71.6

सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः ।
असङ्गतिना तेन विमानेनाशुगामिना।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ॥ ४.७१.६ ॥

诸天神皆心满意足,反复赞叹,乘坐那无与伦比、疾行如飞的天车,无所执着地,回归三界天上。

4.71.7

कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः ।
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः ।
पार्थेनैकेन संग्रामे विस्मयो नो महानहो ॥ ४.७१.७ ॥

俱卢众人——毗湿摩、德罗纳、克里巴等——即使天神、连同因陀罗的全体、以及一切天神与阿修罗也不能战胜,却在战场上被单独一人的普利塔之子所征服。这对我们是极大的惊异,啊!

4.71.8

कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् ॥ ४.७१.८ ॥

他在哪个时辰降生?或者这是哪种法的果报?

4.71.9

किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत् ।
निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् ॥ ४.७१.९ ॥

这位法尔古那有何奇异之处?他与楼陀罗一同作战,在战场上击败了三千万尼瓦塔卡瓦恰。

4.71.10

तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः ।
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ॥ ४.७१.१० ॥

他们赞叹道:“对他来说这有什么奇异的?”那些天神欢喜而心怀惊异,返回了天神的居所。

4.71.11

कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः ।
कुरूनभिमुखां याताः समग्रबलवाहनाः ॥ ४.७१.११ ॥

俱卢众人被阿周那的箭所击打,身受箭伤,率领全部军队与车马,面向俱卢而去。

4.71.12

विराटनगराच्चैव गजाश्वरथसंकुलाः ।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ॥ ४.७१.१२ ॥

从毗罗吒城出发,那里挤满了象、马与车,由刹帝利族的强壮武士所占据。

4.71.13

विराटप्रहिता सेना नगराच्छीघ्रयायिनी ।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ॥ ४.७१.१३ ॥

毗罗吒所遣之军迅速出城,降敌者优多罗与御者一同出发。

4.71.14

तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले ।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ॥ ४.७१.१४ ॥

在那响彻数百鼓角、充满象马车驾的地方,妇女与孩童中升起一片喧腾的欢呼。

4.71.15

अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् ।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत ॥ ४.७१.१५ ॥

此时,阿周那见军队扬起的尘埃,又听得军旗之事,便对毗罗吒之子说道。

4.71.16

नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः ।
किंनु खल्वपयातास्ते कुरवो नगरं गताः ॥ ४.७१.१६ ॥

城中喧嚣,尘土弥漫天空。难道俱卢人已经撤退,回城去了吗?

4.71.17

ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः ।
आमुञ्च कवचं वीर चोदयस्व च वाजिनः ।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ॥ ४.७१.१७ ॥

那些光辉的大弓手已被我们击败。勇士啊,披上铠甲,策马,迅速向毗罗吒城前进吧。

4.71.18

न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् ।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ॥ ४.७१.१८ ॥

尚未听到拍掌之声与甘狄拔弓的弦响,我也尚未展示我的旗帜;或许他们是亲族。

4.71.19

सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः ।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ॥ ४.७१.१९ ॥

这是摩差人军队的前锋;可见盛装的妓女和乘车的少女,还有穿着各式服饰的战士。

4.71.20

उत्तरामत्र पश्यामि सखीभिः परिवारिताम् ।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ॥ ४.७१.२० ॥

此处我看到被侍女环绕的优多罗;可见军队、披甲的象和马。

4.71.21

रथिनश्च पदाताश्च बहवो न च शस्त्रिणः ।
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ॥ ४.७१.२१ ॥

车兵和步兵,许多持械之人,因毗罗吒之令,都显得欢欣;此处我的心无阻碍,如同在亲人之中。

4.71.22

ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु ।
परस्परममित्रघ्नं सस्वजे तं समागतम् ॥ ४.७१.२२ ॥

于是众多亲族迅速上前,拥抱了前来的灭敌者优多罗。

4.71.23

प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः ।
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः।
दिष्ट्या संग्राममागम्य भयं तव न किंचन ॥ ४.७१.२३ ॥

这位人中之虎欢喜满怀,一再说道:幸运的是你得胜,愿你吉祥;幸运的是不增娜是你的御者;幸运的是你来到战场却毫无畏惧。

4.71.24

अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे ।
एतस्यक बाहुवीर्यं तद्येन गावो जिता मया।
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ॥ ४.७१.२४ ॥

这位独车战士贾什努(阿周那)在战场上征服了俱卢人。凭借他双臂的力量我夺得了牛群,而正是这位光芒无量的英雄,在战斗中击败了俱卢人。

4.71.25

अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा ।
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ॥ ४.७१.२५ ॥

这位如同天神之子的青年完成了那件功绩。这位人中之虎搅动了俱卢的阵营,在战斗中强行夺得了牛群,也保护了我。

4.71.26

उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् ।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ॥ ४.७१.२६ ॥

听到乌答罗赞颂阿周那的话语后,受王子催促的吉祥颂唱者宣布了胜利。

4.71.27

ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः ।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ॥ ४.७१.२७ ॥

于是少女们撒下香料、花环和丰盛的焚香,敬拜了杀敌者般遮婆(阿周那)。

4.71.28

आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः ।
संपूज्यमानो लोकेन नगरद्वारमागमत् ॥ ४.७१.२८ ॥

身上堆满花环与各种吉祥的香料,受到民众的礼敬,他来到了城门前。

4.71.29

भेर्यश्च तूर्याणि च वेणवश्च ।
विचित्रवेषाः प्रमदाजनाश्च।
पुरो विराटस्य महाबलस्य ।
निष्क्रम्य भूमिंजयमभ्यनन्दनम् ॥ ४.७१.२९ ॥

鼓、乐器与长笛,以及身着各色服饰的女子,走到大力的毗罗吒面前,欢迎大地征服者(阿周那)。

4.71.30

प्रशस्यमानस्तु जयेन तत्र ।
पुत्रो विराटस्य न हृष्यति स्म।
संभाष्यमाणस्तु जयेन तत्र ।
सोऽन्तर्मनाः पाण्डवमीक्षमाणः ॥ ४.७१.३० ॥

在那里,尽管胜者赞扬他,毗罗吒之子却并不欢喜。在那里,尽管胜者与他交谈,他心中不安,只望着般度之子。

4.71.31

पुत्र्यै विराटस्य ततो वराणि ।
वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः।
सभाजयंश्चापि समागतास्ता ।
दृष्ट्वा जयं तच्च बलं कुमार्यः ॥ ४.७१.३१ ॥

随后,般度之子把上好的衣裳赠给毗罗吒的女儿和她的女伴们。聚集在那里的少女们见到胜者和那支军队,也向他们表示敬意。