摩诃婆罗多 · 章 4.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.75.1
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः ।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ ४.७५.१ ॥
若此人是俱卢王、昆提之子坚战,那么他的兄弟阿周那是谁,强大的怖军又是谁?
4.75.2
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा ॥ ४.७५.२ ॥
无种、偕天,或名声显赫的德罗波蒂在何处?自他们在掷骰中皆被击败以来,中间再无任何消息传来。
4.75.3
य एष बललोऽभूत्ते सूपकारश्च ते नृप ।
एष भीमो महाभाग भीमवेगपराक्रमः ॥ ४.७५.३ ॥
大王,那位曾做您厨师的壮士,正是怖军;大福之人啊,他的速度与威勇令人生畏。
4.75.4
एष क्रोधवशान्हत्वा पर्वते गन्धमादने ।
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् ॥ ४.७५.४ ॥
他在愤怒驱使下,于健陀摩陀那山杀了(敌人),并为黑公主取来了香花。
4.75.5
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् ।
व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव ॥ ४.७५.५ ॥
此人确是乾闼婆,是杀死恶人迦旃那的人;在您的城中,他还杀死了老虎、熊和大象。
4.75.6
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् ।
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् ॥ ४.७५.६ ॥
他杀死了希滇跋、跋迦、基尔米罗和遮陀苏罗,使四方的森林没有荆棘,变得吉祥。
4.75.7
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप ।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ ॥ ४.७५.७ ॥
这位那古罗曾是你的马夫,焚敌者啊;数牛的萨诃提婆也是。二人乃玛德利的两个大力之子。
4.75.8
शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ ।
नानारथसहस्राणां समर्थौ भरतर्षभौ ॥ ४.७५.८ ॥
盛装打扮,相貌俊美,心志高远,能驾驭千百种不同战车——婆罗多族的两头雄牛。
4.75.9
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।
सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः ॥ ४.७५.९ ॥
这位眼如莲瓣、腰肢纤细、笑容甜美的,是侍女德罗波蒂,大王;正因她,迦旃迦被杀。
4.75.10
द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा ।
अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् ॥ ४.७५.१० ॥
德罗波蒂是德鲁帕达心爱的女儿、达里斯塔尤姆那的胞妹,生于祭火坑之中——请知悉此事。
4.75.11
अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु ।
धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः ॥ ४.७५.११ ॥
大地之上,通晓兵器者罕有;弓手中最杰出的,便是这位昆提之子达难闍耶。
4.75.12
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः ।
दग्धं नागवनं चैव सह नागैर्नराधिप ॥ ४.७५.१२ ॥
此人焚毁了坎达瓦森林,尽管百祭之主因陀罗并不愿意;龙森林连同群蛇也一并焚毁了,人主啊。
4.75.13
वर्षं च शरवर्षेण वारितं दुर्जयेन वै ।
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले ॥ ४.७५.१३ ॥
那位不可战胜者以箭雨甚至阻止了降雨;大地上的所有国王都被迫进贡。
4.75.14
स्त्रीवेषं कृतवानेष तव राजन्निवेशने ।
बृहन्नलेति यामाहुरर्जुनं जयतांवरम् ॥ ४.७५.१४ ॥
大王,在您的宫中,他曾装扮成女子。人称大女(Bṛhannalā)的,正是胜者中最优秀的阿周那。
4.75.15
उषिताःस्म सुखं सर्वे तव राजन्निवेशने ।
अज्ञातवासे निभृता गर्भवास इव प्रजाः ॥ ४.७५.१५ ॥
大王,我们在您的宫中都过得很快乐。在隐匿的流放中,我们隐藏着,如同在母胎中的众生。
4.75.16
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः ।
पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः ॥ ४.७५.१६ ॥
当阿周那说出您的五位英雄般般度之子时,优陀罗又把那些普利塔之子指给他们看。
4.75.17
य एष जाम्बूनदशुद्धगौर-
तनुर्महान्सिंह इव प्रवद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः ॥ ४.७५.१७ ॥
此人身体洁白如阎浮檀金,身材高大如狮子,鼻梁挺峻,双眼宽长,眼睛红而宽大,这就是俱卢王。
4.75.18
अयं पुनर्मत्तगजेन्द्रगामी ।
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसो गुरुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतैनम् ॥ ४.७५.१८ ॥
此人行走如发狂的象王,白净如烧炼的黄金,肩宽而阔,手臂粗长沉重,这就是狼腹(Vṛkodara)。看啊,快看此人!
4.75.19
यस्त्वेव पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपोपमः ।
सिंहोन्नतांसो गजराजगामी ।
पद्मायताक्षोऽर्जुन एष वीरः ॥ ४.७५.१९ ॥
在他身旁的那位,大弓手,肤色深黑而年轻,如象群之王,肩如雄狮般高耸,步履如象王,眼如莲花般宽阔——此英雄即阿周那。
4.75.20
राज्ञः समीपे पुरुषोत्तमौ तु ।
यमाविमौ विष्णुमहेन्द्रकलौ।
मनुष्यलोके सकले समोऽस्ति ।
ययोर्न रूपे न बले न शीले ॥ ४.७५.२० ॥
国王身边的这两位人中之最,是孪生兄弟,是毗湿奴与因陀罗的化身。在整个人间世界,没有谁能与他们相比——无论容貌、力量还是品性。
4.75.21
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी ।
यैषा प्रभा मूर्तिमतीव गौरी।
नीलोत्पलाभा सुरदेवतेव ।
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ ४.७५.२१ ॥
在他们身旁的那位,金色的肢体,白皙如化身的光芒,带着青莲的光泽,宛如女神——克里希那站在那里,仿佛吉祥天女亲自化身而来。
4.75.22
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः ।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥ ४.७५.२२ ॥
如此向国王介绍了那五位普利塔之子、般度五子之后,毗罗吒之子开始讲述阿周那的勇武。
4.75.23
अयं स द्विषतां मध्ये मृगाणामिव केसरी ।
अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् ॥ ४.७५.२३ ॥
这就是他,在敌人之中如狮子行于鹿群,穿梭于战车阵中,击杀其中的大人物与小人物。
4.75.24
अनेन विद्धा मातङ्गा महामेघोपमास्तदा ।
हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम् ॥ ४.७५.२४ ॥
被他射中的、如大云般的象群,披着金色鞍带,当时在战场上以象牙撞地而倒。
4.75.25
अनेन विजिता गावो निर्जिताः कुरवो युधि ।
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ ॥ ४.७५.२५ ॥
他夺回了牛群,在战场上击败了俱卢人;这海螺的声音使我的双耳变聋了。
4.75.26
जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम् ।
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः ॥ ४.७५.२६ ॥
回想起他弓弦的响声,我心中便升起令人毛发竖立的愤怒;旗上的猴子与它的随从众生一同呼啸。
4.75.27
नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान् ।
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे ॥ ४.७५.२७ ॥
他不取出可怖的箭,不射出箭雨,不拉开弓——在战斗中我看不到此人。
4.75.28
एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः ।
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः ॥ ४.७५.२८ ॥
从这张弓射出的带羽之箭,在战场上坠落于看不见的目标之上;以血为食的铁箭也纷纷坠落。
4.75.29
तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् ।
कलेबराणि दृश्यन्ते योधानां साश्वसादिनां ॥ ४.७५.२९ ॥
可见战士与骑兵的尸体,头颅、手臂、大腿和胸膛都被锋利的铁箭斩断。
4.75.30
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी ।
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः।
प्रकम्पते चण्डवायुकम्पिता कदली यथा ॥ ४.७५.३० ॥
他在那里让一条可怖的河流淌,河中流的是血水;想起它,我的心至今仍颤抖,如狂风中摇动的芭蕉。
4.75.31
अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः ।
दुर्योधनेन सहिता निर्जिता भीमकर्मणा ॥ ४.७५.३१ ॥
此王中英雄击败了以毗湿摩和德罗纳为首的车兵,以及与难敌同在的人,他是行事可怖之人。
4.75.32
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् ।
यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् ॥ ४.७५.३२ ॥
我怀着恐惧逃跑时,这位天神之子拦住了我;凭借他的臂力,我得以活着回到城中。
4.75.33
तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान् ।
धनंजयं परिष्वज्य पाण्डवानथ सर्वशः ॥ ४.७५.३३ ॥
摩差国的威猛国王听了他的话,拥抱了财主(阿周那),然后又拥抱了所有的般度五子。
4.75.34
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम् ।
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ॥ ४.७५.३४ ॥
向在王国中受灌顶的法王致敬之后,军队统帅毗罗吒王看他们看得不够。
4.75.36
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः ॥ ४.७५.३६ ॥
诸位人主,我的国土与你们不分彼此,对此毫无疑问。