Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 4.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.76.1

विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः ।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ ४.७६.१ ॥

乌塔拉听了大度之王毗罗吒的话,谦恭地对坚战回答道:

4.76.2

प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये ।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ॥ ४.७६.२ ॥

现在正是与般度之子和解的恰当时机,我赞同此事。愿光辉、强大、英勇的君主,诸王之王毗罗吒,去做吧。

4.76.3

उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन ।
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे। ॥ ४.७६.३ ॥

啊,降伏敌人者!让我们向般特耶(阿周那)顶礼,将我的妹妹乌塔罗献给他;那样我们便会受到尊敬。

4.76.4

वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ॥ ४.७६.४ ॥

我们全体连同大臣,去安抚贡提之子坚战,并侍奉在他面前。大王,我们该怎么做?

4.76.5

राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ॥ ४.७६.५ ॥

大王,您在战场上被俘,是他释放了您;而凭借这些人的臂力,您的牛群也被夺回。

4.76.6

कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ॥ ४.७६.६ ॥

因为无量光辉的俱卢族在战场上被击败,所以贡提之子坚战完成了这一切。

4.76.7

अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः ।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ॥ ४.७६.७ ॥

般度之子值得敬拜、尊重与敬重;应当起身迎接,以敬奉阿尔加之礼相迎,并施礼致敬。我认为此时正合时宜。

4.76.8

पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः ।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ॥ ४.७६.८ ॥

般度之子值得敬拜与尊崇,福分极大。他们若动怒,便如毒蛇一般,不会留下任何残余。

4.76.9

तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ॥ ४.७६.९ ॥

因此让我们迅速前往贡蒂之子坚战那里。在那里,我将与般度之子们一同安抚他。

4.76.10

उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम् ॥ ४.७६.१० ॥

我让乌塔拉走在前面,沐浴净身,合掌恭立。我了解他们每一个人的力量与勇武,了解他们出身于高贵的家族,也了解法尔古那(阿周那)的威勇。

4.76.11

उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः ।
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ॥ ४.७६.११ ॥

毗罗吒(Virāṭa)从乌塔拉处听闻般度之子的事,又看了看乌塔拉,这位灭敌者思忖此时正合时机。

4.76.12

ततो विराटः सामात्यः सहपुत्रः सबान्धवः ।
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ॥ ४.७६.१२ ॥

于是毗罗吒与大臣、诸子及亲属一同,让优多罗走在前面,头已沐浴,合掌,迅速伏倒在般度之子身旁的地上。

4.76.13

प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः ।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ॥ ४.७६.१३ ॥

愿大王、法之子坚战息怒。因您隐蔽的形貌与装束,被草覆盖的火未能被看见。

4.76.14

शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ॥ ४.७६.१४ ॥

我低首,连同诸子与侍从,已完全归依于您。

4.76.15

यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः ।
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ॥ ४.७६.१५ ॥

我们不知情,冒犯了大地之主。凡因无知而轻慢您、如对待常人所做的一切,您都应当宽恕,知法者,爱法者啊。

4.76.16

यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव ।
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः ॥ ४.७६.१६ ॥

陛下啊,我将这国土、城邑与王权,连同军队与库藏,全部交予您。陛下啊,我臣服于您。我们众人连同大臣,皆以您为归依。

4.76.17

तं धर्मराजः पतितं महीतले ।
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः ।
प्रनष्टमन्युर्गतशोकमत्सरः ॥ ४.७६.१७ ॥

法王见国王与其亲属伏倒在地,便开口说了这些话。他看见了来世,怒气已消,离开了忧愁与嫉妒。

4.76.18

समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ॥ ४.७६.१८ ॥

见到你,诸王之中最优秀者,我很欣慰。

4.76.19

क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव ।
न चैव किंचित्पश्यामि विकृतं ते नराधिप ॥ ४.७६.१९ ॥

大臂者啊,你对我所说的,我已宽恕。人主啊,我在你身上看不到任何不妥。

4.76.20

ततो विराटः परमामितुष्टः ।
समेत्य राज्ञा समयं चकार।
राज्यं च सर्वं विससर्ज तस्मै ।
सदण्डकोशं सपुरं महात्मा ॥ ४.७६.२० ॥

于是毗罗吒非常欢喜,与国王会面并订立了盟约;他将自己的全部王国,连同军队、府库和城市,交给了那位大德之人。