摩诃婆罗多 · 章 5.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.102.1
इदं रसातलं नाम सप्तमं पृथिवीतलम् ।
यत्रास्ते सुरभिर्माता गवाममृतसंभवा ॥ ५.१०२.१ ॥
这是大地的第七层,名为罗沙多罗(Rasātala),那里居住着从甘露中诞生的牛母苏罗毗(Surabhi)。
5.102.2
क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् ।
षण्णं रसानां सारेण रसमेकमनुत्तमम् ॥ ५.१०२.२ ॥
她不断流出从大地精华中生出的乳汁,那是由六种滋味的精华所成的唯一无与伦比的味道。
5.102.3
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा ।
पितामहस्य वदनादुदतिष्ठदनिन्दिता ॥ ५.१०२.३ ॥
往昔,祖父梵天已被甘露完全满足,吐出其精华,那无可指责者便从他的口中升起。
5.102.4
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले ।
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते ॥ ५.१०२.४ ॥
她的乳汁之流落到大地上,形成一个湖泊,名为乳海,被称为至高圣洁。
5.102.5
पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम् ।
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥ ५.१०२.५ ॥
岸边被泡沫环绕,如同开花的树木;这里居住着最杰出的圣者,他们饮用泡沫。
5.102.6
फेनपा नाम ते ख्याताः फेनाहाराश्च मातले ।
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥ ५.१०२.६ ॥
他们以「饮沫者」(Phenapa)之名著称,以泡沫为食,在摩多罗界(Mātala)修持严酷苦行,连诸神也畏惧他们。
5.102.7
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले ।
निवसन्ति दिशां पाल्यो धारयन्त्योदिशःस्म ताः ॥ ५.१०२.७ ॥
此牛的另外四头牛居于所有方位,御者摩多梨啊;作为方位的守护者,它们承载着各个方位。
5.102.8
पूर्वां दिशं धारयते सुरूपा नाम सौरभी ।
दक्षिणां हंसिका कनाम धारयत्यपरां दिशम् ॥ ५.१०२.८ ॥
东方由名为苏茹帕的娑罗婆伊牛承载;南方由哈姆西卡和卡娜玛承载,西方亦然。
5.102.9
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया ।
महानुभावया नित्यं मातले विश्वरूपया ॥ ५.१०२.९ ॥
西方,即伐楼那之方,确实由苏跋陀罗承载;摩多梨啊,由威力广大的毗湿伐如帕永恒承载。
5.102.10
सर्वकामदुघा नाम धेनुर्धारयते दिशम् ।
उत्तरां मातले धर्म्यां तथैलविलसंश्रिताम् ॥ ५.१०२.१० ॥
名为“满足一切欲望”的牛承载北方,摩多梨啊,她是正法的,同样居于艾拉维拉的庇护之下。
5.102.11
आसां त पयसा मिश्रं पयो निर्मथ्य सागरे ।
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥ ५.१०२.११ ॥
诸神与阿修罗联合,以曼陀罗山为搅棒,在海中搅动与她们乳汁相混的乳液,
5.102.12
अद्धृता वारुणी लक्ष्मीरमृतं चापि मातले ।
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥ ५.१०२.१२ ॥
摩多梨啊,婆罗尼、吉祥天女与甘露也被升起;还有马中之王乌磋兼什罗婆斯,以及珠宝宝石钦斯图巴。
5.102.13
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् ।
अमृतं चामृताशेषु सुरभी क्षरते पयः ॥ ५.१०२.१३ ॥
食甘露者得甘露,食供物者得供物;饮不死之物者得不死之物;神牛苏罗毗流出乳汁。
5.102.14
अत्र गाथा पुरा गीता रसातलनिवासिभिः ।
पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥ ५.१०२.१४ ॥
此处有一首古老的伽陀,昔日由下界罗萨塔拉的居民所唱;这首往世书中的诗在世间流传,智者们也歌唱它。
5.102.15
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे ।
परिवासः सुखस्तादृक् रसातलतले यथा ॥ ५.१०२.१५ ॥
无论在龙界、天界、天车中,还是三界之中,都没有像罗萨塔拉深处那样令人快乐的居所。