Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.103

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.103.1

इयं भोगवती नाम पुरी वासुकिपालिता ।
यादृशी देवराजस्य पुरी वर्याऽमरावती ॥ ५.१०३.१ ॥

此处有名为婆伽婆提的城市,由婆苏吉守护,如同天王那殊胜的阿摩罗缚底城。

5.103.2

एष शेषः स्थितो नागो येनेयं धार्यते सदा ।
तपसा लोकमुख्येन प्रभावसहिता मही ॥ ५.१०३.२ ॥

此蛇王舍沙立于此处,由他常常承载此大地;由世界之主的苦行,此具威力的大地(得以安立)。

5.103.3

श्वेताचलनिभाकारो दिव्याभरणभूषितः ।
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ॥ ५.१०३.३ ॥

形如白山,以天界饰物庄严,承载千头,舌如火焰,大力无比。

5.103.4

इह नानाविधाकारा नानाविधविभूषणाः ।
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ ५.१०३.४ ॥

此处住着苏罗莎的诸子蛇众,形貌各异,饰物各异,无忧无苦。

5.103.5

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः ।
सहस्रसंख्या बलिन सर्वे रौद्राः स्वभावतः ॥ ५.१०३.५ ॥

身饰宝珠、卍字与轮相,带有净瓶之相,数以千计,力大无穷,天性皆凶猛。

5.103.6

सहस्रशिरसः केचित्केचित्पञ्चशताननाः ।
शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च ॥ ५.१०३.६ ॥

有的千头,有的五百面,同样有的百头,也有的三头。

5.103.7

द्विपञ्चशिरसः केचित्केचित्सप्तसुखास्तथा ।
महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ ५.१०३.७ ॥

有的有十个头,有的有七个兜。它们盘绕庞大,身躯巨大,盘踞的范围如山岳般宽广。

5.103.8

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
नागानामेकवंशानां यथाश्रेष्ठं तु मे श्रुणु ॥ ५.१०३.८ ॥

此处同一族系的蛇有成千、成万乃至亿万之多。请听我按其尊卑次序一一道来。

5.103.9

वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ ।
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ ५.१०३.९ ॥

婆苏吉与德叉迦,迦尔科吒迦与达南遮耶,迦利耶与那呼沙,以及甘巴罗与阿湿伐多罗二者。

5.103.10

बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः ।
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ ५.१०३.१० ॥

巴希耶昆陀、蛇摩尼,以及阿普罗那、祆伽、伐摩那、瞿罗跋陀罗、俱俱罗与俱俱那。

5.103.11

आर्यको नन्दकश्चैव तथा कलशपोतकौ ।
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥ ५.१०३.११ ॥

阿利耶迦与难陀迦,迦罗舍与波陀迦,凯拉萨迦,品遮罗迦,以及蛇爱罗婆多。

5.103.12

सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ ।
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ॥ ५.१०३.१२ ॥

善意面、凝乳面、螺,难陀与优婆难陀,阿波多,俱吒罗迦,尸吉,以及尼湿图利迦。

5.103.13

तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः ।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥ ५.१०३.१३ ॥

提提利、象贤、鸠牟陀、鬘团、二莲花、白莲、花与木槌叶。

5.103.14

करवीरः पीठरकः संवृत्तो वृत्त एव च ।
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ ५.१०३.१४ ॥

迦罗毗罗、毗陀罗迦、三伏多与伏多、频陀罗、毕尔瓦叶、鼠食与舍利沙迦。

5.103.15

दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ॥ ५.१०३.१५ ॥

迪利巴、螺头、星宿、无胜、俱卢后、持国、呼呼罗与枯瘦等。

5.103.16

विरजा धारणश्चैव सुबाहुर्मुखरो जयः ।
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ॥ ५.१०३.१६ ॥

毗罗阇、持、善臂、多言、胜、聋与盲、毗首建迭、无味与美味等。

5.103.17

एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः ।
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥ ५.१०३.१७ ॥

这些以及其他许多人,都被记为迦叶的儿子。摩多梨啊,看这里,哪位新郎合你的心意。

5.103.18

मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै ।
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ ५.१०३.१८ ॥

摩多梨心平气和地持续观察,选中一位,就在那里问那罗陀,仿佛十分欢喜。

5.103.19

स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु ।
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ॥ ५.१०३.१९ ॥

站在考罗婆祖父阿里耶迦面前的这位光彩照人、俊美非凡的人,是哪一家族的喜悦?

5.103.20

कः पिता जननी चास्य कतमस्यैष भोगिनः ।
वंशस्य कस्यैष महान्केतुभूत इव स्थितः ॥ ५.१०३.२० ॥

他的父亲和母亲是谁?他属于哪一支蛇族?他像一面大旗,代表着谁的家族?

5.103.21

प्रणिधानेन धैर्येण रूपेण वयसा च मे ।
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ ५.१०३.२१ ॥

天仙圣人啊,他的专注、坚毅、容貌与青春已经进入我的心中;他是功克希所选择的夫婿。

5.103.22

मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात् ।
निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ ५.१०३.२२ ॥

摩多梨见到美面者苏穆迦,心中欢喜;于是他向摩多梨讲述了其人的威德、出身与事迹。

5.103.23

ऐरावतकुले जातः सुमुखो नाम नागराट् ।
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ ५.१०३.२३ ॥

苏穆迦是一位蛇王,生于象王(爱罗婆多)一族,被认为是阿里耶迦之孙、侏儒(婆摩那)之外孙。

5.103.24

एतस्य हि पिता नागश्चिकुरो नाम मातले ।
नचिराद्वैतनेयेन पञ्चत्वमुपपादितः ॥ ५.१०३.२४ ॥

摩多梨啊,他的父亲名叫奇库罗,是一条蛇,不久前被毗陀那之子杀死。

5.103.25

ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः ।
एष मे रुचितस्तात जामाता भुजगोत्तमः ॥ ५.१०३.२५ ॥

于是摩多利心怀欢喜,对那罗陀说道:“尊者,这位蛇中之最,我愿意以他为女婿。”

5.103.26

क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै ।
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ॥ ५.१०३.२६ ॥

“牟尼啊,请在此事上努力吧;我确实欢喜,要把我心爱的女儿嫁给这位那伽。”