摩诃婆罗多 · 章 5.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.11.1
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः ।
अयं वै नहुपः श्रीमान्देवराज्येऽभिषिच्यताम् ॥ ५.११.१ ॥
于是诸仙人与三天之主的众神说:
5.11.2
तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा ।
ते गत्वा त्वब्रुवन्सर्वे राजा नो भव पार्थिव ॥ ५.११.२ ॥
他光辉、著名且始终持法。他们都前去对他说:
5.11.3
स तानुवाच नहुषो देवानृपिगणांस्तथा ।
पितृभिः सहितान्राजन्परिप्सन्हितमात्मनः ॥ ५.११.३ ॥
于是那罗迦对众神、仙人群以及与祖灵在一起的人说道,啊国王,他是在谋求自身的利益。
5.11.4
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।
बलवाञ्ज्ञायतां कश्चिद्बलं शक्रे हि नित्यदा ॥ ५.११.४ ॥
「我软弱,没有保护你们的力量。应当寻找一位强者,因为力量常在因陀罗那里。」
5.11.5
तमब्रुवन्पुनः सर्वे देवा ऋषिपुरोगमाः ।
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥ ५.११.५ ॥
于是众神以仙人为首,再次对他说:
5.11.6
परस्परभयं घोरमस्माकं हि न संशयः ।
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥ ५.११.६ ॥
「我们彼此之间的恐惧是可怕的,这毫无疑问。啊,王中之王,请接受灌顶,成为三天之王吧。」
5.11.7
देवदानवयक्षाणामृषीणां रक्षसां तथा ।
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्। ॥ ५.११.७ ॥
诸天、檀那婆、夜叉、仙人与罗刹,以及祖灵、乾闼婆和鬼神,凡居于目力所及之处者。
5.11.8
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ।
धर्मं पुरस्कृत्य सदा सरवलोकाधिपो भव ॥ ५.११.८ ॥
你将获得光辉,在观望之间便会变得强大。始终以法为先,成为一切世界的主宰。
5.11.9
ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे ।
अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे ॥ ५.११.९ ॥
也要在天界守护梵仙与诸神。啊,诸王之主,受灌顶之后,你便在天界为王。
5.11.10
धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् ।
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ॥ ५.११.१० ॥
他以法为先,于是成为一切世界的主宰,获得极难得的恩惠,并在天界得到王位。
5.11.11
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ।
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ॥ ५.११.११ ॥
他虽始终秉性正直,却变得心怀欲念,游走于诸神的一切园囿与难陀园林之中。
5.11.12
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥ ५.११.१२ ॥
在凯拉什山、喜马拉雅之巅、曼达拉山、白山、萨希亚山、摩亨德拉山、马拉亚山,以及海洋与河流之中。
5.11.13
अप्सरोभिः परिवृतो देवकन्यासमावृतः ।
नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा ॥ ५.११.१३ ॥
被天女环绕,被神女簇拥,诸神之王那护沙那时以种种方式嬉戏。
5.11.14
श्रृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।
वादित्राणि च सर्वाणि गीतं च मधुरस्वनम् ॥ ५.११.१४ ॥
他聆听种种悦耳的神圣故事,以及一切乐器和甜美歌声的演奏。
5.11.15
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥ ५.११.१५ ॥
毗湿伐薮与那罗陀,乾达婆与天女的众群,以及六季具象显现,都侍立于众神之王面前。
5.11.16
मारुतः सुरभिर्वाति मनोज्ञः सत्वशीतलः ।
एवं विक्रीडतस्तस्य नहुषस्य दुरात्मनः ॥ ५.११.१६ ॥
芬芳、宜人、清凉而舒适的风吹拂着;就这样,那恶心的那护沙正在嬉戏之时。
5.11.17
संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ।
स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः ॥ ५.११.१७ ॥
因陀罗心爱的正妃天女显现了;那恶心者见到她,便对所有的侍臣说。
5.11.18
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ।
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ॥ ५.११.१८ ॥
因陀罗的正妃天女为何不来侍奉我?我就是因陀罗,也是诸神与诸世界的主宰。
5.11.19
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ॥ ५.११.१९ ॥
“愿舍至今日速来我居所。”女神闻言心烦意乱,便对布里哈斯帕提说道。
5.11.20
रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता ।
सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे ॥ ५.११.२० ॥
“婆罗门啊,请从那呼沙保护我;我已来到您这里寻求庇护。”“婆罗门啊,您说我具备一切吉祥之相。”
5.11.21
देवराजस्य दयितामत्यन्तं सुखभागिनीम् ।
अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम् ॥ ५.११.२१ ॥
天王最为所爱,分享幸福,未曾守寡,唯一之妻,忠于丈夫。
5.11.22
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ।
नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर ॥ ५.११.२२ ॥
“你先前对我说过;请使那话成真。”“尊贵的主啊,你从未曾说过虚妄之言。”
5.11.23
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ।
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ॥ ५.११.२३ ॥
因此,二生者中最上之人啊,愿你所说成真。于是布里哈斯帕提对因恐惧而迷乱的因陀罗尼说道。
5.11.24
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ।
द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम् ॥ ५.११.२४ ॥
女神啊,我所说的必定成真;你很快就会看到天王因陀罗已来到此处。
5.11.25
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ।
समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥ ५.११.२५ ॥
不要害怕那诃奢(Nahuṣa);我这是真实地告诉你。不久我就会让你与帝释(Śakra,因陀罗)重聚。
5.11.26
अथ शुश्राव नहुष इन्द्राणीं शरणीं गताम् ।
बृहस्पतेरङ्गिरसश्रुक्रोध स नृपस्तदा ॥ ५.११.२६ ॥
那时,诃奢听说因陀罗尼已投靠安吉罗斯族的布里哈斯帕蒂,那位国王便震怒了。