摩诃婆罗多 · 章 5.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.110.1
इयं दिग्दियिता राज्ञो वरुणस्य तु गोपतेः ।
सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥ ५.११०.१ ॥
此方位为水王、牛群之主王伐楼那所钟爱;这里永远是他的座位与山岳。
5.110.2
अत्र पश्चादहः सूर्यो विसर्जयति गाः स्वयम् ।
पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥ ५.११०.२ ॥
在此,日暮时分太阳自己收回光芒;此方位,二生者中的最优者,以西方之名而闻名。
5.110.3
यादसामत्र राज्येन सलिलस्य च गुप्तये ।
कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ॥ ५.११०.३ ॥
此处为护卫水中生灵与水域,尊贵的神迦叶波为伐楼那举行了王位灌顶。
5.110.4
अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् ।
जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥ ५.११०.४ ॥
此处,饮尽伐楼那的六种精华后,在白半月之初诞生了年轻的月亮,驱散黑暗者。
5.110.5
अत्र पञ्चात्कृता दैत्या वायुना संयतास्तदा ।
निश्चसन्तो महावातैरर्दिताः सुषुपुर्द्विज ॥ ५.११०.५ ॥
此处,所造第五类的达提耶被风所制伏;受大风折磨,叹息着睡去了,哦,再生者。
5.110.6
अत्र सूर्यं प्रणयिनं प्रतिगृह्णाति पर्वतः ।
अस्तो नाम यतः सन्ध्या पश्चिमा प्रतिसर्यति ॥ ५.११०.६ ॥
此处,山岳迎接心爱的太阳,名为阿斯塔;西方的暮色便从那里缓缓爬回。
5.110.7
अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये ।
जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥ ५.११०.७ ॥
从此处,在白昼终了时,夜与睡眠出现,仿佛要夺走众生世界一半的寿命。
5.110.8
अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् ।
विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥ ५.११०.८ ॥
在此,因陀罗使熟睡中怀着自己胎儿的天女迪提失去胎儿;也正是在此,摩录多群神诞生。
5.110.9
अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् ।
अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ॥ ५.११०.९ ॥
在此,喜马拉雅之根永恒延伸至曼陀罗山;即使千年也无法抵达其尽头。
5.110.10
अत्र काञ्चनशैलस्य काञ्चनाम्बुरुहस्य च ।
उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥ ५.११०.१० ॥
在此,抵达海岸,靠近金山与金莲,香牛苏罗毗流出乳汁。
5.110.11
अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते ।
स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥ ५.११०.११ ॥
在此,大海中央显现一具无头之躯,乃如太阳般的斯伐罗跋奴所化,他欲杀害月亮与太阳。
5.110.12
सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः ।
अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ॥ ५.११०.१२ ॥
在此听到金头、黄毛者放声歌唱的巨大声响——那无形、无量者的声音。
5.110.13
अत्र ध्वजवती नाम कुमारी हरिमेधसः ।
आकाशे तिष्ठतिष्ठेति तस्थौ सूर्यस्य शासनात् ॥ ५.११०.१३ ॥
这里有一位名叫Dhvajavatī的少女,是Harimedhas之女,她遵照太阳的命令,在天空中停住,说:“站住,站住!”
5.110.14
अत्र वायुस्तथा वह्निरापः खं चापि गालव ।
आह्निकं चैव नैशं च दुःखं स्पर्शं विमुञ्चति ॥ ५.११०.१४ ॥
噫,Gālava,这里有风、火、水,也有虚空;白昼与黑夜的痛苦与触碰,在此都得以解脱。
5.110.15
अतःप्रभृति सूर्यस्य तिर्यगावर्तते गतिः ।
अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ॥ ५.११०.१५ ॥
从此以后,太阳的运行斜向回转;在此,一切光耀之体都进入太阳之轮。
5.110.16
अष्टाविंशतिरात्रं च क्रम्य सह भानुना ।
निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ॥ ५.११०.१६ ॥
与太阳同行二十八夜之后,它们因月亮的合会之力,再从太阳中出来。
5.110.17
अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः ।
अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणालये ॥ ५.११०.१७ ॥
此处有江河永恒的源头和大海的升起;三界之水都停留在水神Varuṇa的居所之中。
5.110.18
अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् ।
अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥ ५.११०.१८ ॥
这里也是蛇王Ananta的居所,这里也是无始无终的毗湿奴的最高居所。
5.110.19
अत्रानलसखस्यापि पवनस्य निवेशनम् ।
महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम् ॥ ५.११०.१९ ॥
此处也是火之友风神的居所。此处是大仙人迦叶波的居所,也是摩利集的居所。
5.110.20
एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः ।
ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥ ५.११०.२० ॥
这是你的西方之路,经由方位之门而宣示。迦罗婆啊,说吧,我们走吧。最优秀的再生者,你的决心如何?