Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.112.1

गरुत्मन्भुजगेन्द्रारे सुपर्ण विनतात्मज ।
नय मां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी ॥ ५.११२.१ ॥

哦,迦噜荼,蛇王的敌人,善翼者,毗那多之子!请带我向东而去,那里有法的双眼。

5.112.2

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।
देवतानां हि सान्निध्यमत्र कीर्तितवानसि ॥ ५.११२.२ ॥

请先往前所说的这个方向去吧;因为你自己已在此宣说了诸神的所在。

5.112.3

अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः ।
इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम्।
भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ॥ ५.११२.३ ॥

你在这里已善于宣说了真理与法。我愿与一切诸神相会,也愿再次见到那些神,阿鲁那的幼弟啊。

5.112.4

तमाह विनतासूनुरारोहस्वेति वै द्विजम् ।
आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥ ५.११२.४ ॥

毗那多之子对那位再生者说:“上来吧。”于是那位仙人迦拉婆便骑上了迦噜荼。

5.112.5

क्रममाणस्य ते रूपं दृश्यते पन्नगाशन ।
भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥ ५.११२.५ ॥

噬蛇者啊,你大步前行时的身形,宛如清晨时分千道光芒的毗婆娑特太阳。

5.112.6

पक्षवातप्रणुन्नानां वृक्षाणामनुगामिनाम् ।
प्रस्थितानामिव समं पश्यामीह गतिं खग ॥ ५.११२.६ ॥

鸟啊,我在此看见你的飞行,如同被你双翼之风吹动、随你一同前行的树木。

5.112.7

ससागरवनामुर्वी सशैलवनकाननाम् ।
आकर्षन्निव चाभासि पक्षवातेन खेचर ॥ ५.११२.७ ॥

你仿佛要将大地连同海洋、森林、山岳与林园一并拉起,借着双翼的风而显现,哦,飞行于天空的鸟。

5.112.8

समीननागनक्रं च खमिवारोप्यते जलम् ।
वायुना चैव महता पक्षवातेन चानिशम् ॥ ५.११२.८ ॥

连同鱼、蛇与鳄鱼的水,仿佛被举向天空——由大风,并且不断地由你双翼的风。

5.112.9

तुल्यरूपाननान्मत्स्यांस्तथा तिमितिमिङ्गिलान् ।
नागाश्वनरवक्रांश्च पश्याम्युन्मथितानिव ॥ ५.११२.९ ॥

我看见形貌与面目相同的鱼、提米与提明伽罗,以及有蛇、马、人之面的生物,仿佛被搅动翻腾。

5.112.10

महार्णवस्य च रवैः श्रोत्रे मे बधिरे कृते ।
न श्रृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥ ५.११२.१० ॥

我的耳朵被大海的咆哮震聋了。我听不见,也看不见,更不知道自身这般境况的缘由。

5.112.11

शनैः स तु भवात्यातु ब्रह्मवध्यामनुस्मरन् ।
न दृश्यते रविस्तात न दिशो न च खं खग ॥ ५.११२.११ ॥

他渐渐地,回想起杀害婆罗门之事……亲爱的,太阳不可见,方位也不见,天空也不见,哦,鸟啊。

5.112.12

तम एव तु पश्यामि शरीरं ते न लक्षये ।
मणी व जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥ ५.११२.१२ ॥

我只见黑暗,看不清你的身体。哦,卵生者,我看见你的双眼,犹如两颗上好的宝珠。

5.112.13

शरीरं तु न पश्यामि तव चैवात्मनश्च ह ।
पदेपदे तु पश्यामि शरीरादग्निमुत्थितम् ॥ ५.११२.१३ ॥

我既看不见你的身体,也看不见自己的身体;每走一步,我都看见火从你的身体中升起。

5.112.14

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः ।
तन्नियच्छ महावेगं गमने विनतात्मज ॥ ५.११२.१४ ॥

它突然熄灭我眼中的火,又使它们重新平静。毗娜妲之子啊,请收住你这极大的速度。

5.112.15

न मे प्रयोजनं किंचिद्गमने पन्नगाशन ।
संनिवर्त महाभाग न वेगं विषहामि ते ॥ ५.११२.१५ ॥

这次旅程对我毫无意义,食蛇者啊。请转身回去,大福之人啊;我承受不了你的速度。

5.112.16

गुरवे संश्रुतानीह शतान्यष्टौ हि वाजिनाम् ।
एकतःश्यामकर्णानां शुभ्राणां चन्द्रवर्चसाम् ॥ ५.११२.१६ ॥

我在此已向师父许诺八百匹马——一侧是黑耳的,洁白如月光的马。

5.112.17

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज ।
ततोऽयं जीवितत्यागे दृष्टो मार्गोमयाऽऽत्मनः ॥ ५.११२.१७ ॥

卵生者啊,我看不到完成它们的途径;于是我看见了自己唯一的路——舍弃生命。

5.112.18

नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् ।
न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥ ५.११२.१८ ॥

我一无所有,我的朋友也不富有;即使以巨额财富,也无法消除此事。

5.112.19

एवं बहु च दीनं च ब्रुवाणं गालवं तदा ।
प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥ ५.११२.१९ ॥

当迦罗婆如此多言且极为哀苦时,毗娜塔之子边走边笑着回答了他。

5.112.20

नातिप्रज्ञोऽसि विप्रर्षे योत्मानं त्युक्तुमिच्छसि ।
न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥ ५.११२.२० ॥

婆罗门仙人啊,你并不十分明智,竟想束缚自己而舍弃自身。时间并非人为造作;时间正是至高的主宰。

5.112.21

किमहं पूर्वमेवेह भवता नाभिचोदितः ।
उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥ ५.११२.२१ ॥

你为何先前在此不向我请求呢?此处有一个伟大的方法,可以成就此事。

5.112.22

तदेष ऋषभो नाम पर्वतः सागरान्तिके ।
अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ ५.११२.२२ ॥

看,这座名为利沙婆的山就在大海边。在此休息用餐之后,迦罗婆啊,我们便返回吧。