Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.114.1

अथाह गालवं दीनं सुपर्णः पततां वरः ।
निर्मितं वह्निना भूमौ वायुना शोधितं तथा।
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥ ५.११४.१ ॥

于是鸟中之王苏跋那对沮丧的伽罗婆说:它由火在地中所成,由风所净化;因为一切皆是金色的,所以它被称为金(hiraṇya)。

5.114.2

धत्ते धारयते चेदमतस्मात्कारणाद्धनम् ।
तदेतत्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥ ५.११४.२ ॥

它承载并维持,因此得名为财富(dhana)。这财富在三界中永久存在。

5.114.3

नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा ।
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥ ५.११४.३ ॥

常常经由二室宿,以及财神金星;同样,金星从人间取走以心思所得之财。

5.114.4

अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च ।
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ।
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ॥ ५.११४.४ ॥

独足(Aja-Ekapād)与蛇底(Ahirbudhnya)为施财者(俱毗罗)所守护。二生者中的最优者啊,如此则不可得之物不能得到;没有马的财富,你便不能获得它。

5.114.5

स त्वं याचात्र राजानं कंचिद्राजर्षिवंशजम् ।
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ॥ ५.११४.५ ॥

你应当向这里某位出自王仙家族的国王求取,他不压迫百姓,便能成全我们两人的心愿。

5.114.6

अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा ।
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥ ५.११४.६ ॥

在月族之中,有一位国王是我的朋友,出自我的家族;我们去见他吧,因为他在大地上拥有权势与财富。

5.114.7

ययातिर्नाम राजर्षिर्नोहुषः सत्यविक्रमः ।
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥ ५.११४.७ ॥

王仙耶雅提(Yayāti),那舞舍之子,真勇者,因我已告知,且您亲自请求,他必会给予。

5.114.8

विभवश्चास्य सुमहानासीद्धनपतेरिव ।
एवं गुरुधनं विद्वन्दानेनैव विशोधय ॥ ५.११४.८ ॥

他的财富极为庞大,如同财神(俱毗罗)。故此,智者啊,唯以布施来清偿师长之财。

5.114.9

तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम् ।
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ॥ ५.११४.९ ॥

二人如此交谈,并商议何者为宜,来到了普拉提斯塔纳的国王耶雅提面前。

5.114.10

प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम् ।
पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥ ५.११४.१० ॥

以敬意接受了上好的阿尔伽(迎宾水)、洗足水等供奉,被问及来意时,毗娜塔之子说道。

5.114.11

अयं मे नाहुष सखा गालवस्तपसो निधिः ।
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥ ५.११४.११ ॥

那舞舍之子啊,这是我的朋友迦罗婆,苦行的宝藏。大王啊,他作为毗奢蜜多罗的弟子,度过了数以万计的岁月。

5.114.12

सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः ।
तमाह भगवान्किं ते ददानि गुरुदक्षिणाम् ॥ ५.११४.१२ ॥

此婆罗门蒙其许可,欲报其恩,对他说:尊者啊,我该以何物作为师酬(古卢达克希那)奉献给您?

5.114.13

असकृत्तेन चोक्तेन किंचिदागतमन्युना ।
अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥ ५.११४.१३ ॥

他被一再这样说,心中生起些许愤怒,被要求道:“把这个给我”,尽管他知道自己的财力,却草率地(如此要求)。

5.114.14

एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् ।
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥ ५.११४.१४ ॥

请给我八百匹马:一侧耳朵黑色,白色,出身纯正,光彩如月。

5.114.15

गुर्वर्थो दीयतामेव यदि गालव मन्यसे ।
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥ ५.११४.१५ ॥

“若你认为合适,就把这个作为给老师的酬谢吧。”苦行富有的毗首密多罗愤怒地如此说道。

5.114.16

सोऽयं शोकेन महता तप्यमानो द्विजर्षभः ।
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥ ५.११४.१६ ॥

那位婆罗门中的俊杰,被巨大的悲痛所煎熬,无力报复,因而来到您的庇护之下。

5.114.17

प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः ।
कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः ॥ ५.११४.१७ ॥

人中之虎啊,他从您那里接受布施,摆脱痛苦,为老师完成酬谢,将修行伟大的苦行。

5.114.18

तपसः संविभागेन भवन्तमपि योक्ष्यते ।
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥ ५.११४.१८ ॥

他将分享自己的苦行,也使您参与其中;以他自己的王仙苦行,他将使您圆满。

5.114.19

यावन्ति रोमाणि हये भवन्तीह नरेश्वर ।
तावन्तो वाजिनो लोकान्प्राप्नुवन्ति महीपते ॥ ५.११४.१९ ॥

此马身上有多少毛,人主啊,行马祠者便得到多少世界,地上之主啊。

5.114.20

पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् ।
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ॥ ५.११४.२० ॥

此人是受施的合适人选,你是施予的合适人选。让这个比喻成立:如同牛奶留存于海螺之中。