摩诃婆罗多 · 章 5.115
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.115.1
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ ५.११५.१ ॥
苏跋那如此说完,国王专心思量这真实而殊胜的话语,反复加以决断。
5.115.2
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥ ५.११५.२ ॥
已行千祭的施主、布施之主、大能的全迦尸之王耶夜提说出了这些话。
5.115.3
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ ५.११५.३ ॥
见到我亲爱的朋友塔尔克希耶和二生者中的最优者伽罗婆,以及作为苦行典范、值得称赞且闻名的乞食,
5.115.4
अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥ ५.११५.४ ॥
越过其他出生于日种族的国王,他们来到了我的面前;思量此意之后,
5.115.5
अद्य मे सफलं जन्म तारितं चाद्य मे कलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ॥ ५.११५.५ ॥
今天我的生命有了果报,今天我的家族得救了。无垢的塔尔克希耶啊,今天因你,我这片国土也得救了。
5.115.6
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ॥ ५.११५.६ ॥
朋友啊,我想说:你过去所认识的我,如今已不那么富有;朋友啊,我的财富已经衰减了。
5.115.7
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे ॥ ५.११५.७ ॥
啊,鸟啊,我不能使你的来临徒劳,也不敢使这位仙人的希望落空。
5.115.8
पुत्रीं दास्यामि यत्कार्यमियं संपादयिष्यति ।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥ ५.११५.८ ॥
我将把女儿给你,她会完成这件事。的确,满怀失望而归的人会焚烧他的家族。
5.115.9
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।
प्रथाशानाशनं लोके देहि नास्तीति वा वचः ॥ ५.११५.९ ॥
啊,毗娜塔之子,世上没有比这更罪恶的了:对说“给我”的人说“没有”,就如同拒绝食物。
5.115.10
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥ ५.११५.१० ॥
希望破灭、事情未成的人,即使受到敬重,也等同于被杀;他会毁掉那不为他行善之人的儿子和孙子。
5.115.11
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम ।
माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी ॥ ५.११५.११ ॥
因此,啊,塔尔克希亚,我这个名叫摩陀维的女儿能建立四种种姓,并赐予一切法。
5.115.12
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ।
सदा देवमनुष्यणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ ५.११५.१२ ॥
她如同诸神之女,能增长一切法。啊,伽罗婆,这位少女因美貌而常被神、人和阿修罗所渴望,她是我的女儿;请接受她吧。
5.115.13
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम् ।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ ५.११५.१३ ॥
国王们必定会把王国都作为她的聘礼;更何况黑耳马二百和四百匹呢。
5.115.14
स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम् ।
अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो ॥ ५.११५.१४ ॥
愿他接受我这个女儿摩陀维;愿我因她而成为外孙的父亲——这便是我的心愿,主人啊。
5.115.15
स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ ५.११५.१५ ॥
这位持有受赞誉誓愿的婆罗门听了他的话,接受了那位少女;对鸟说了“我们会再相见”之后,仲伽罗便与少女一同出发了。
5.115.16
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ ५.११५.१६ ॥
鸟说:“马的这扇门已经找到了。”便向仲伽罗告辞,回到了自己的住所。
5.115.17
गते पतगराजे तु गालवः सह कन्यया ।
चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत् ॥ ५.११५.१७ ॥
鸟王离去之后,仲伽罗与少女一同,思索着应当的布施,为了聘礼前往一位国王那里。
5.115.18
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ ५.११५.१८ ॥
他心中向伊刹伐柯家族的诃梨耶波、诸王中最优秀者、在阿逾陀、威力巨大、拥有四军的国王走去。
5.115.19
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ ५.११५.१९ ॥
拥有财库、粮食与军队,受民众和再生者喜爱,渴望子嗣,平静地修持至高苦行。
5.115.20
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ ५.११५.२० ॥
婆罗门迦罗婆走近哈里耶斯瓦说:"王中之王啊,这是我的女儿,她将以子嗣增益家族。"
5.115.21
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ॥ ५.११५.२१ ॥
"哈里耶斯瓦,请以聘礼娶她为妻。我将告诉你聘礼,听后再加考虑吧。"