Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.118.1

तथैव तां श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी ।
माधवी गालवं विप्रमभ्ययात्सत्यसङ्गरा ॥ ५.११८.१ ॥

同样地,她舍弃了那份荣华,重新成为少女,名声远扬、言出必践的摩陀维走向婆罗门迦罗婆。

5.118.2

गालवो विमृशन्नेव स्वकार्यगतमानसः ।
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ॥ ५.११८.२ ॥

迦罗婆心中专注于自己的事情,一边思量,一边前往跋阇城,去见乌西那罗王。

5.118.3

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् ।
इय कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ॥ ५.११८.३ ॥

于是他前去对那位真正勇武的国王说:"这位少女将为你生下两个儿子,二人都将成为国王。"

5.118.4

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च ।
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ॥ ५.११८.४ ॥

国王啊,你将由她生下如日月般的两个儿子,今生来世都将成就你的心愿。

5.118.5

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् ।
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ॥ ५.११८.५ ॥

但作为聘礼,通晓一切法的人啊,应当给我四百匹如月般明亮、一侧耳朵为黑色的马。

5.118.6

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे ।
यदि शक्यं महाराज क्रियतामविचारितम् ॥ ५.११८.६ ॥

此事是为了老师,我用不着马匹。大王啊,若能做到,便不必犹豫,立即去办。

5.118.7

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव ।
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ॥ ५.११८.७ ॥

王中仙人,你无子嗣。国王啊,生育两个儿子吧;以子嗣为筏,助你的祖先和你自己渡过彼岸。

5.118.8

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः ।
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ॥ ५.११८.८ ॥

王中仙人啊,享受子嗣之果的人不会从天上坠落,也不会堕入无子之人所去的可怕地狱。

5.118.9

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् ।
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ॥ ५.११८.९ ॥

听完这些以及伽拉瓦所说的种种其他话语,人王乌尸那罗给了他这样的回答。

5.118.10

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव ।
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ॥ ५.११८.१० ॥

伽拉瓦啊,我听了你所说的话。婆罗门啊,命运确实强大,而我的心也倾向于此。

5.118.11

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम ।
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ॥ ५.११८.११ ॥

再生者中最优秀的人啊,我有这样的马二百匹,其他的则有数以千计,成群地在我身边徜徉。

5.118.12

अहमप्येकमेवास्यां जनयिष्यामि गालव ।
पुत्रवद्भिर्गतं मार्गं गमिष्यामि परैरहम् ॥ ५.११८.१२ ॥

伽拉瓦啊,我也要从她那里生一个儿子。我将走有子之人所走过的道路,与其他人一同前行。

5.118.13

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम ।
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ॥ ५.११८.१३ ॥

再生族中最优秀的人啊,我甚至愿意付出同等的价格给你。但我的目的不是为了自己的享乐,而是为了城乡百姓的利益。

5.118.14

कामतो हि धनं राजा पारक्यं यः प्रयच्छति ।
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ॥ ५.११८.१४ ॥

德行高尚的人啊,国王若因贪欲而施舍他人的财富,他既不与法相应,也不与名声相连。

5.118.15

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम ।
कुमारीं देवगर्भाभामेकपुत्रभवाय मे ॥ ५.११८.१५ ॥

因此我将接受。请把这位光彩如同从天女胎中所生的少女交给我,使我得一子。

5.118.16

तथा तु बहुधा कन्यामुक्तवन्तं नराधिपम् ।
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ॥ ५.११८.१६ ॥

于是,再生族中最优秀的迦婆罗,对以多种方式谈及献出少女的国王乌尸那罗,予以回礼般的敬重。

5.118.17

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् ।
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ॥ ५.११८.१७ ॥

迦婆罗从乌尸那罗处接受了她,便进入森林。他亲近她,欢喜如同行善积福之人获得福运一般。

5.118.18

कन्दरेषु च शैलानां नदीनां निर्झरेषु च ।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ॥ ५.११८.१८ ॥

在山间洞穴中、河流与山泉旁、奇妙的游园里,以及森林和园林之中,他也尽情欢乐。

5.118.19

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च ।
वातायनविमानेषु तथा गर्भगृहेषु च ॥ ५.११८.१९ ॥

在华美的殿堂、宫殿的顶端、有窗的楼阁以及内室之中。

5.118.20

ततोऽस्य समये यज्ञे पुत्रो बालरविप्रभः ।
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ॥ ५.११८.२० ॥

此后,在他举行祭祀之时,生下一子,光辉如初升之日,以尸毗之名闻名,是最优秀的国王。

5.118.21

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च ।
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ॥ ५.११८.२१ ॥

婆罗门迦罗婆走近他,接受了那位少女后便离去;大王,他看见她与毗娜塔之子(迦鲁达)在一起。