摩诃婆罗多 · 章 5.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.119.1
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् ।
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ॥ ५.११९.१ ॥
于是毗娜塔之子笑着对迦罗婆说道:“婆罗门啊,幸运的是,我看到你在此已达成所愿。”
5.119.2
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् ।
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ॥ ५.११९.२ ॥
迦罗婆听了毗娜塔之子的话,告诉他这件事还剩四分之一未完成。
5.119.3
सुपर्णस्त्वब्रवीदेनं गालवं वदतां वरः ।
प्रयत्नस्ते न कर्तव्यो नैष संपत्स्यते तव ॥ ५.११९.३ ॥
语者中最优秀的苏帕尔纳对迦罗婆说:“你不该费力;这对你不会成功。”
5.119.4
पुरा हि कान्यकुब्जे वै गाधेः सत्यवतीं सुताम् ।
भार्यार्थे वरयत्कन्यामृचीकस्तेन भाषितः ॥ ५.११९.४ ॥
往昔在坎亚库布贾,利耶迦为娶迦地之女萨提亚瓦蒂为妻而求此少女,迦地对他这样说道。
5.119.5
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
भगवन्दीयतां मह्यं सहस्रमिति गालव ॥ ५.११९.५ ॥
“尊者啊,请给我一千匹马——一侧耳朵黝黑,光彩如月。”如此,迦罗婆啊。
5.119.6
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः ।
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ॥ ५.११९.६ ॥
利耶迦说:“就这样吧。”于是前往婆楼那的居所;在马渡口得到了马匹,便把它们交给了国王。
5.119.7
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु ।
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्ते तैः पार्थिवैस्तदा ॥ ५.११९.७ ॥
国王补达利迦举行祭祀,把礼物施给再生者;从每人那里各买两百匹,那时那些国王便得到了它们。
5.119.8
अपराण्यपि चत्वारि शतानि द्विजसत्तम ।
नीयमानानि संतारे हृतान्यासन्नितस्ततः ॥ ५.११९.८ ॥
再生者中的最优者啊,另外四百匹马被牵引着过河,在渡口被四处抢走了。
5.119.9
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ।
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय ॥ ५.११९.९ ॥
迦罗婆啊,像这样得不到的东西,永远无法得到;用两百匹马把她献给他吧。
5.119.10
विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह ।
ततोऽसि गतसंमोहः कृतकृत्यो द्विजोत्तम ॥ ५.११९.१० ॥
正直的人啊,把她连同六百匹马交给毗首弥多罗吧;那样你便脱离迷惑、事业完成了,再生者中的最优者啊。
5.119.11
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः ।
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ॥ ५.११९.११ ॥
迦罗婆说“就这样吧”,与妙翅鸟同行,然后带着马匹和少女,前往毗首弥多罗那里。
5.119.12
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै ।
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ॥ ५.११९.१२ ॥
这六百匹马是为所求之目的;连同两百匹,请您接受这位少女。
5.119.13
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः ।
चतुर्थं जनयत्वेकं भवानपि नरोत्तमम् ॥ ५.११९.१३ ॥
她已为王仙们生下三个正直的儿子。请您也让她为您生一个第四子,一位杰出的人。
5.119.14
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते ।
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ॥ ५.११९.१४ ॥
如此,愿您的八百匹马得以圆满,使我脱离对您的债务,得以安然修习苦行。
5.119.15
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा ।
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ॥ ५.११९.१५ ॥
毗首密多罗见到伽拉瓦与鸟同在,又见到那位腰肢美丽的少女,便说了这番话。
5.119.16
किमियं पूर्वमेवेह न दत्ता मम गालव ।
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ॥ ५.११९.१६ ॥
伽拉瓦啊,为何此前不把她给我?愿我自己有四个儿子,来光耀家族。
5.119.17
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै ।
अश्वाश्चाश्रममासाद्य चरन्तु मम सर्वशः ॥ ५.११९.१७ ॥
为了一个儿子的果报,我从你这里接受这位少女。愿马匹到达我的修行处后,四处皆如我的一样自由游走。
5.119.18
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः ।
आत्मजं जनयामास माधवीपुत्रमष्टकम् ॥ ५.११९.१८ ॥
于是毗首密多罗与她欢好,大放光明的他生下了自己的儿子,即摩陀维之子阿湿陀迦。
5.119.19
जातमात्रं सुतं तं च विश्वामित्रो महामुनिः ।
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ॥ ५.११९.१९ ॥
此子甫一出生,大仙维什瓦弥特拉便赐予他财富与职责,并以那些骏马为他配备。
5.119.20
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् ।
निर्यात्य कन्यां शिष्याय कौशिकोपि वनं ययौ ॥ ५.११९.२० ॥
于是阿湿妥迦前往他的城市,光辉如苏摩之城;憍尸迦也将少女交给弟子后,前往森林。
5.119.21
गालवोपि सुपर्णेन सह निर्यात्य दक्षिणाम् ।
मनसाऽतिप्रतीतेन कन्यामिदमुवाच ह ॥ ५.११९.२१ ॥
迦罗婆也与金翅鸟一同奉上酬金,心中极为欢喜,对少女说了这番话。
5.119.22
जातो दानपतिः पुत्रस्त्वया शूरस्तथाऽपरः ।
सत्यधर्मरतश्चान्यो यज्वा चापि तथाऽपरः ॥ ५.११९.२२ ॥
你已生下一子,为施舍之主;又生一名勇士;一人专注于真理与法,另一人行祭祀,还有一人亦然。
5.119.23
तदागच्छ वरारोहे तारितस्ते पिता सुतैः ।
चत्वारश्चैव राजानस्तथा चाहं सुमध्यमे ॥ ५.११९.२३ ॥
所以来吧,美臀的女子;你的父亲已因诸子而得度,四王和我也一样,啊,纤腰的女子。
5.119.24
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् ।
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ॥ ५.११९.२४ ॥
迦罗婆向食蛇者苏跋那告辞,将少女交还其父,便前往森林。