Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.12.1

क्रुद्धं तु नहुषं दृष्ट्वा देवा ऋषिपुरोगमाः ।
अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ॥ ५.१२.१ ॥

众神在诸仙人的引领下,见怒气冲冲的那霍沙,便对众神之王、面目可怖的那霍沙说道。

5.12.2

देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो ।
त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् ॥ ५.१२.२ ॥

众神之王啊,请息怒。世界之主啊,你若发怒,连阿修罗、乾闼婆、紧那罗和大蛇在内的整个世界都会战栗。

5.12.3

जहि क्रोधमिमं साधो न कुप्यन्ति भवद्विधाः ।
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥ ५.१२.३ ॥

善人啊,请放下这份愤怒。像你这样的人是不会发怒的。那位女神是他人之妻;天神之主啊,请息怒施恩。

5.12.4

निवर्तय मनः पापात्परदाराभिमर्शनात् ।
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ॥ ५.१२.४ ॥

从触碰他人之妻的罪孽中收回你的心吧。你是众神之王,愿你吉祥。依法护佑你的臣民。

5.12.5

एवमुक्तो न जग्राह तद्वचः काममोहितः ।
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥ ५.१२.५ ॥

虽如此劝说,被欲望迷惑的那霍沙仍不接受那些话。于是众神之主便对众神谈及因陀罗说道。

5.12.6

अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी ।
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥ ५.१२.६ ॥

往昔,因陀罗在其夫尚在世时侵犯了声名远扬的仙人之妻阿诃厘耶。你们为何不阻止他?

5.12.7

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा ।
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥ ५.१२.७ ॥

往昔因陀罗犯下许多残酷之行、非法之事与欺诈。你们为何不制止他?

5.12.8

उपतिष्ठतु देवी मामेतदस्या हितं परम् ।
युष्माकं च सदा देवाः शिवमेवं भविष्यति ॥ ५.१२.८ ॥

愿女神来到我这里,这正是她的至善。诸神啊,如此,你们也将永远吉祥。

5.12.9

इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ।
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥ ५.१२.९ ॥

天界之主啊,我们将依你所愿把因陀罗尼带来。英雄啊,请舍弃这份愤怒;诸神之王啊,请息怒、欢喜吧。

5.12.10

इत्युक्त्वा तं तदा देवा ऋषिभिः सह भारत ।
तग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥ ५.१२.१० ॥

婆罗多之子啊,诸神与仙人说完这些话后,前往木星(Bṛhaspati)处,要说关于因陀罗尼的不吉之言。

5.12.11

जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि ।
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ॥ ५.१२.११ ॥

我们知道因陀罗尼已在你家寻求庇护,婆罗门中最优秀者、神仙中最杰出者啊,你已经赐予她无畏。

5.12.12

ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते ।
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥ ५.१२.१२ ॥

光辉者啊,诸神、乾达婆与仙人都在恳求你:请将因陀罗尼交给那呼沙。

5.12.13

इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः ।
वृणोत्विमं वरारोहा भर्तृत्वे वरवर्णिनी ॥ ५.१२.१३ ॥

那诃沙是诸神之王,胜过因陀罗,光辉极盛。愿这位细腰美貌的女子选他为夫。

5.12.14

एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वनम् ।
उवाच रुदती दीना बृहस्पतिमिदं वचः ॥ ५.१२.१४ ॥

如此说罢,那位女神含泪哽咽,痛哭而悲苦,对木星(Bṛhaspati)说了这些话。

5.12.15

नाहमिच्छामि नहुषं पतिं देवर्षिसत्तम ।
शरणागतास्मि ते ब्रहंस्त्रायस्व महतो भयात् ॥ ५.१२.१५ ॥

诸天仙中最尊贵者啊,我不愿以那诃沙为夫。我已投奔你的庇护;梵天啊,请救我脱离这巨大的恐惧。

5.12.16

शरणागतं न त्यजेयमिन्द्राणि मम निश्चयः ।
धर्मज्ञां सत्यशीलां च न त्यजेयमनिन्दिते ॥ ५.१२.१६ ॥

因陀罗尼啊,投奔而来的人我不会抛弃;这是我的决心。你知晓法度、品性真实,我也不会抛弃你,无瑕的女子啊。

5.12.17

नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः ।
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ॥ ५.१२.१७ ॥

我身为婆罗门,尤其是闻知并通晓圣法、品性真实、懂得法度教诲的人,不愿做不当之事。

5.12.18

नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः ।
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥ ५.१२.१८ ॥

我不会这样做。诸神中最杰出者啊,你们去吧。请听听梵天往昔就此事所唱的歌。

5.12.19

न तस्य बीजं रोहति रोहकाले ।
न तस्य वर्षं वर्षति वर्षकाले।
भीतं प्रपन्नं प्रददाति शत्रवे ।
न स त्रातारं लभते त्राणमिच्छन् ॥ ५.१२.१९ ॥

凡惊恐而投靠他的人,却将其交给敌人者,其种子在发芽之时不会发芽,在雨季其上也不降雨;他虽求庇护,却找不到保护者。

5.12.20

मोघमन्नं विन्दति चाप्यचेताः ।
स्वर्गाल्लोकाद्धश्यति नष्टचेष्टः।
भीतं प्रपन्नं प्रददाति यो वै ।
न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥ ५.१२.२० ॥

愚昧之人将惊恐投靠的人交出,其食物徒劳无功;其努力落空,从天界与世界坠落;诸神不接受他的祭品。

5.12.21

प्रमीयते चास्य प्रजा ह्यकाले ।
सदा विवासं पितरोऽस्य कुर्वते।
भीतं प्रपन्नं प्रददाति शत्रवे ।
सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥ ५.१२.२१ ॥

他的子孙不待时而死;他的祖先总是放逐他;凡将惊恐投靠的人交给敌人者,诸神与因陀罗一同向他投下金刚杵。

5.12.22

एतदेवं विजानन्वै न दास्यामि शचीमिमाम् ।
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियां ॥ ५.१२.२२ ॥

既知此理,我不会交出这位舍姬——因陀罗尼,世间闻名,帝释天心爱的正妃。

5.12.23

अस्या हितं भवेद्यच्च मम चापि हितं भवेत् ।
क्रियतां तत्सुरश्रेष्ठा नहि दास्याम्यहं शचीम् ॥ ५.१२.२३ ॥

凡对她有利、对我也有利的事,诸神之首啊,就请去做吧;但我绝不交出舍姬。

5.12.24

अथ देवाः सगन्धर्वा गुरुमाहुरिदं वचः ।
कथं सुनीतं नु भवेन्मन्त्रयस्व बृहस्पते ॥ ५.१२.२४ ॥

于是诸天与乾达婆对导师说道:"婆利訶波提啊,此事如何才能成为善策?请您思量。"

5.12.25

नहुषं याचतां देवी किंचित्कालान्तरं शुभा ।
इन्द्राणि हितमेतद्धि तथाऽस्माकं भविष्यति ॥ ५.१२.२५ ॥

啊因陀罗尼,愿吉祥的天后向那呼沙请求些许时日;这是有益的,如此对我们也会有利。

5.12.26

बहुविघ्नः सुराः कालः कालः कालं नयिष्यति ।
गर्वितो बलवांश्चापि नहुषो वरसंश्रयात् ॥ ५.१२.२६ ॥

诸天啊,时机充满诸多障碍;时光将引领时光。那呼沙骄傲而强大,凭借所得的恩赐,他更是如此。

5.12.27

ततस्तेन तथोक्ते तु प्रीता देवास्तथाब्रुवन् ।
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वं दिवौकसाम् ॥ ५.१२.२७ ॥

诸天听了他的话,心中欢喜,说道:"梵天啊,您说得好;这对所有天界居民都是全然有益的。"

5.12.28

एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ।
ततः समस्ता इन्द्राणीं देवाश्चाग्निपुरोगमाः ॥ ५.१२.२८ ॥

"确实如此,二生者中的最上者;愿此天后得到安抚。"于是以火神为首的诸天对因陀罗尼说……

5.12.29

ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ।
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्।
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ॥ ५.१२.२९ ॥

他们心中平静,希望诸世界安宁,说道:"这整个世界,无论动与不动,都由你所承载。你是一夫之妻,且真实不虚;去见那呼沙吧。"

5.12.30

क्षिप्रं त्वामभिकामश्च विनशिष्यति पापकृत् ।
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥ ५.१२.३० ॥

女神啊,那个渴望你的罪人很快就会毁灭;那诃沙和帝释天(因陀罗)将获得诸神的王权。

5.12.31

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये ।
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥ ५.१२.३१ ॥

如此决断之后,因陀罗尼为了成就所愿,带着羞怯走向形貌可怖的那诃沙。

5.12.32

दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् ।
समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥ ५.१२.३२ ॥

那诃沙见她青春美貌,心怀邪念的他大为欢喜;他的心神已被欲望所击溃。